Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.29

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.29.1

गन्धान्न जिघ्रामि रासान्न वेद्मि ।
रूपं न पश्यामि न च स्पृशामि।
न चापि शब्दान्विविधाञ्शृणोमि ।
न चापि सङ्कल्पमुपैमि कञ्चित् ॥ १४.२९.१ ॥

我不嗅香气,不知滋味;不见色相,不触事物。也不听种种声音,也不起任何意念。

14.29.2

अर्थानिष्टान्कामयते स्वभावः ।
सर्वान्द्वेष्यान्प्रद्विषते स्वभावः।
कामद्वेषानुद्भवतः स्वभावा-
त्प्राणापानौ जन्तुदेहान्निवेश्य ॥ १४.२९.२ ॥

本性渴求不喜之物,本性憎恶一切可憎之物。由欲与恶所生的本性,将出息与入息安置于众生之身中。

14.29.3

तेभ्यश्चान्यांस्तेषु नित्यांश्च भावा-
न्भूतात्मानं अक्षयेऽहं शरीरे।
तस्मिंस्तिष्ठन्नास्मि सक्तः कथंचि-
त्कामक्रोधाभ्यां जरया मृत्युना च ॥ १४.२९.३ ॥

我是众生之我,虽住于此不坏之身,却绝不执著于彼等、他物,以及其中的常住诸法;也不为欲、怒、老、死所缚。

14.29.4

अकामयानस्य च सर्वकामा-
नविद्विषाणस्य च सर्वदोषान्।
न मे स्वभावेषु भवन्ति लेपा-
स्तोयस्य बिन्दोरिव पुष्करेषु ॥ १४.२९.४ ॥

不欲者舍弃一切欲,不憎者超越一切过失,于我之本性中不生染污,如水滴不附着于莲花叶上。

14.29.5

नित्यस्य चैतस्य भवन्ति नित्या ।
निरीक्ष्यमाणस्य बहून्स्वभावान्।
न सज्जते कर्मसु भोगजालं ।
दिवीव सूर्यस्य मयूखजालम् ॥ १४.२९.५ ॥

对于这位永恒之人,只有永恒之物存在。观察众多的本性,他不执着于行动;享乐之网不粘附于他,正如天空中太阳的光网不沾染任何东西。

14.29.6

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
अध्वर्युयतिसंवादं तं निबोध यशस्विनि ॥ १४.२९.६ ॥

这里也讲述这古老的传说——祭司阿德瓦尔尤与苦行者的对话。荣耀的女子啊,请听。

14.29.7

प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् ।
यतिरध्वर्युमासीनो हिंसोयमिति कुत्सयन् ॥ १४.२९.७ ॥

看到在祭祀仪式中即将被洒水的牲畜,坐着的苦行者对祭司阿德瓦尔尤说话,责备道:“这是暴力。”

14.29.8

तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति ।
श्रेयसा योक्ष्यते जन्तुर्यज्ञाच्छ्रुतिरियं तथा ॥ १४.२९.८ ॥

阿德瓦尔尤回答他:“这只山羊不会毁灭;这生灵将通过祭祀与善相连。天启之典也是这样说的。”

14.29.9

यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति ।
यदस्य वारिजं किञ्चिदपस्तत्सम्प्रवेक्ष्यति ॥ १४.२९.९ ॥

此生灵的土性部分将归于大地;其中属水的部分将进入水中。

14.29.10

सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च ।
आगमे वर्तमानस्य नमे दोषोस्ति कश्चन ॥ १४.२९.१० ॥

其眼归于太阳,其耳归于四方,其气归于天空本身。在这往来之中存在的祭祀里,我看不到任何过失。

14.29.11

प्राणैर्वियोगे च्छागस्य यदि श्रेयः प्रपश्यसि ।
छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥ १४.२९.११ ॥

若你见到山羊生命之气分离是善举,那么此祭祀本是为山羊而行。这与你有何相干?

