Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.27

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.27.1

एकः शास्ता न द्वितीयोस्ति शास्ता ।
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनैव युक्तः प्रवणादिवोदकं ।
यथा नियुक्तोस्मि तथा वहामि ॥ १४.२७.१ ॥

唯有一位导师,再无第二位导师。我遵循那居于心中的主宰而说话。受他引导,如水顺斜坡流下,我便朝着被指派的方向前行。

14.27.2

एको गुरुर्नास्ति ततो द्वितीयो ।
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनानुशिष्टा गुरुणा सदैव ।
पुरा हता दानवाः सर्व एव ॥ १४.२७.२ ॥

唯有一位导师,再无第二位导师。我遵循那居于心中的主宰而说话。在那位导师的常年教导下,往昔所有的檀那婆都被杀死了。

14.27.3

एको बन्धुर्नास्ति ततो द्वितीयो ।
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनानुशिष्टा बान्धवा बन्धुमन्तः ।
सप्तर्षयः पार्थ दिवि प्रभान्ति ॥ १४.२७.३ ॥

唯有一位亲人,再无第二位亲人。我遵循那居于心中的主宰而说话。受他教导的、有亲眷的七仙人,在天空中闪耀,阿周那啊。

14.27.4

एकः श्रोता नास्ति ततो द्वितीयो ।
यो हृच्छयस्तमहमनु ब्रवीमि।
तस्मिन्गुरौ गुरुवासं निरुष्यट ।
शक्रो गतः सर्वलोकामरत्वम् ॥ १४.२७.४ ॥

唯有一位聆听者,再无第二位聆听者。我遵循那居于心中的主宰而说话。在那位导师身边以弟子身份居住之后,因陀罗获得了诸界的不死。

14.27.5

एको द्वेष्टा नास्ति ततो द्वितीयो ।
यो हृच्छयस्तमहमनु ब्रवीमि।
तेनानुशिष्टा गुरुणा सदैव ।
लोके द्विष्टाः पन्नगाः सर्व एव ॥ १४.२७.५ ॥

唯有一位憎恨者,再无第二位憎恨者。我遵循那居于心中的主宰而说话。在那位导师的常年教导下,世间所有的蛇都被人憎恶。

14.27.6

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥ १४.२७.६ ॥

此处人们也引用这一古老的故事:蛇与天仙在生主面前的对话。

14.27.7

देवर्षयश्च नागाश्चाप्यसुराश्च प्रजापतिम् ।
पर्यपृच्छन्नुपासीनं श्रेयोः नः प्रोच्यतामिति ॥ १४.२७.७ ॥

天仙、蛇与阿修罗也向坐在身旁的生主请教:"请告诉我们,什么是我们的至善。"

14.27.8

तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् ।
ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥ १४.२७.८ ॥

对于请教者,世尊说:"唵——这一个音节即是梵。"他们听后便向四方逃散。

14.27.9

तेषां प्रद्रवमाणानामुपदेशं च शृण्वताम् ।
सर्पाणां दंशने भावः प्रवृत्तः पूर्वमे तु ॥ १४.२७.९ ॥

在奔逃者与聆听教导者之中,蛇中便生出了噬咬的本性——这本性先前便已出现。

14.27.10

असुराणां प्रवृत्तस्तु दंभभावः स्वभावजः ।
दानं देवा व्यवसिता दममेव महर्षयः ॥ १४.२७.१० ॥

阿修罗中生起了由其本性所生的虚伪之心;诸天决意于布施,大仙则唯决意于克己。

14.27.11

एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः ।
नानाव्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥ १४.२७.११ ॥

众蛇、天仙与檀那婆,同来拜见一位导师,同受一个音节的教化,却各自生出了不同的决断。

14.27.12

शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् ।
पृच्छतस्तदतो भूयो गुरुरन्यो न विद्यते ॥ १४.२७.१२ ॥

此人聆听所宣说的,并如实领会;若再询问,除此之外便再无别的导师。

14.27.13

तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते ।
गुरुर्बन्धुश्च शास्ता च द्वेष्टा च हृदि संश्रिताः ॥ १४.२७.१३ ॥

经其同意,行为随之而起;师长、亲族、教导者与仇敌,皆依止于心中。

14.27.14

पापेन विचरँल्लोके पापचारी भवत्ययम् ।
शुभेन विचरँल्लोके शुभचारी भवत्युत ॥ १४.२७.१४ ॥

以恶行游走于世间者,成为作恶之人;以善行游走于世间者,成为行善之人。

14.27.15

कामचारी तु कामेन य हन्द्रियसुखे रतः ।
ब्रह्मचारी सदैवैष य इन्द्रियजये रतः ॥ १४.२७.१५ ॥

若因欲望而耽于感官之乐者,是随欲而行之人;而此人常乐于克制诸根,便是梵行者。

14.27.16

अपेतव्रतकर्मा तु केवलं ब्रह्मणि स्थितः ।
ब्रह्मभूतश्चरँल्लोके ब्रह्मचारी भवत्ययम् ॥ १४.२७.१६ ॥

若其誓戒与事业皆已舍弃,唯住于梵,成为梵者而行于世间,此人即是梵行者。

14.27.17

ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्मसंस्तरः ।
आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥ १४.२७.१७ ॥

梵即是其薪柴;梵火与梵即是其吉祥草之卧床。水即是梵,师长即是梵;他专注于梵之中。

14.27.18

एतदेवेदृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः ।
विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिताः ॥ १४.२७.१८ ॥

智者知晓这样微妙的梵行。领悟之后,他们在知场者的指引下得以证入。