Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.36

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.36.1

ब्रह्म यत्परमं ज्ञेयं तन्मे व्याख्यातुमर्हसि ।
भतो हि प्रसादेन सूक्ष्मे मे रमते मतिः ॥ १४.३६.१ ॥

愿您为我讲解那应当被知晓的至上梵;蒙您恩典,我精微的心智乐于其中。

14.36.2

अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं मोक्षसंयुक्तं शिष्यस्य गुरुणा सह ॥ १४.३६.२ ॥

关于此事,人们也讲述这段古老的传说:弟子与师尊之间关于解脱的对话。

14.36.3

कश्चिद्ब्राह्मणमासीनमाचार्यं संशितव्रतम् ।
शिष्यः पप्रच्छ मेधावी किंस्विच्छ्रेयः परंतप ॥ १४.३६.३ ॥

一位聪慧的弟子坐在持守坚定誓愿的婆罗门师尊面前,问道:“征服敌人者啊,什么是至善?”

14.36.4

भगवन्तं प्रपन्नोऽहं निःश्रेयसपराणः ।
याचे त्वां शिरसा विप्र यद्ब्रूयां ब्रूहि तन्मम ॥ १४.३६.४ ॥

“尊者啊,我已归依您,一心追求至上的善。婆罗门啊,我低首恳求您:请告诉我应当听闻的一切。”

14.36.5

तमेवंवादिनं पार्थ शिष्यं गुरुरुवाच ह ।
कथयस्व प्रवक्ष्यामि यत्र ते संशयो द्विज ॥ १४.३६.५ ॥

普利塔之子啊,老师对如此发问的弟子说:“你且说来;你的疑惑所在,婆罗门啊,我必为你解说。”

14.36.6

इत्युक्तः स कुरुश्रेष्ठ गुरुणा गुरुवत्सलः ।
प्राञ्जलिः परिपप्रच्छ यत्तच्छृणु महामते ॥ १४.३६.६ ॥

老师如此开示,那位敬爱老师的弟子合掌,恭敬地详细询问。库卢之最胜者啊,请听,大智者啊。

14.36.7

कुतश्चाहं कुतश्च त्वं तत्सत्यं ब्रूहि यत्परम् ।
कुतो जातानि भूतानि स्थावराणि चराणि च ॥ १४.३६.७ ॥

我从何而来,你从何而来?请说出那至高的真理。不动与能动的众生从何而生?

14.36.8

केन जीवन्ति भूतानि तेषामायुश्च किं परम् ।
किं सत्यं किं तपो विप्र के गुणाः सद्भिरीरिताः ॥ १४.३६.८ ॥

众生以何为生?它们的至高寿命是什么?何为真理,何为苦行,婆罗门啊?善人所说的德性是哪些?

14.36.9

के पन्थानः शिवाश्च स्युः किं सुखं कि च दुष्कृतम् ।
एतान्मे भगवन्प्रश्नान्याथातथ्येन सुव्रत ॥ १४.३६.९ ॥

哪些道路是吉祥的?何为快乐,何为恶行?尊者啊,持善誓者啊,请如实地为我解答这些问题。

14.36.10

वक्तुमर्हसि विप्रर्षे यथावदिह तत्त्वतः ।
त्वदन्यः कश्च न प्रश्नानेतान्वक्तुमिहार्हति ॥ १४.३६.१० ॥

婆罗门圣贤啊,唯有您能如实、依真理解答这些问题。除您之外,此处无人有资格回答。

14.36.11

ब्रूहि धर्मविदां श्रेष्ठ परं कौतूहलं मम ।
मोक्षधर्मार्थकुशलो भवाँल्लोकषु गीयते ॥ १४.३६.११ ॥

精通法的至上者啊,请解答我极大的好奇。您精通解脱之法及其义,在世间被赞誉。

14.36.12

सर्वसंशयसंच्छेत्ता त्वदन्यो न च विद्यते ।
संसारभीरवश्चैव मोक्षकामास्तथा वयम् ॥ १४.३६.१२ ॥

除您之外,没有人能断除一切疑惑。我们畏惧轮回,渴求解脱。

14.36.13

तस्मै सम्प्रतिपन्नाय यथावत्परिपृच्छते ।
शिष्याय गुणयुक्ताय शान्ताय गुरुवर्तिने ॥ १४.३६.१३ ॥

