Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.41

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.41.1

अव्यक्तात्पूर्वमुत्पन्नो महानात्मा महामतिः ।
आदिर्गुणानां सर्वेषां प्रथमः सर्ग उच्यते ॥ १४.४१.१ ॥

在未显者之前生起的大我,大智者,一切德性之始——这被称为第一次创造。

14.41.2

महानात्मा मतिर्विष्णुर्जिष्णुः शंभुश्च वीर्यवान् ।
बुद्धिः प्रज्ञोपलब्धिश्च तता ख्यातिर्धृतिःस्मृतिः। ॥ १४.४१.२ ॥

大我、觉(mati)、毗湿奴、遮湿奴、湿婆与有力者;觉知、智慧的证得、扩展、名声、坚定与记忆。

14.41.3

पर्यायवाचकैः शब्दैर्महानात्मा विभाव्यते ।
तं जानन्ब्राह्मणो विद्वान्प्रमोहं नाधिगच्छति ॥ १४.४१.३ ॥

大我以同义之词来表示;知晓他的博学婆罗门,不会陷入迷惑。

14.41.4

सर्वतःपाणिपादं च सर्वतोक्षिशिरोमुखम् ।
सर्वतःश्रुतिमल्लोके सर्वं व्याप्यवतिष्ठति ॥ १४.४१.४ ॥

四面皆有手足,四面皆有眼、头与面,四面皆有耳;他遍及世间的一切而安住。

14.41.5

महाप्रभावः पुरुषः सर्वस्य हृदि निष्ठितः ।
अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ १४.४१.५ ॥

大威力的补卢沙安住于一切众生的心中;他具有微小、轻妙与获得之力,是主宰,是不灭之光。

14.41.6

तत्र बुद्धिमतां लोके सद्भावनिरताश्च ये ।
ध्यानिनो नित्ययोगाश्च सत्यसन्धा जितेन्द्रियाः ॥ १४.४१.६ ॥

在那里,世间那些有智慧、乐于真实之有的人,常修禅定与瑜伽、守誓言真实、调伏诸根的人——(他们证得他)。

14.41.7

ज्ञानवन्तश्च ये केचिदलुब्धा जितमन्यवः ।
प्रसन्नमनसो धीरा निर्ममा निरहंक्रियाः ॥ १४.४१.७ ॥

那些有智慧、无贪欲、已制服愤怒、心境平和、坚定、无我所执且无我慢的人。

14.41.8

विमुक्ताः सर्व एवैते महत्त्वमुपयान्त्युत ।
आत्मनो महतो वेद यः पुण्यां गतिमुत्तमाम् ॥ १४.४१.८ ॥

这些人皆得解脱而达到伟大;知晓伟大自我的人,得到最高的功德之道。

14.41.9

अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १४.४१.९ ॥

从我执中生出五大元素:地、风、空、水,第五为火。

14.41.10

तेषु भूतानि युज्यन्ते महाभूतेषु पञ्चसु ।
ते शब्दस्पर्शरूपेषु रसगन्धक्रियासु च ॥ १४.४१.१० ॥

众生与这五大元素相结合,于声、触、色、味、香及作用中活动。

14.41.11

महाभूतविनाशान्ते प्रलये प्रत्युपस्थिते ।
सर्वप्राणभृतां धीरा महदुत्पद्यते भयम् ॥ १४.४१.११ ॥

诸位坚定者啊,大元素毁灭之末,劫灭来临之时,一切有生命者心中生起大恐惧。

14.41.12

स धीरः सर्वलोकेषु न मोहमधिगच्छति ।
विष्णुरेवादिसर्गेषु स्वयंभूर्भवति प्रभुः ॥ १४.४१.१२ ॥

此坚定者在一切世界中都不陷入迷惑;在最初的创造中,毗湿奴自己成为自生的主宰。

14.41.13

एवं हि यो वेद गुहाशयं प्रभुं ।
परं पुराणं पुरुषं विश्वरूपम्।
हिरण्मयं बुद्धिमतां परां गतिं ।
स बुद्धिमान्बुद्धिमतीत्य तिष्ठति ॥ १४.४१.१३ ॥

若有人如此了知居于洞窟之中的主宰、至上古老的补鲁沙、具万形、金色者,他便是智者的最高归宿;此智者超越智慧而安住。

14.41.14

य उत्पन्नो महान्पूर्वमहङ्कारः स उच्यते ।
अहमित्येव सम्भूतो द्वितीयः सर्ग उच्यते ॥ १४.४१.१४ ॥

最初生起的那大(觉),称为我慢(ahaṅkāra);以“我”之念而生起者,称为第二创造。

14.41.15

अहङ्कारश्च भूतादिर्वैकारिक इति स्मृतः ।
तेजसश्चेतना धातुः प्रजासर्गः प्रजापतिः ॥ १४.४१.१५ ॥

我慢被称为诸元素之始与由变易而生者;光明的觉性元素即是众生之创造,而生主亦是如此。

14.41.16

देवानां प्रभवो देवो मनसश्च त्रिलोककृत् ।
अहमित्येव तत्सर्वमभिमानः स उच्यते ॥ १४.४१.१६ ॥

诸神之源的天神,意与三界的创造者——以“我”之形式,一切皆在其中;此称为我执(abhimāna)。

14.41.17

अध्यात्मज्ञानतृप्तानां मुनीनां भावितात्मनाम् ।
स्वाध्यायक्रतुसिद्धानामेष लोकः सनातनः ॥ १४.४१.१७ ॥

对于以内在自我之知而满足、自性清净的诸牟尼,以及以诵习与祭祀而成就者,此世界是永恒的。

14.41.18

अहङ्कारेणाहरतो गुणानिमा-
न्भूतादिरेवं सृजते स भूतकृत्।
वैकारिकः सर्वमिदं विचेष्टते ।
स्वतेजसा रञ्जयते जगत्तथा ॥ १४.४१.१८ ॥

我慢摄取这些德,诸元素之始便如是创造;作为众生之作者、由变易而生者,运作这一切,并以自身之光明染饰世界。