14.29.12

अनु त्वां मन्यते माता अनु त्वां मन्यते पिता ।
मन्त्रविज्ञानमुन्नीय परिवर्ते विशेषतः ॥ १४.२९.१२ ॥

母亲随你而行并应允;父亲随你而行并应允;高举咒语之智,尤其在此转变之中。

14.29.13

एवमेवानुमन्येरंस्तान्भवान्द्रष्टुमर्हति ।
तेषामनुमतिं श्रुत्वा शक्या कर्तुं विचारणा ॥ १४.२९.१३ ॥

他们也会如此应允;你应当去见他们。只有听到他们的同意,才可以商议。

14.29.14

प्राणा अप्यस्य च्छागस्य प्रापितास्ते स्वयोनिषु ।
शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥ १४.२९.१४ ॥

此山羊的生命之气也已各归其源;只剩下不动的身体。这是我的看法。

14.29.15

इन्धनस्य तु तुल्येन शरीरेणि विचेतसा ।
हिंसा हि यष्टुकामानामिन्धनं पशुसंज्ञितम् ॥ १४.२९.१५ ॥

祭祀以如同柴薪、无思的身体来完成。对于欲行祭祀者,暴力本身便是燃料,即所谓的祭牲。

14.29.16

अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् ।
यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥ १४.२९.१६ ॥

不害是一切法中最高者——这是长者的教导。我们知道,应当行的是那不伤害的祭事。

14.29.17

अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् ।
शक्यं बहुविधं वक्तुं भवता कार्यदूषणम् ॥ १४.२९.१७ ॥

不伤害是此誓言。若我再进一步说,你们便可从多方面指出祭仪的过失。

14.29.18

अहिंसा सर्वभूतानां नित्यमस्मासु रोचते ।
प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥ १४.२९.१८ ॥

对一切众生的不伤害,常令我们喜悦。我们成就可见之事,不祭拜不可见之物。

14.29.19

भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान् ।
ज्योतिषां पश्यते रूपं स्पृशस्यनिलजान्गुणान् ॥ १४.२९.१९ ॥

你享受地之香气,饮用水所成之味。你看见光明之形,触及风所生之性。

14.29.20

शृणोष्याकाशजाञ्शब्दान्मनसा मन्यसे मतिम् ।
सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥ १४.२९.२० ॥

你听见空所生之声,以意念形成己见。你认为这一切元素都是生命之气。

14.29.21

प्राणादाने निवृत्तोसि हिंसायां वर्तते भवान् ।
नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥ १४.२९.२१ ॥

你已停止夺取生命,却仍从事伤害。没有伤害就没有行为——婆罗门啊,你难道不这样想吗?

14.29.22

अक्षरं च क्षरं चैव द्वैधीभावोऽयमात्मनः ।
अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥ १४.२९.२२ ॥

不灭与可灭,此二重状态属于自我。其中不灭是真实之存在;可灭则称为其自性。

14.29.23

प्राणो जिह्वा मनः सत्त्वं सद्भावो रजसा सह ।
भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः ॥ १४.२९.२३ ॥

对于脱离这些状态、超越对立二元、无求于报偿的人而言,气息、舌、意、本质、真实存在与激情相互结合。

14.29.24

समस्य सर्वभूतेषु निर्ममस्य जितात्मनः ।
समन्तात्परिमुक्तस्य न भयं विद्यते क्वचित् ॥ १४.२९.२४ ॥

对一切众生平等相待、无我所之心、自我已被征服、四面八方皆得完全解脱的人,无处有恐惧。

14.29.25

सद्भिरेवेह संवादः कार्यो मतिमतांवर ।
भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥ १४.२९.२५ ॥

智者中的最优者啊,此处的讨论应当只与善人进行;听闻您的见解,我的智慧便显得明澈起来。

14.29.26

भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् ।
व्रतं मन्त्रकृतं कर्तुर्नापराधोस्ति मे द्विज ॥ १४.२९.२६ ॥

尊者啊,我由您的智慧所唤醒而说:婆罗门啊,对于依据咒语所立誓愿的执行者,我并无过失。

14.29.27

उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् ।
अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥ १४.२९.२७ ॥

苦行者以道理而沉默,此后祭司阿德瓦里尤也摆脱了迷惑,在那大祭祀中往来行走。

14.29.28

एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः ।
विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनार्थदर्शिना ॥ १४.२९.२८ ॥

如此,婆罗门们知晓这极为微妙的解脱;知晓之后,他们在见真义的知田者的指引下践行它。