Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 14.42

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

14.42.1

अहङ्कारात्प्रसूतानि महाभूतानि पञ्च वै ।
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ १४.४२.१ ॥

自我意識(ahaṅkāra)から五大元素が生じた。地、風、虚空、水、そして第五の光である。

14.42.2

तेषु भूतानि मुह्यन्ति महाभूतेषु पञ्चसु ।
शब्दस्पर्शनरूपेषु रसगन्धक्रियासु च ॥ १४.४२.२ ॥

声・触・色・味・香と作用をもつその五大において、生類は迷う。

14.42.3

महाभूतविकारान्ते प्रलये प्रत्युपस्थिते ।
सर्वप्राणभूतां धीरा महदुत्पद्यते भयम् ॥ १४.४२.३ ॥

五大の変化が終わり、プラローヤ(劫末)が近づくとき、堅固な賢者にさえ、息あるすべての生類への大きな恐れが生じる。

14.42.4

यद्यस्माज्जायते भूतं तत्र तत्प्रविलीयते ।
लीयन्ते प्रतिलोमानि जायन्ते चोत्तरोत्तरम् ॥ १४.४२.४ ॥

ある存在はそこから生まれ、そこへ溶け去る。逆の順序で溶け、次々と次第に生じていく。

14.42.5

ततः प्रलीने सर्वस्मिन्भूते स्थावरजङ्गमे ।
स्मृतिमन्तस्तदा धीरा न लीयन्ते कदाचन ॥ १४.४२.५ ॥

その時、不動と動くものの一切の存在が滅し尽くすと、念をもつ堅固な賢者は決して滅しない。

14.42.6

शब्दः स्पर्शस्तथा रूपं रसो गन्धश्च पञ्चमः ।
क्रियाः करणयुक्ताः स्युरनित्या मोहसंज्ञिताः ॥ १४.४२.६ ॥

声・触・色・味、そして第五の香、ならびに諸根と結びついた作用は無常であり、「迷い」と呼ばれる。

14.42.7

लोभप्रजनसम्भूता निर्विशेषा ह्यकिञ्चनाः ।
मांसशोणितसङ्घाता अन्योन्यस्योपजीविनः ॥ १४.४२.७ ॥

貪欲と生殖から生じ、区別のなく、実のところ何ももたず、肉と血の集合であり、互いに依存して生きるもの。

14.42.8

बहिरात्मान इत्येते दीनाः कृपणजीविनः ।
प्राणापानावुदानश्च समानो व्यान एव च ॥ १४.४२.८ ॥

これらは外に向かう自己と呼ばれ、哀れで、みじめな生き方をする。プラーナ、アパーナ、ウダーナ、サマーナ、そしてヴィヤーナも。

14.42.9

अन्तरात्मनि चाप्येते नियताः पञ्च वायवः ।
वाङ्मनोबुद्धिरित्येभिः सार्धमष्टात्मकं जगत् ॥ १४.४२.९ ॥

内なる自己においても、これら五つの風は制御されている。言葉、心、知性とともに、これらによって世界は八つの本性からなる。

14.42.10

त्वग्घ्राणश्रोत्रचक्षूंषि रसना वाक्च संयताः ।
विशुद्धं च मनो यस्य बुद्धिश्चाव्यभिचारिणी ॥ १४.४२.१० ॥

皮膚、鼻、耳、眼、舌、言葉が抑制されている者。心が清浄で、知性が揺らがない者。

14.42.11

अष्टौ यस्याग्नयो ह्येते दहन्तेऽहङ्क्रियाः सदा ।
स तद्ब्रह्म शुभं याति तस्माद्भूयो न विद्यते ॥ १४.४२.११ ॥

その八つの火が常に我慢から生じる行為を焼き尽くす者は、その吉祥なるブラフマンに至る。それより上は何もない。

14.42.12

एकादश च यान्याहुरिन्द्रियाणि विशेषतः ।
अहङ्कारात्प्रसूतानि तानि वक्ष्यामि नामतः ॥ १४.४२.१२ ॥

特に十一の感官と呼ばれ、我慢から生じたものを、私は名前で語ろう。

14.42.13

श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी ।
पादौ पायुरुपस्थश्च हस्तौ वाग्दशमी भवेत् ॥ १४.४२.१३ ॥

聴覚、皮膚、二つの眼、舌、そして五つ目は鼻。二本の足、肛門、生殖器、二本の手、そして十番目は言葉である。

14.42.14

इन्द्रियग्राम इत्येष मन एकादशं भवेत् ।
एतं ग्रामं जयेत्पूर्वं ततो ब्रह्म प्रकाशते ॥ १४.४२.१४ ॥

