摩诃婆罗多 · 章 14.34
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.34.1
नाहं तथा भूरु चरामि लोके ।
यथा त्वं मां तर्जयसे स्वबुद्ध्या।
विप्रोस्मिं मुक्तोस्मि वनेचरोस्मि ।
गृहस्थधर्मा व्रतवांस्तथाऽस्मि ॥ १४.३४.१ ॥
美眉的女子啊,你以自己的见解恐吓我,我并不像你所想那样在世间游荡。我是婆罗门,我是解脱者,我是林居者,我奉行居家之法并持守誓戒。
14.34.2
नाहमस्मि यता मां त्वं पश्यसे च शुभाशुभे ।
मया व्याप्तमिदं सर्वं यत्किञ्चिज्जगतीगतम् ॥ १४.३४.२ ॥
我并不像你在吉与凶中所见的那样。世间所存在的这一切,都为我所遍布。
14.34.3
ये केचिज्जन्तवो लोके जङ्गमाः स्थावराश्च ह ।
तेषां मामन्तकं विद्धि दारुणामिव पावकम् ॥ १४.३४.३ ॥
世间一切动物与植物,你应知道我就是它们的终结者,如同猛烈的烈火。
14.34.4
राज्ये पृथिव्यां सर्वस्यामथवापि त्रिविष्टपे ।
तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥ १४.३४.४ ॥
无论是统治整个大地的王权,还是三界天堂,这样的智慧都能明白。智慧本身便是我的财富。
14.34.5
एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः ।
गृहेषु वनवासेषु गुरुवासेषु भिक्षुषु ॥ १४.३४.५ ॥
婆罗门只有一条道路,知道它的人便依此而行:在居家之中,在林居之中,在师长之处,在乞士之中。
14.34.6
लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ।
नानालिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका ॥ १४.३४.६ ॥
借助许多外在标志,却不动摇,便能崇奉那唯一的智慧。那些处于各种标志与生活阶段之中、其智慧本性寂静的人,都奉行这唯一的智慧。
14.34.7
ते भावमेकमायान्ति सरितः सागरं यथा ।
बुद्ध्याऽयं गम्यते मार्गः शरीरेणि न गम्यते।
आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥ १४.३४.७ ॥
犹如河流归入大海,他们也抵达同一境界。此道由智慧而行,非由身体而行。业有始有终;身体乃业之束缚。
14.34.8
तस्मान्मे सुभगे नास्ति परलोककृतं भयम् ।
तद्भावभावनिरता ममैवात्मानमेष्यसि ॥ १४.३४.८ ॥
因此,善幸者啊,我对来世没有任何恐惧。专心观想那种境界的你,将获得我的自我。