致于那位前来求教、依礼发问、具备德行、心境平和、顺从师尊的弟子。

14.36.14

छायाभूताय दान्ताय यतते ब्रह्माचारिणे ।
तान्प्रश्नानब्रवीत्पार्थ मेधावी स धृतव्रतः।
गुरुः कुरुकुलश्रेष्ठ सम्यक्सर्वानरिंदम ॥ १४.३६.१४ ॥

对那影随其后、克己自持、勤修梵行的弟子,那位智慧而持戒坚定的师尊,将所有问题都完整地作了解答。啊,普利塔之子,库鲁族中最杰出者,降伏敌人者。

14.36.15

ब्रह्मणोक्तमिदं धर्ममृषिप्रवरसेवितम् ।
वेदविद्यासमावाप्तं तत्त्वभूतार्थभावनम् ॥ १४.३६.१५ ॥

此法为梵天所说,为诸大仙所奉行,由吠陀之学而得,是对真实义理的观想。

14.36.16

ज्ञानं त्वेव परं विद्यः संन्यासं तप उत्तमम् ।
यस्तु वेद निराबाधं ज्ञानतत्त्वं विनिश्चयात्।
सर्वबूतस्थमात्मानं स सर्वगतिरिष्यते ॥ १४.३६.१६ ॥

当知唯有知识为至上,舍离为最高苦行。若有人以决定之智,无障碍地了知智慧之真谛,并认识内在于一切众生的自我,他便被视为一切之归宿。

14.36.17

ये विद्वान्सहसंवासं विवासं चैव पश्यति ।
तथैवैकत्वनानात्वे स दुःखात्परिमुच्यते ॥ १४.३६.१७ ॥

智者若能如此观见相聚与离别,以及一与多,便能完全脱离苦恼。

14.36.18

यो न कामयते किञ्चिन्न किञ्चिदभिमन्यते ।
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥ १४.३६.१८ ॥

若有人不求任何事物,也不以任何事物为己有,即使仍居于此世,也能够成就梵的境界。

14.36.19

प्रधानगुणतत्त्वज्ञः सर्वभूतविधानवित् ।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥ १४.३६.१९ ॥

知晓主要德性之真谛、通晓一切众生之定则、无我所且无我慢者,即得解脱,此中无疑。

14.36.20

अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् ।
महाहङ्कारविटप इन्द्रियाङ्कुरकोटरः ॥ १४.३६.२० ॥

大(觉)生于未显之种,以觉智为主干,以大我慢为枝条,以诸根为嫩芽与树洞。

14.36.21

महाभूतविशेषश्च विशेषप्रतिशाखवान् ।
सदापर्णः सदापुष्पः शुभाशुभफलोदयः ॥ १४.३६.२१ ॥

大种的各种差别为其细枝,常有叶常有花,结出善恶之果。

14.36.22

आजीवः सर्वभूतानां ब्रह्मबीजः सनातनः ।
एतज्ज्ञात्वा च तत्त्वानि ज्ञानेन परमासिना।
छित्त्वा चामरतां प्राप्य जहाति मृत्युजन्मनी ॥ १४.३६.२२ ॥

此为一切众生之所依,梵之种子,永恒。知此诸法,以智慧之利剑斩断,得不死之境,便舍弃生与死。

14.36.23

भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम् ।
सिद्धसङ्घपरिज्ञातं पुराकल्पं सनातनम् ॥ १४.३६.२३ ॥

过去、现在、未来等,法、欲、利之决定,为成就者之众所知,乃古劫之永恒(智)。

14.36.24

प्रवक्ष्येऽहं महाप्राज्ञ पदमुत्तममद्य ते ।
बुद्ध्वा यदिहं संसिद्धा भवन्तीह मनीषिणः ॥ १४.३६.२४ ॥

大智者啊,今我将为你宣说那至上之境;知之,智者在此便得成就。

14.36.25

उपगम्यर्षयः पूर्वं जिज्ञासन्तः परस्परम् ।
प्रजापतिभरद्वाजौ गौतमो भार्गवस्तथा ॥ १४.३६.२५ ॥

往昔,诸仙人因欲相互了解而前来相会:生主、婆罗堕阇、乔达摩,以及婆利古之子。

14.36.26

वसिष्ठः कश्यपश्चैव विश्वामित्रोऽत्रिरेव च ।
मार्गान्सर्वान्परिक्रम्य परिश्रान्तः स्वकर्मभिः ॥ १४.३६.२६ ॥