これが諸感覚の群れであり、意が第十一である。まずこの群れを征服すべきである。そのときブラフマンが輝き現れる。

14.42.15

बुद्धीन्द्रियाणि पञ्चाहुः पञ्च कर्मेन्द्रियाणि च ।
श्रोत्रादीन्यपि पञ्चाहुर्बुद्धियुक्तानि तत्त्वतः ॥ १४.४२.१५ ॥

知覚の感覚器官は五つ、行為の器官も五つと言われる。聴覚などの五つもまた、実には知性と結びついていると言われる。

14.42.16

अविशेषाणि चान्यानि कर्मयुक्तानि यानि तु ।
उभयत्र मनो ज्ञेयं बुद्धिस्तु द्वादशी भवेत् ॥ १४.४२.१६ ॥

その他の区別のないものは作用と結びついている。意は両方に属すると知るべきであり、知性は第十二である。

14.42.17

इत्युक्तानीन्द्रियाण्येतान्येकादश यथाक्रमम् ।
मन्यन्ते कृतमित्येवं विदित्वा तानि पण्डिताः ॥ १४.४२.१७ ॥

こうして十一の感覚が順序どおりに説かれた。これを知った賢者たちは、務めは成し遂げられたと考える。

14.42.18

त्रीणि स्थानानि भूतानां चतुर्थं नोपपद्यते ।
स्थलमापस्तथाऽ।काशं जन्म चापि चतुर्विधम् ॥ १४.४२.१८ ॥

生きものには三つの場所がある。第四は見出されない。陸、水、虚空——そして生まれも四種である。

14.42.19

अण्डजोद्भिज्जसंस्वेदजरायुजमथापि च ।
चतुर्धा जन्म इत्येतद्भूतग्रामस्य लक्ष्यते ॥ १४.४२.१९ ॥

卵生、芽生、湿生、胎生――このように万物の生まれには四種が見られる。

14.42.20

अपराण्यथ भूतानि खेचराणि तथैव च ।
अण्डजानि विजानीयात्सर्वांश्चैव सरीसृपान् ॥ १४.४२.२० ॥

空を行くその他の生き物と、あらゆる這うものは卵生と知るべきである。

14.42.21

स्वेदजाः कृमयः प्रोक्ता जन्तवश्च यथाक्रमम् ।
जन्मद्वितीयमित्येतज्जघन्यतरमुच्यते ॥ १४.४२.२१ ॥

湿生の虫類と生き物は順に説かれる。これを第二の生と呼び、最も下劣とされる。

14.42.22

भित्त्वा तु पृथिवीं यानि जायन्ते कालपर्ययात् ।
उद्भिज्जानि च तान्याहुर्भूतानि द्विजसत्तमाः ॥ १४.४२.२२ ॥

大地を破って時の流れとともに生まれるもの、二生者の最上の方々よ、それを芽生の生き物と呼ぶ。

14.42.23

द्विपादबहुपादानि तिर्यग्गतिमतीनि च ।
जरायुजानि भूतानि विकृतान्यपि सत्तमाः ॥ १४.४२.२३ ॥

二足のもの、多足のもの、横に動くもの、そして姿の歪んだものさえも、胎生の生き物である。最上の方々よ。

14.42.24

द्विविधा खलु विज्ञेया ब्रह्मयोनिः सनातना ।
तपः कर्म च यत्पुण्यमित्येष विदुषां नयः ॥ १४.४२.२४ ॥

梵の胎は永遠であり、二つに知るべきである。苦行と功徳ある行為である。これが賢者の教えである。

14.42.25

विविधं कर्म विज्ञेयमिज्या दानं च तन्मखे ।
वेदस्याध्ययनं पुण्यमिति वृद्धानुशासनम् ॥ १४.४२.२५ ॥

種々の業を知るべきである。祭祀、祭における布施、そしてヴェーダの学習こそが功徳である——これが長老の教えである。

14.42.26

एतद्यो वेत्ति विधिवत्स मुक्तः स्याद्द्विजर्षभाः ।
विमुक्तः सर्वपापेभ्य इति चैव निबोधत ॥ १४.४२.२६ ॥

これを規定どおりに知る者は解脱し、二度生まれた者たちの最良者よ、あらゆる罪から解き放たれる。これを理解せよ。

14.42.27

अतः परं प्रवक्ष्यामि सर्वं विविधमिन्द्रियम् ॥ १४.४२.२७ ॥

これより先、あらゆる種類の感官について説こう。

14.42.28

आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते ।
अधिभूतं तथा शब्दो दिशश्चात्राधिदैवतम् ॥ १४.४२.२८ ॥

