Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.3

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.3.1

युधिष्ठिर तव प्रज्ञा न सम्यगिति मे मतिः ।
न हि कश्चित्स्वयं मर्त्यः स्ववशः कुरुते क्रियाम् ॥ १४.३.१ ॥

坚战啊,我认为你的见识并不完全正确。没有任何凡人能够完全自主地自行行事。

14.3.2

ईश्वरेण च युक्तोऽयं साध्वसाधु च मानवः ।
करोत्यसुकरं कर्म तत्रका परिदेवना ॥ १४.३.२ ॥

此人受主宰驱使,行出艰难之事,善与不善皆然。又何必为此悲叹呢?

14.3.3

आत्मानं मन्यसे चाथ पापकर्माणमन्ततः ।
शृणु तत्र यथा पापमपकृत्येत भारत ॥ १४.३.३ ॥

而你最终认为自己是犯了罪业之人。婆罗多啊,请听我说那罪过如何可以消除。

14.3.4

तपोभिः क्रतुभिश्चैव दानेन च युधिष्ठिर ।
तरन्ति नित्यं पुरुषा ये स्म पापानि कुर्वते ॥ १४.३.४ ॥

坚战啊,凭苦行、祭祀与布施,那些曾造作罪业的人,总能超越其罪。

14.3.5

यज्ञेन तपसा चैव दानेन च नराधिप ।
पूयन्ते नरशार्दूल नरा दुष्कृतकारिणः ॥ १४.३.५ ॥

人主啊,人中之虎啊,凭祭祀、苦行与布施,造作恶业之人得以清净。

14.3.6

असुराश्च सुराश्चैव पुण्यहेतोर्मखक्रियाम् ।
प्रवर्तन्ते महात्मानस्तस्माद्यज्ञः परायणम् ॥ १४.३.६ ॥

阿修罗与天神,以及伟大的灵魂,都为求福报而行祭祀之事。因此,祭祀乃是至高的依归。

14.3.7

यज्ञैरेव महात्मानो बभूवुरधिकाः सुराः ।
ततो देवाः क्रियावन्तो दानवानभ्यधर्षयन् ॥ १४.३.७ ॥

仅凭祭祀,伟大的诸神便变得更加强盛。于是专注于仪式的诸神击败了檀那婆。

14.3.8

राजसूयाश्वमेधौ च सर्वमेधं च भारत ।
नरमेधं च नृपते त्वमाहर युधिष्ठिर ॥ १४.३.८ ॥

婆罗多之后啊,国王阅地昉罗,你当举行王祭、马祭、一切祭,也当举行人祭。

14.3.9

यजस्व वाजिमेधेन विधिवद्दक्षिणावता ।
बहुकामान्नवित्तेन रामो दाशरथिर्यथा ॥ १४.३.९ ॥

依照仪轨,以充足的布施与祭品举行马祭,正如十车王之子罗摩以丰盛的所求食物与财富所行。

14.3.10

यथा च भरतो राजा दौष्यन्तिः पृथिवीपतिः ।
शाकुन्तलो महावीर्यस्तव पूर्वपितामहः ॥ १४.३.१० ॥

又如婆罗多王——杜先多之子、大地之主、沙恭达罗之大勇子——你的先祖曾经所行。

14.3.11

असंशयं वाजिमेधः पारयेत्पृथिवीमपि ।
अभिप्रायस्तु मे कश्चित्तं त्वं श्रोतुमिहार्हसि ॥ १४.३.११ ॥

毫无疑问,马祭甚至能够使人度越大地;然而我心中有一个打算,请您在这里听一听。

14.3.12

इमं ज्ञातिवधं कृत्वा सुमहान्तं द्विजोत्तम ।
अहमाराधयिष्यामि कथं शोकपरायणः।
दानमल्पं न शक्नोमि दातुं वित्तं च नास्ति मे ॥ १४.३.१२ ॥

