摩诃婆罗多 · 章 14.4
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.4.1
शुश्रूषे तस्य धर्मज्ञ राजर्षेः परिकीर्तनम् ।
द्वैपायन मरुत्तस्य कथां प्रब्रूहि मेऽनघ ॥ १४.४.१ ॥
精通法者啊,我愿听闻那位王仙的称颂。德瓦帕亚纳啊,无罪者啊,请为我讲述摩路多的故事。
14.4.2
आसीत्कृतयुगे तात मनुर्दण्डिधरः प्रभुः ।
तस्य पुत्रो महोष्वासः प्रजातिरभवन्नृपः ॥ १४.४.२ ॥
亲爱的,在克里塔时代有摩奴,那位执掌刑杖的主宰。他的儿子大弓手普罗迦提成为了国王。
14.4.3
प्रजातेरभवत्पुत्रः क्षुत इत्यभिविश्रुतः ।
क्षुतस्य पुत्र इक्ष्वाकुर्महीपालोऽभवत्प्रभुः ॥ १४.४.३ ॥
普罗迦提之子以刹护多之名闻名。刹护多之子伊克瓦库成为主宰与大地的守护者。
14.4.4
तस्य पुत्रशतं राजन्नासीत्परमधार्मिकम् ।
तांस्तु सर्वान्महीपालानिक्ष्वाकुरकरोत्प्रभुः ॥ १४.४.४ ॥
大王啊,他有一百个极其正直的儿子。主宰伊克瓦库使他们全部成为大地的国王与守护者。
14.4.5
तेषां ज्येष्ठस्तु विंशोऽभूत्प्रतिमानं धनुष्मताम् ।
विंशस्य पुत्रः कल्याणो विविंशो नाम भारत ॥ १४.४.५ ॥
其中长子是毗木沙,乃善射者的典范。婆罗多啊,毗木沙之子是名为毗毗木沙的迦利亚那。
14.4.6
विविंशस्य सुता राजन्बभूवुर्दश पञ्च च ।
सर्वे धनुषि विक्रान्ता ब्रह्मण्याः सत्यवादिनः ॥ १४.४.६ ॥
大王啊,毗毗木沙有十五个儿子。他们都善于弓术,敬重婆罗门,并且诚实不欺。
14.4.7
दानधर्मरताः शान्ताः सततं प्रियवादिनः ।
तेषां ज्येष्ठः खनीनेत्रः स तान्सर्वानपीडयत् ॥ १४.४.७ ॥
他们热衷布施之法,性情平和,常说悦耳之言。其中长子卡尼涅特拉压迫了他们所有人。
14.4.8
खनीनेत्रस्तु विक्रान्तो जित्वा राज्यमकण्टकम् ।
नाशकद्रक्षितुं राज्यं नान्वरज्यन्त तं प्रजाः ॥ १४.४.८ ॥
卡尼涅特拉英勇,征服了无人抗拒的王国,却不能守护此国;臣民不对他忠心。
14.4.9
तमपास्य च तद्राज्ये तस्य पुत्रं सुवर्चसम् ।
अभ्यषिञ्चन्त राजेन्द्र मुदिता ह्यभवंस्तदा ॥ १४.४.९ ॥
他们将他从那王国中废黜,王中之王啊,于是拥立他的儿子苏婆尔恰斯;那时他们都欢喜了。
14.4.10
स पितुर्विक्रियां दृष्ट्वा राज्यान्निरसनं च तत् ।
नियतो वर्तयामास प्रजाहितचिकीर्षया ॥ १४.४.१० ॥
他见父亲的过失及其被逐出王国,便自制地行事,一心愿为民众谋福。
14.4.11
ब्रह्मण्यः सत्यवादी च शुचिः शमदमान्वितः ।
प्रजास्तं चान्वरज्यन्त धर्मनित्यं मनस्विनम् ॥ १४.४.११ ॥
他敬重婆罗门,诚实,清净,具备平静与克制,心胸高尚,常守法道,民众都归附于他。
14.4.12
तस्य धर्मप्रवृत्तस्य व्यशीर्यत्कोशवाहनम् ।
तं क्षीणकोशं सामन्ताः समन्तात्पर्यपीडयन् ॥ १४.४.१२ ॥
那位行法的国王的府库与军队衰落了;府库空虚时,四方的诸侯便从各处逼迫他。
14.4.13
स पीड्यमानो बहुभिः क्षीणकोशाश्ववाहनः ।
आर्तिमार्च्छत्परां राजा सह भृत्यैः पुरेण च ॥ १४.४.१३ ॥
国王被众人逼迫,府库、马匹与车乘皆已耗尽,他与臣仆及城邑一同陷入极大的苦难。
14.4.14
न चैनमभिहन्तुं ते शक्नुवन्ति बलक्षये ।