婆私吒、迦叶波、憍尸迦、阿特里亦然——历经所有道路,因自身的业行而疲惫。

14.36.27

ऋषिमाङ्गिरसं वृद्धं पुरस्कृत्य तु ते द्विजाः ।
ददृशुर्ब्रह्मभवने ब्रह्माणं वीतकल्मषम् ॥ १४.३६.२७ ॥

他们推举年迈的安吉罗娑仙人为首,在梵天居所中见到了无垢的梵天。

14.36.28

तं प्रणम्य महात्मानं सुखासीनं महर्षयः ।
पप्रच्छुर्विनयोपेता नैःश्रेयसमिदं परम् ॥ १४.३६.२८ ॥

他们向安坐的那位大德致敬,谦逊的大仙们便请教这至高的福祉。

14.36.29

कथं कर्म कृतं साधु कथं मुच्येत किल्बिषात् ।
के नो मार्गाः शिवाश्च स्युः किं सत्यं किं च दुष्कृतं ॥ १४.३६.२९ ॥

如何善行其业,如何摆脱罪过?对我们而言何种道路是吉祥的?什么是真实,什么是恶行?

14.36.30

कौ चोभौ कर्मणां मार्गौ प्राप्नुयुर्दक्षिणोत्तरौ ।
निरयं चापवर्गं च भूतानां प्रभवाप्ययौ ॥ १४.३६.३० ॥

那两条称为南与北的业道是什么?它们使众生抵达地狱与解脱;众生的生起与灭尽又是什么?

14.36.31

इत्युक्तः स मुनिश्रेष्ठैर्यदाह प्रपितामहः ।
तत्तेऽहं सम्प्रवक्ष्यामि शृणु शिष्य यथागमम् ॥ १४.३६.३१ ॥

诸位仙人中的翘楚如此相问,我将依照传统为你讲述曾祖所说的内容;听着,弟子。

14.36.32

सत्याद्भूतानि जातानि स्थावराणि चराणि च ।
तपसा तानि जीवन्ति जीवितं तद्धि सुव्रतम्।
स्वां योनिं पुनरागम्य वर्तते स्वेन कर्मणा ॥ १४.३६.३२ ॥

一切生灵,无论静止或运动,皆由真实而生。以苦行而活,而此生即是善誓。重归自身的胎藏后,它们依自身的业而存续。

14.36.33

सत्यं हि गुणसंयुक्तं नियतं पञ्चलक्षणम् ॥ १४.३६.३३ ॥

真实确实具备诸德,恒定不变,并有五种特征。

14.36.34

ब्रह्म सत्यं तपः सत्यं सत्यं चैव प्रजापतिः ।
सत्याद्भूतानि जातानि सत्यं भूतमयं जगत् ॥ १४.३६.३४ ॥

梵是真实,苦行是真实,真实本身即是生主。众生由真实而生;真实即是由众生构成的世界。

14.36.35

तस्मात्सत्याश्रया विप्रा नित्यं योगपरायणाः ।
अतीक्रोधसंतापा नियता धर्मसेतवः ॥ १४.३६.३५ ॥

因此,依托真实、常修瑜伽、远离忿怒与忧苦、自我约束的婆罗门,是法的桥梁。

14.36.36

अन्योन्यनियतान्वैद्यान्धर्मसेतुप्रवर्तकान् ।
तानहं सम्प्रवक्ष्यामि शाश्वताँल्लोकभावनान् ॥ १४.३६.३६ ॥

关于那些彼此相系、通晓吠陀、推行法之桥梁、护持诸世界的永恒者,我将为你讲述。

14.36.37

चातुर्विद्यं तथा वर्णांश्चातुराश्रमिकान्पृथक् ।
धर्ममेकं चतुष्पादं नित्यमाहुर्मनीषिणः ॥ १४.३६.३७ ॥

四吠陀、四种姓与四行期各自不同,但智者说法只有一个,具有四足且永恒。

14.36.38

पन्थानं वः प्रवक्ष्यामि शिवं क्षेमकरं द्विजाः ।
नियतं ब्रह्मभावाय यातं पूर्वं मनीषिभिः ॥ १४.३६.३८ ॥

诸位再生者啊,我将为你们宣说那条吉祥、带来安乐的道路,它是往昔智者确定走过的,通往梵的境界。

14.36.39

गदन्तस्तु ममाद्येह पन्थानं दुर्विदं परैः ।
निबोधत महाभागा निखिलेन परं पदम् ॥ १४.३६.३९ ॥