虚空は第一の元素。耳は内なる感官と呼ばれる。その外境は音であり、ここでは方位が主宰神である。

14.42.29

द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम् ।
स्प्रष्टव्यमधिभूतं तु विद्युत्तत्राधिदैवतम् ॥ १४.४२.२९ ॥

第二の元素は風。皮膚は内なる感官として知られる。その外境は触覚であり、そこでは稲妻が主宰神である。

14.42.30

तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममिष्यते ।
अधिभूतं ततो रूपं सूर्यस्तत्राधिदैवतम् ॥ १४.४२.३० ॥

第三の元素は光と呼ばれ、眼が内なる感官とされる。その外境は色であり、そこでは太陽が主宰神である。

14.42.31

चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममिष्यते ।
अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥ १४.४२.३१ ॥

第四の要素は水と知るべきである。舌が内的(根)とされ、その外的対象は味であり、そこでの主宰神はソーマである。

14.42.32

पृथिवी पञ्चमं भूतं घ्राणश्चाध्यात्ममुच्यते ।
अधिभूतं तथा गन्धो वायुस्तत्रादिदैवतम् ॥ १४.४२.३२ ॥

第五の要素は地である。鼻が内的(根)と呼ばれ、その外的対象は香であり、そこでの主宰神はヴァーユである。

14.42.33

एषु पञ्चसु भूतेषु चतुष्टयविधिः स्मृतः ।
अतः परं प्रवक्ष्यामि सर्वं त्रिविधमिन्द्रियम् ॥ १४.४२.३३ ॥

これら五大の中に四重の配置が伝えられている。これより先、三重のすべての感官について説こう。

14.42.34

पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्वदर्शिनः ।
अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥ १४.४२.३४ ॥

真理を見る婆羅門たちは、両足が内的(根)であると言う。その外的対象は到達すべき処であり、そこでの主宰神はヴィシュヌである。

14.42.35

अवाग्गतिरपानश्च पायुरध्यात्ममिष्यते ।
अधिभूतं विसर्गश्च मित्रस्तत्राधिदैवतम् ॥ १४.४२.३५ ॥

下への運動、下降する気息、肛門が内的(根)とされる。その外的対象は排泄であり、そこでの主宰神はミトラである。

14.42.36

प्रजनः सर्वभूतानामुपस्थोऽध्यात्ममुच्यते ।
अधिभूतं तथा शुक्रं दैवतं च प्रजापतिः ॥ १४.४२.३६ ॥

あらゆる生き物の生殖の器である生殖器は内的(根)と呼ばれる。同様にその外的対象は精液であり、その神はプラジャーパティである。

14.42.37

हस्तावध्यात्ममित्याहुरद्यात्मविदुषो जनाः ।
अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम् ॥ १४.४२.३७ ॥

自己を知る人々は、両手を内なるもの(アディャートマ)と言う。外なるもの(アディブータ)は行為であり、そこを司る神(アディダイヴァタ)はインドラである。

14.42.38

वैश्वदेवी मनःपूर्वा वागध्यात्ममिहोच्यते ।
वक्तव्यमधिभूतं च वह्निस्तत्राधिदैवतम् ॥ १४.४२.३८ ॥

ここでは、意に先立たれる、ヴァイシュヴァデーヴィーである言葉が内なるもの(アディャートマ)と言われる。語られるべきものは外なるもの(アディブータ)であり、そこを司る神(アディダイヴァタ)はアグニである。

14.42.39

अध्यात्मं मन इत्याहुः पञ्चभूतात्मचारकम् ।
अधिभूतं च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ॥ १४.४२.३९ ॥

五大からなる自己を動かすものとして、意を内なるもの(アディャートマ)と言う。外なるものは決意(サンカルパ)であり、そこを司る神(アディダイヴァタ)は月である。

14.42.40

अहङ्कारस्तथाऽध्यात्मं सर्वसंसारकारणम् ।
अभिमानोऽधिभूतं च रुद्रस्तत्राधिदैवतम् ॥ १४.४२.४० ॥

「我」という意識もまた内なるもの(アディャートマ)であり、あらゆる輪廻の原因である。慢心は外なるもの(アディブータ)であり、そこを司る神(アディダイヴァタ)はルドラである。

14.42.41

अध्यात्मं बुद्धिरित्याहुः षडिन्द्रियविचारिणी ।
अधिभूतं तु विज्ञेयमहस्तत्राधिदैवतम् ॥ १४.४२.४१ ॥

