Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.28

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.28.1

संकल्पदंशमशकं शोकहर्षहिमातपम् ।
मोहान्धकारतिमिरं लोभव्याधिसरीसृपम् ॥ १४.२८.१ ॥

如蚊蚋般叮咬的妄念,悲喜的寒热,迷惑的幽暗昏黑,以及贪欲与病苦的爬行蛇虫。

14.28.2

विषयैकात्ययाध्वानं कामक्रोधकिरातकम् ।
तदतीत्य महादुर्गं प्रविष्टोस्मि महद्वनम् ॥ १४.२८.२ ॥

越过感官对象那唯一艰险的道路,以及欲望与愤怒的猎人,超越那座巨大的堡垒之后,我进入了大森林。

14.28.3

क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः ।
कियन्तः पर्वताश्चैव कियत्यध्यनि तद्वनम् ॥ १४.२८.३ ॥

大智者啊,那片森林在哪里?它的树木是什么,河流是哪些,有多少座山,那片森林在路上有多远?

14.28.4

नैतदस्ति पृथग्भावः किञ्चिनद्यत्ततः सुखम् ।
नैतदस्त्यपृथग्भावः किञ्चिद्दुःखतरं ततः ॥ १४.२८.४ ॥

这不是分离,由此也无任何快乐;这也不是合一,此外也没有比这更苦的。

14.28.5

तस्माद्ध्रस्वतरं नास्ति न ततोस्ति महत्तरम् ।
नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥ १४.२८.५ ॥

因此,没有比此更小的,也没有比此更大的;没有比彼更痛苦的,也没有与此相等的其他快乐。

14.28.6

न तत्राविश्यि शोचन्ति न प्रहृष्यन्ति च द्विजाः ।
न च बिभ्यति केभ्यश्चिन्नैभ्यो बिभ्यति केचन ॥ १४.२८.६ ॥

进入那里的再生者既不悲伤,也不欢喜;他们不怕任何人,也无人怕他们。

14.28.7

तस्मिन्वने सप्त महाद्रुमाश्च ।
फलानि सप्तातिथयश्च सप्त।
सप्ताश्रमाः सप्त समाधयश्च ।
दीक्षाश्च सप्तैतदरण्यरूपम् ॥ १४.२८.७ ॥

在那片森林中有七棵大树、果实、七位客人、七座修行处、七种三昧和七种灌顶;这便是那森林的样貌。

14.28.8

पञ्चवर्णानि दिव्यानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वन्म् ॥ १४.२८.८ ॥

那里,能生出五色神奇花朵与果实的树木,遍布整片森林而矗立。

14.28.9

सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १४.२८.९ ॥

那里,能生出金色与双色花朵和果实的树木,遍布整片森林而矗立。

14.28.10

शङ्कराणि त्रिवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १४.२८.१० ॥

那里,能生出吉祥的三色花朵与果实的树木,遍布整片森林而矗立。

14.28.11

सुरभीणि द्विवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १४.२८.११ ॥

那里,能生出芬芳的双色花朵与果实的树木,遍布整片森林而矗立。

14.28.12

सुरभीण्येकवर्णानि पुष्पाणि च फलानि च ।
सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ १४.२८.१२ ॥

那里,能生出芬芳的单色花朵与果实的树木,遍布整片森林而矗立。

14.28.13

बहून्यव्यक्तवर्णानि पुष्पाणि च फलानि च ।
विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥ १४.२८.१३ ॥

两棵大树散落许多颜色模糊的花与果,遍布整片森林而立。

14.28.14

एको वह्निः सुमना ब्राह्मणोत्र ।
पञ्चेन्द्रियाणि समिधश्चात्र सन्ति।
तेभ्यो वृक्षाःक सप्त फलन्ति दीक्षा ।
गुणाः फलान्यतिथयः फलाशाः ॥ १४.२८.१४ ॥

此处只有一火,婆罗门啊,心意善良。此处有五根与薪柴;由此七棵树结出果实:受戒、德性、果实、客人与求果之望。

14.28.15

आतिथ्यं प्रतिगृह्णन्ति तत्र सप्त महर्षयः ।
अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥ १४.२८.१५ ॥

在那里,七位大仙接受款待;当他们受到尊敬并消失之后,另一片森林便令人喜爱。

14.28.16

प्रज्ञावृक्षं मोक्षफलं शान्तिच्छायासमन्वितम् ।
ज्ञानाश्रयं तृप्तितोयमन्तःक्षेत्रज्ञभास्करम् ॥ १४.२८.१६ ॥

智慧之树,其果为解脱,具足寂静之荫,依托于知识,以满足之水灌溉,内在的知场者,如太阳。

14.28.17

येऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति पुनर्भवः ।
ऊर्ध्वं चाधश्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥ १४.२८.१७ ॥

凡善人得之者,便无再生;上、下与横向,都找不到它的尽头。

14.28.18

सप्त स्त्रियस्तत्र चरन्ति सत्या-
स्त्ववाङ्मुखा भानुमत्यो जनित्र्यः।
ऊर्ध्वं रसानाददते प्रजाभ्यः ।
सर्वान्यथा नित्यमनित्यता च ॥ १४.२८.१८ ॥

那里真实地行走着七位女子,面朝下,光辉闪耀,为母者;为众生从上方汲取精华。一切恒常无常,无常亦然。

14.28.19

तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च ।
सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखैः सह ॥ १४.२८.१९ ॥

他们居于彼处,又从彼处再度升起:以婆私吒为首的七位仙人,与成就者一同。

14.28.20

यशो वर्चो भगश्चैव विजयः सिद्धतेजसः ।
एतमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥ १४.२८.२० ॥

名誉、光辉、福运与胜利——这便是成就者的光明;七道光明紧随这太阳。

14.28.21

ऋषयः पर्वताश्चैव सन्ति तत्र समासतः ।
नद्यश्च परितो वारि वहन्त्यो ब्रह्मिसम्भवम् ॥ १४.२८.२१ ॥

那里也简略地有仙人与山岳;四周的河流载着由梵所生的水。

14.28.22

नदीनां सङ्गमश्चैव वैताने समुपहरे ।
स्वात्मतृप्ता यतो यान्ति साक्षादेव पितामहम् ॥ १४.२८.२२ ॥

诸河的汇合也属于吠陀那祭的献供;借此,自我满足的他们直接走向祖父。

14.28.23

कृशाशाः सुव्रताः शान्तास्तपसा दग्धकिल्बिषाः ।
आत्मन्यात्मानमावेश्य ब्राह्मणास्तमुपासते ॥ १४.२८.२३ ॥

婆罗门们欲望消减、持守善愿、心意寂静,以苦行烧尽罪过,将自我安置于自我之中,敬奉他。

14.28.24

शमिमप्यत्र शंसन्ति विद्यारण्यविदो जनाः ।
तदरण्यमभिप्रेत्य यथातत्वमजायत ॥ १४.२८.२४ ॥

此处亦有知晓学问之林的人们赞颂沙弥树;它靠近那片森林,便真正地生了出来。

14.28.25

एतदेवेदृशं पुण्यमरण्यं ब्राह्मणा विदुः ।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥ १४.२८.२५ ॥

婆罗门如此知晓这片神圣的森林;知晓之后,他们依循知场者与见真理者之道而修行。