婆罗门中最优秀者啊,我既造成了如此巨大的亲族杀戮,陷于悲痛之中,我又如何能够行祭供养呢?我连少许布施也无法给予,而且我也没有财富。

14.3.13

न तु बालानिमान्दीनानुत्सहे वसु याचितुम् ।
तथैवाद्रविणान्कृच्छ्रे वर्तमानान्नृपात्मजान् ॥ १४.३.१३ ॥

我不忍向这些可怜的孩子乞求财物,也不忍向那些身处困境的王子乞求。

14.3.14

स्वयं विनाश्य पृथिवीं यज्ञार्थं द्विजसत्तम ।
करमाहारयिष्यामि कथं शोकपरायणः ॥ १४.३.१४ ॥

婆罗门中最尊贵者啊,我自己已使大地荒废,如今沉溺于悲痛之中,怎样为祭祀征收赋税呢?

14.3.15

दुर्योधनापराधेनि वसुधायां नराधिपाः ।
प्रनष्टा योजयित्वाऽस्मानकीर्त्या मुनिसत्तम ॥ १४.३.१५ ॥

由于难敌的过错,大地上的诸王都已灭亡,我们也陷入了耻辱之中,啊,贤者中最优秀的人。

14.3.16

दुर्योधनेन पृथिवी क्षपिता जयकारणात् ।
कोशश्चापि विशीर्णोसौ धार्तराष्ट्रस्य दुर्मतेः ॥ १४.३.१६ ॥

为了取胜,难敌使大地荒芜,那个心术不正的持国之子的府库也已散失。

14.3.17

पृथिवी दक्षिणा चात्र वाजिमेधे महाक्रतौ ।
विद्वद्भिः परिदृष्टोऽयं शिष्टो विधिविपर्ययः ॥ १४.३.१७ ॥

在马祭这一大祭中,智者们认为大地本身即是布施之礼;然而这正是对既定仪轨的颠倒。

14.3.18

न च प्रतिनिधिं कर्तुं चिकीर्षामि तपोधन ।
अत्र मे भगवन्सम्यक्साचिव्यं कर्तुमर्हसि ॥ १४.३.१८ ॥

苦行的宝藏啊,我不想另派代理人。关于此事,尊者啊,您应当给我恰当的指教。

14.3.19

एवमुक्तस्तु पार्थेन कृष्णद्वैपायनस्तदा ।
मुहूर्तमनुसञ्चिन्त्य धर्मराजानमब्रवीत् ॥ १४.३.१९ ॥

普塔之子如此说后,黑克利须那·二时衍那沉思片刻,然后对法王坚战说道。

14.3.20

कोशश्चापि विशीर्णोऽयं परिपूर्णो भविष्यति ।
विद्यते द्रविणं पार्थ गिरौ हिमवति स्थितम् ॥ १४.३.२० ॥

此府库虽已耗尽,终将重新充盈;普塔之子啊,喜马拉雅山上有财富存在。

14.3.21

उत्सृष्टं ब्राह्मणैर्यज्ञे मरुत्तस्य महीपते ।
तदानयस्व कौन्तेय पर्याप्तं तद्भविष्यति ॥ १४.३.२१ ॥

孔提之子啊,把婆罗门在摩卢多王的祭祀中所留下的那些财富拿来吧;那将是足够的。

14.3.22

कथं यज्ञे मरुत्तस्य द्रविणं तत्समाचितम् ।
कस्मिंश्च काले स नृपो बभूव ददतांवर ॥ १४.३.२२ ॥

摩卢多的祭祀中,那些财富是如何聚集起来的?那位国王生活在什么时代,施主中最杰出者啊?

14.3.23

यदि शुश्रूषसे पार्थ शृणु कारंधमं नृपम् ।
यस्मिन्काले महावीर्यः स राजाऽऽसीन्महाधनः ॥ १४.३.२३ ॥

普塔之子啊,若你愿听,就听听俱卡兰达玛王的事迹吧,那时他是一位大力量、大财富的国王。