Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.35

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.35.1

नेदमल्पात्मना शक्यं वेदितुं वाऽकृतात्मना ।
बहु चाल्पं च संक्षिप्तं विस्तृतं च मतं मम ॥ १४.३५.१ ॥

心量狭小或心未调伏者,不能知晓此事。依我之见,它既多又少,既简略又详尽。

14.35.2

उपायं तं मम ब्रूहि येनैषा लभ्यते मतिः ।
तन्मन्ये कारणं कर्म यत एषा प्रवर्तते ॥ १४.३५.२ ॥

请告诉我获得此智慧的方法。我认为其原因是行为,它由行为而生起。

14.35.3

अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः ।
तपःश्रुतेभिमथिनी ज्ञानाग्निर्जायते ततः ॥ १४.३५.३ ॥

应知婆罗门之木为下钻木,其上钻木即是上师。以苦行和闻学相互摩擦,由此生出智慧之火。

14.35.4

यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति संज्ञितम् ।
ग्रहीतुं येन यच्छक्यं लक्षणं तस्य तद्वद ॥ १४.३५.४ ॥

请告诉我那作为梵之标志、名为“知场者”的东西的特征,以及用何种方法可以把握它。

14.35.5

अलिङ्गो निर्गुणश्चैव कारणं नास्य विग्रहे ।
उपायमेव वक्ष्यामि येन गृह्येत भावना ॥ १४.३५.५ ॥

他无标志、无属性,身体中亦无其因。我将说出那可以使观想得以把握的方法。

14.35.6

सम्यगप्युपदिष्टस्य ह्यमृतस्येव तृप्यसे ।
कर्मबुद्धिरबुद्धित्वाज्ज्ञानलिङ्गान्निपातितः। ॥ १४.३५.६ ॥

虽已得到良好的教导,你仍因满足而如同得了甘露;然而因不明智,心被行为所牵,已从知识的标志中坠落。

14.35.7

इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते ।
पश्यतः शृण्वतो बुद्धिरात्मनैवोपजायते ॥ १४.३५.७ ॥

“此当做,此不当做”,在解脱之事上并不如此教导。对于能见能听者,智慧自身从自我中生起。

14.35.8

यावन्त इह शक्येरंस्तावतोंऽसान्प्रकल्पयेत् ।
अव्यक्तान्व्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥ १४.३५.८ ॥

凡此间可能想象的,都应加以设想——未显现的与显现为形相的,以百计,以千计。

14.35.9

सर्वानुमानयुक्तांश्च सर्वान्प्रत्यक्षहेतुकान् ।
यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥ १४.३५.९ ॥

凡与推理相连者,凡以直接知觉为因者,皆应如此,至于其外不可得;那时它便将在修习中成就。

14.35.10

ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसंशये ।
क्षेत्रज्ञानेन परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥ १४.३५.१० ॥

于是那位婆罗门女的心陷入对“田知者”的疑惑。在田知者之外,另一位田知者展现出来。

14.35.11

क्व नु सा ब्राह्मणि कृष्ण क्व चासौ ब्राह्मणर्षभः ।
याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥ १४.३५.११ ॥

那位婆罗门女在哪里,克里希那?那位婆罗门中的雄牛在哪里?通过这二人此成就得以获得。阿恰尤塔啊,请把这二人告诉我。

14.35.12

मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् ।
क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनंजय ॥ १४.३५.१२ ॥

你当知我的意是婆罗门,知我的觉是婆罗门女。所谓“田知者”,正是我,达南遮耶。