现在请在此听我所说的、他人难以知晓的道路,诸位大福之人啊,请完全领悟那至上之境。

14.36.40

ब्रह्मचर्यमिहैवाहुराश्रमं प्रथमं पदम् ।
गार्हस्थ्यं तु द्वितीयं स्याद्वानप्रस्थमतः परम्।
ततः परं तु विज्ञेयमध्यात्मं परमं पदम् ॥ १४.३६.४० ॥

此处人们说,梵行学习之生活是第一个行期与第一步;居家生活是第二个;其次是林居;此后应当了知内在自我,即至上之境。

14.36.41

ज्योतिराकाशमादित्यो वायुरिन्द्रः प्रजापतिः ।
नोपैति यावदध्यात्मं तावदेतान्न पश्यति ॥ १४.३६.४१ ॥

光明、虚空、太阳、风、因陀罗与生主,只要尚未接近内在自我,人便看不见这些。

14.36.42

तस्योपायं प्रवक्ष्यामि पुरस्तात्तं निबोधत ।
फलमूलानिलभुजां मुनीनां वसतां वने ॥ १४.३६.४२ ॥

我将宣说达到它的方法;请先听清:那些居于林中、以果实、根茎与风为食的苦行者之道。

14.36.43

वानप्रस्थं द्विजातीनां त्रयाणामुपदिश्यते ।
सर्वेषामेव वर्णानां गृहस्थोऽयं विशिष्यते ॥ १४.३६.४३ ॥

对于再生族,三种修行阶段中教导的是林居之道;然而对于所有种姓而言,这一家居之道被认为最为殊胜。

14.36.44

श्रद्धालक्षणमित्येकं धर्मं धीराः प्रचक्षते ।
नैष्ठिकोऽथ यतिर्वाऽपि विरक्तो ब्रह्मदर्शनः ॥ १४.३६.४४ ॥

坚定者宣说这一以信心为标志的唯一法;终身梵行者、苦行者,或见梵的离欲者,即是其形相。

14.36.45

इत्येवं देवयाना वः पन्थानः परिकीर्तिताः ।
सद्भिरध्यासिता धीरैः कर्मभिर्धर्मसेतवः ॥ १४.३६.४५ ॥

如此,神道之路已为你们宣说;善人与坚定者以行为遵行,它们是法之桥梁。

14.36.46

एतेषां पृथगध्यास्ते यो धर्मं संशितव्रतः ।
कालात्पश्यति भूतानां सदैव प्रभवाप्ययौ ॥ १४.३६.४६ ॥

坚守誓愿、分别修行其中每一种的人,总能随时间看见众生的生起与灭尽。

14.36.47

अतस्तत्त्वानि वक्ष्यामि याथातथ्येन हेतुना ।
विषयस्थानि सर्वाणि वर्तमानानि भागशः ॥ १४.३६.४७ ॥

因此,我将依其真实与因由,宣说诸谛;一切皆住于诸境之中,分别而存在。

14.36.48

महानात्मा तथाऽव्यक्तमहंकारस्तथैव च ।
इन्द्रियाणि दशैकं च महाभूतानि पञ्च च ॥ १४.३६.४८ ॥

大我、未显现者、我慢;同样,十根与一(意),以及五大元素。

14.36.49

विशेषाः पञ्चभूतानामित्येषा वैदिकी श्रुतिः ।
चतुर्विंशतिरेषा वस्तत्वानां परिकीर्तिता ॥ १४.३६.४९ ॥

五大元素的各自特性——这是吠陀的教导。被宣说的实在范畴共有二十四种。

14.36.50

तत्वानामथ यो वेद सर्वेषां प्रभवाप्ययौ ।
स धीरः सर्वभूतेषु न मोऽहमधिगच्छति ॥ १४.३६.५० ॥

知晓诸范畴及一切事物之生起与灭尽者,即为坚定的智者;在一切众生中,迷惑不会降临于他。

14.36.51

तत्त्वानि यो वेदयते यथातथं ।
गुणांश्च सर्वानखिलाश्च देवताः।
विधूतपाप्मा प्रविमुच्य बन्धनं ।
स सर्वलोकानमलान्समश्नुते ॥ १४.३६.५१ ॥

若能如实地宣示诸范畴、一切德性与诸神,抖落罪过、彻底解脱束缚,他便能获得一切清净的世界。