六つの感官を通して識別する知性を内なるもの(アディャートマ)と言う。外なるものは昼と知るべきであり、そこを司る神(アディダイヴァタ)は太陽である。

14.42.42

यथावदध्यात्मविधिरेष वः कीर्तितो मया ।
ज्ञानमस्य हि धर्मज्ञाः प्राप्तं ज्ञानवतामिह ॥ १४.४२.४२ ॥

この内なる規則を、私はありのままにあなたがたに説き明かした。法を知る者たちよ、その知はここで智者たちによって得られたのである。

14.42.43

इन्द्रियाणीन्द्रियार्थाश्च महाभूतानि पञ्च च ।
सर्वाण्येतानि संधाय मनसा सम्प्रधारयेत् ॥ १४.४२.४३ ॥

諸感官、感官の対象、そして五大元素——これらすべてを意によって結び合わせ、堅固に保つべきである。

14.42.44

क्षीणे मनसि सर्वस्मिन्न जन्मसुखमिष्यते ।
ज्ञानसम्पन्नसत्त्वानां तत्सुखं विदुषां मतम् ॥ १४.४२.४४ ॥

心がすっかり衰えたとき、生の喜びは望まれない。智慧に満ちた善性の人々にとって、それこそが幸福であると賢者たちは考える。

14.42.45

अतः परं प्रवक्ष्यामि सूक्ष्मभावकरीं शिवाम् ।
निवृत्तिं सर्वभूतेषु मृदुना दारुणेन वा ॥ १४.४२.४५ ॥

次に、微妙な境地を生じさせる吉祥な離脱について説こう——一切の生き物に対して、柔和な方法によるにせよ、厳しい方法によるにせよ。

14.42.46

गुणागुणमनासङ्गमेकचर्यमनन्तरम् ।
एतद्ब्राह्मणजं वृत्तमाहुरेकपदं सुखम् ॥ १४.४२.४६ ॥

善と不善に執着せず、一心にして途切れることのない振る舞い——これをバラモンから生じた行いと呼び、幸福への唯一の一歩と言う。

14.42.47

विद्वान्कूर्म इवाङ्गानि कामान्संहृत्य सर्वशः ।
विरजाः सर्वतो मुक्तो यो नरः स सुखी सदा ॥ १४.४२.४७ ॥

亀が手足を引き込むように、一切の欲望を完全に収めた賢者は、塵垢を離れ、あらゆる面で解脱しており、その人は常に幸福である。

14.42.48

कामानात्मनि संयम्य क्षीणतृष्णः समाहितः ।
सर्वभूतसुहृन्मैत्रो ब्रह्मभूयाय कल्पते ॥ १४.४२.४८ ॥

自己の内で欲望を制し、渇愛を尽くし、心を定め、一切の生き物の友となり慈しむ者は、ブラフマンの状態に至るにふさわしくなる。

14.42.49

इन्द्रियाणां निरोधेन सर्वेषां विषयैषिणाम् ।
मुनेर्जनपदत्यागादध्यात्माग्निः समिध्यते ॥ १४.४२.४९ ॥

感官を制御し、感覚対象を求める者すべてを離れ、聖者が村里を捨てるとき、内なる火が燃え上がる。

14.42.50

यथाऽग्निरिन्धनैरिद्धो महाज्योतिः प्रकाशते ।
तथेन्द्रियनिरोधेन महानात्मा प्रकाशतदे ॥ १४.४२.५० ॥

薪によって燃え上がった火が大きな光を放つように、感官の制御によって偉大な自己が輝き出る。

14.42.51

यदा पश्यति भूतानि प्रसन्नात्माऽत्मनो हृदि ।
स्वयंज्योतिस्तदासूक्ष्मात्सूक्ष्मं प्राप्नोत्यनुत्तमम् ॥ १४.४२.५१ ॥

心の澄んだ者が自らの心の内に万物を見るとき、自ら輝く者は、微細なものの中の微細、最高のものに至る。

14.42.52

अग्नी रूपं रसं स्रोतो वायुः स्पर्शनमेव च ।
मही गन्धधरा घ्राणमाकाशः श्रवणं तथा। ॥ १४.४२.५२ ॥

火は形、水は味の源、風は触、地は香りを担い、それが嗅覚。そして空は聴覚である。

14.42.53

दृश्यमादित्यमेवाहुरध्यात्मविदुषो जनाः ।
रोगशोकसमाविष्टं पञ्चस्रोतःसमावृतम्।
पञ्चभूतसमायुक्तं नवद्वारं द्विदैवतम् ॥ १४.४२.५३ ॥

