摩诃婆罗多 · 章 14.33
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.33.1
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥ १४.३३.१ ॥
此处人们也引述这段古老的传说:婆罗门与遮那迦的对话,光彩照人的女子啊。
14.33.2
ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागसि ।
विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ १४.३३.२ ॥
遮那迦王为了教导因某种过失而悲伤的婆罗门,说道:"你不应住在我的国土之中。"
14.33.3
इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् ।
आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥ १४.३३.३ ॥
婆罗门听后对诸王中最优秀者答道:"大王,请告诉我,我在您的权势之下所处的,是您的哪一块国土。"
14.33.4
सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो ।
वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ १४.३३.४ ॥
"大能者啊,我想居住在另一位国王的国土之中;大地之主啊,我想依照经典遵从您的话。"
14.33.5
इत्युक्तस्तु तदा राजा ब्राह्मणेन यशस्विना ।
मुहुरुष्णं विनिःस्वस्य न किञ्चित्प्रत्यभाषत ॥ १४.३३.५ ॥
这位声名卓著的婆罗门如此说完,国王一次又一次地发出灼热的叹息,竟一言未答。
14.33.6
तमासीनं ध्यायमानं राजानममितौजसम् ।
कश्मलं सहसाऽगच्छद्भानुमन्तमिव ग्रहः ॥ १४.३३.६ ॥
那位威力无量、端坐沉思的国王,忽然陷入了迷乱,犹如日食笼罩光明的太阳。
14.33.7
समाश्वास्य ततो राजा विगते कश्यमे तदा ।
ततो मूहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ १४.३३.७ ॥
于是国王平复心神,待昏厥过去之后,仿佛过了片刻,对那位婆罗门说了这些话。
14.33.8
पितृपैतामहे राज्ये वश्ये जनपदे सति ।
विषयं नाधिगच्छामि विचिन्वन्पृथिवीमहम् ॥ १४.३३.८ ॥
在父祖所传的王国中,纵然领土已经归顺,我寻遍大地,却找不到属于我的领地。
14.33.9
नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया ।
नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ १४.३३.९ ॥
我在大地上寻找弥ithila而不得,于是在其中寻找自己的臣民,也没有找到。
14.33.10
नाध्यगच्छं यदा तस्यां तदा मे कश्मलोऽभवत् ।
ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ १४.३३.१० ॥
在那里也找不到时,我昏厥过去;昏厥结束之后,我的心智又回来了。
14.33.11
तदा न विषयं मन्ये सर्वो वा विषयो मम ।
आत्माऽपि चायं न मम सर्वा वा पृथिवी मम ॥ १४.३३.११ ॥
那时我不认为领地是我的,我的全部疆域也不是我的。这个自我也不是我的,整个大地也不是我的。
14.33.12
यथा मम तथाऽन्येषामिति मन्ये द्विजोत्तम ।
उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥ १४.३३.१२ ॥
我认为,对我如何,对他人也当如何,啊,再生者中最优秀的人。只要有兴致,便让他们居住;只要有所求,便让他们享用。
14.33.13
पितृपैतामहे राज्ये वश्ये जनपदे सति ।
ब्रूहि कां मतिमास्थाय ममत्वं वर्जितं त्वया ॥ १४.३३.१३ ॥
父祖所传的王国、已归顺的疆土都在你手中,请告诉我:你依据何种见识,舍弃了“我的”这一执着?
14.33.14
कां वै बुद्धिं समाश्रित्य सर्वो वै विषयस्तव ।
नावैषि विषयं येन सर्वो वा विषयस्तव ॥ १४.३३.१४ ॥
你依据何种见识,拥有全部疆土,然而你却不知道以何种方式,整个疆土都是你的?
14.33.15
अन्तवन्त इहारम्भा विदिताः सर्वकर्मसु ।
नाध्यगच्छमहं तस्मान्ममेदमिति यद्भवेत् ॥ १४.३३.१५ ॥
此间一切行动的开端,皆被知晓有终结;因此我没有找到那可以说“这是我的”的东西。
14.33.16
कस्येदमिति कस्य स्वमिति वेदवचस्तथा ।
नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥ १४.३३.१६ ॥
“这是谁的?”“谁的财产?”——吠陀的言辞也是如此。以智慧,我没有找到那可以说“这是我的”的东西。
14.33.17
एतां बुद्धिं समाश्रित्य ममत्वं वर्जितं मया ।
शृणु बुद्धिं च यां ज्ञात्वा सर्वत्र विषयो मम ॥ १४.३३.१७ ॥
我依据此见识,舍弃了“我的”这一执着。现在请听那见识,知晓它之后,疆土便处处属于我。
14.33.18
नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि ।
तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ १४.३३.१८ ॥
我为自己甚至不贪求传入鼻中的香气;因此我所征服的大地,始终处于我的掌控之中。
14.33.19
नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः ।
आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥ १४.३३.१९ ॥
我为自己的缘故,连口中的滋味也不贪求。因此水已被我征服,它永远听从我的掌控。
14.33.20
नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषः ।
तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ १४.३३.२० ॥
我为自己的缘故,不贪求眼睛所见的形色与光明。因此光明已被我征服,它永远听从我的掌控。
14.33.21
नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश्च ये ।
तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ १४.३३.२१ ॥
我为自己的缘故,不贪求皮肤所感的触觉。因此风已被我征服,它永远听从我的掌控。
14.33.22
नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि ।
आकाशं मे जितं तस्माद्वशे तिष्ठति नित्यदा ॥ १४.३३.२२ ॥
我为自己的缘故,连耳中所闻的声音也不贪求。因此虚空已被我征服,它永远听从我的掌控。
14.33.23
नाहमात्मार्थमिच्छामि मनो नित्यं मनोन्तरे ।
मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥ १४.३३.२३ ॥
我为自己的缘故,不贪求常在心中的心念。因此心已被我征服,它永远听从我的掌控。
14.33.24
देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह ।
इत्यर्थं सर्व एवेति समारम्भा भवन्ति वै ॥ १४.३३.२४ ॥
为诸天、为祖先、为众生,并与宾客同享——为此目的,一切事业才得以兴起。
14.33.25
ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् ।
त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ १४.३३.२५ ॥
于是婆罗门笑着又对遮那迦说:"你要知道,我今日是依法而来,为向你请教。"
14.33.26
त्वमस्य ब्रह्मिनाभस्य दुर्वारस्यानिवर्तिनः ।
सत्वनेमिनिरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ १४.३३.२६ ॥
此轮以梵为轴,不可阻挡,不可回转,被悉多的轮圈所约束,唯有你是其唯一的推动者。