सम्यग्वृत्तो हि राजा स धर्मनित्यो युधिष्ठिर ॥ १४.४.१४ ॥
即使兵力衰竭,他们也无法击倒他,因为那位国王行为端正,常住于法,啊,坚战。
14.4.15
यदा तु परमामार्तिं गतोऽसौ सपुरो नृपः ।
ततः प्रदध्मौ स करं प्रादुरासीत्ततो बलम् ॥ १४.४.१५ ॥
当那位国王与城邑一同陷入极大苦难时,他吹响了名为“卡罗”的法螺,于是力量便显现了。
14.4.16
ततस्तानजयत्सर्वान्प्रातिसीमान्नराधिपान् ।
एतस्मात्कारणाद्राजन्विश्रुतः स करंधमः ॥ १४.४.१६ ॥
随后他征服了所有那些边境诸王;因此,国王啊,他以“坎达玛”之名而闻名。
14.4.17
आवीक्षित्तस्य पुत्रोऽभूत्त्रेतायुगमुखे पुरा ।
इन्द्रादनवरः श्रीमान्देवैरपि सुदुर्जयः ॥ १४.४.१७ ॥
往昔,在特列塔时代之初,阿维克希特生了一子;他不逊于因陀罗,光辉赫赫,即便诸神也极难战胜。
14.4.18
कारंधम इति ख्यातो बभूव जगतीपतिः ।
तस्य सर्वे महीपाला वर्तन्ते स्म वशे तदा।
स हि सम्राडभूत्तेषां वृत्तेन च बलेन च ॥ १४.४.१८ ॥
那位地上之主名为“坎达玛”;当时诸王皆在其统治之下。因其德行与武力,他成为了他们的君主。
14.4.19
अविक्षिन्नाम धर्मात्मा शौर्येणेन्द्रसमोऽभवत् ।
यज्ञशीलो धर्मरतिर्धृतिमान्संयतेन्द्रियः ॥ १४.४.१९ ॥
阿毗克希特是一位心怀正法的人,勇武堪比因陀罗。他热衷祭祀,喜好法,坚定不移,并克制自己的感官。
14.4.20
तेजसाऽऽदित्यसदृशः क्षमया पृथिवीसमः ।
बृहस्पतिसमो बुद्ध्या हिमवानिव सुस्थिरः ॥ १४.४.२० ॥
他的光辉如太阳,忍耐如大地,智慧如布利哈斯帕蒂,坚定如喜马拉雅。
14.4.21
कर्मणा मनसा वाचा दमेन प्रशमेन च ।
मनांस्याराधयामास प्रजानां स महीपतिः ॥ १४.४.२१ ॥
这位大地之主以行为、心意和言语,以克制与宁静,使臣民的心意欢喜。
14.4.22
य ईजे हयमेधानां शतेन विधिवत्प्रभुः ।
याजयामास यं विद्वान्स्वयमेवाङ्गिराः प्रभुः ॥ १४.४.२२ ॥
他依法举行了一百次马祭,主持祭祀的正是博学的主者安吉罗斯本人。
14.4.23
तस्य पुत्रोऽतिचक्राम पितरं गुणवत्तया ।
मरुत्तो नाम धर्मज्ञश्चक्रवर्ती महायशाः।
नागायुतसमप्राणः साक्षाद्विष्णुरिवापरः ॥ १४.४.२३ ॥
他的儿子马卢陀,德行超过了父亲,是通晓法的转轮王,名声显赫,拥有万头象的生命之力,宛如另一位毗湿奴。
14.4.24
स यक्ष्यमाणो धर्मात्मा शातकुम्भमयान्युत ।
कारयामास शुभ्राणि भाजनानि सहस्रशः ॥ १४.४.२४ ॥
这位行法之人将要举行祭祀,于是命人制作了数以千计的金制光亮器皿。
14.4.25
मेरुं पर्वतमासाद्य हिमवत्पार्श्व उत्तरे ।
काञ्चनः सुमहान्पादस्तत्र कर्म चकार सः ॥ १४.४.२५ ॥
他到达须弥山,在喜马拉雅北侧,在那里完成了一座极大的金基座之工。
14.4.26
ततः कुण्डानि पात्रीश्च पिठराण्यासंनानि च ।
चक्रुः सुवर्णकर्तारो येषां सङ्ख्या न विद्यते ॥ १४.४.२६ ॥
随后,金匠们制作了盆、器皿、锅和座位,其数量不可胜数。
14.4.27
तस्यैव च समीपे तु यज्ञवाटो बभूव ह ।
ईजे तत्र स धर्मात्मा विदिवत्पृथिवीपतिः।
मरुत्तः सहितैः सर्वैः प्रजापालैर्नराधिपः ॥ १४.४.२७ ॥
在其近旁建成了祭场。那里,正义的大地之主马鲁耳多与所有护民之王一同,依法举行了祭祀。