内なる自己を知る人々は、これを見えるもの、太陽と呼ぶ。これは病と悲しみに覆われ、五つの経路に包まれ、五大元素と結びつき、九つの門と二柱の神を持つ。

14.42.54

रजस्वलमथादृश्यं त्रिगुणं सप्तधातुकम् ।
संसर्गाभिरतं मूढं शरीरमिति धारणा ॥ १४.४२.५४ ॥

激情に満ち、目に見えず、三つの性質と七つの構成要素からなり、接触を喜び迷うもの——これが身体という観念である。

14.42.55

दुश्चरं जीवलोकेऽस्मिन्सत्वं प्रति समाश्रितम् ।
एतदेव हि लोकेऽस्मिन्कालचक्रं प्रवर्तते ॥ १४.४२.५५ ॥

生き物の世界において、サットヴァに身を寄せることは困難である。この世界でまさにカーラチャクラ(時輪)が回るのである。

14.42.56

एतन्महार्णवं घोरमगाधं मोहसंझितम् ।
विसृजन्संक्षिपेच्चैव मोहयन्स्वापयञ्जगत् ॥ १४.४२.५६ ॥

この恐ろしく底知れぬ大海は迷妄と呼ばれる。世界を放出し、また収め、惑わせ、眠らせる。

14.42.57

कामं क्रोधं भयं लोभमभिद्रोहमथानृतम् ।
इन्द्रियाणां निरोधेन सतस्त्यजति दुस्त्यजान् ॥ १४.४२.५७ ॥

感官を制することによって、善人は欲望、怒り、恐怖、貪欲、裏切り、虚偽を捨てる。これらは捨てがたいものである。

14.42.58

यस्यैते निर्जिता लोके त्रिगुणाः पञ्चधातवः ।
व्योम्नि तस्य परं स्थानमानन्तमथ लक्ष्यते ॥ १४.४२.५८ ॥

この世で三つのグナと五大を征服した者には、虚空の中に無限の至高の住処が見える。

14.42.59

पञ्चेन्द्रियमहाकूलां मनःस्रोतोभयावहाम् ।
नदीं मोहह्रदां तीर्त्वा कामक्रोधावुभौ जयेत् ॥ १४.४२.५९ ॥

五感を大きな岸とし、意の流れが恐れをもたらし、迷妄を淵とする、この河を渡ってから、欲と怒の両方を征服すべきである。

14.42.60

स सर्वदोषनिर्मुक्तस्ततः पश्यति तत्परम् ।
मनो मनसि सन्धाय पश्यन्नात्मानमात्मनि ॥ १४.४२.६० ॥

あらゆる過ちから解放された者は、そこで至高を見る。心を心に定め、自己を自己の中に見る。

14.42.61

सर्ववित्सर्वभूतेषु द्रक्ष्यत्यात्मानमात्मनि ।
एकधा बहुधा चैव विकुर्वाणस्ततस्ततः ॥ १४.४२.६१ ॥

一切を知る者は、あらゆる存在の中に、自己の内に自己を見るであろう。一つの姿として、また多くの姿として、繰り返し現れながら。

14.42.62

ध्रुवं पश्यति रूपाणि दीपाद्दीपशतं यथा ।
स वै विष्णुश्च मित्रश्च वरुणोऽग्निः प्रजापतिः ॥ १४.४२.६२ ॥

彼は確かに多くの姿を見る。一つの灯火から百の灯火が点されるように。彼はヴィシュヌであり、ミトラであり、ヴァルナであり、アグニであり、プラジャーパティである。

14.42.63

स हि धाता विधाता च स प्रभुः सर्वतोमुखः ।
हृदयं सर्वभूतानां महानात्मा प्रकाशते ॥ १४.४२.६३ ॥

彼は支え手であり定め手であり、あらゆる方向に顔を向ける主である。すべての存在の心として、偉大な自己が輝き出る。

14.42.64

तं विप्रसङ्घाश्च सुरासुराश्च ।
यक्षाः पिशाचाः पितरो वयांसि।
रक्षोगणा भूतगणाश्च सर्वे ।
महर्षयश्चैव सदा स्तुवन्ति ॥ १४.४२.६४ ॥

彼をブラーフマナの群れ、神々と阿修羅、ヤクシャとピシャーチャ、祖霊、鳥たち、ラークシャサの群れ、精霊の群れ、そしてすべての大聖者が常に讃える。