摩诃婆罗多 · 章 14.47
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.47.1
संन्यासं तप इत्याहुर्वृद्धा निश्चितवादिनः ।
ब्राह्मणा ब्रह्मयोनिस्था ज्ञानं ब्रह्म परं विदुः ॥ १४.४७.१ ॥
言辞确定的长者称舍离为苦行;安住于梵之源的婆罗门则知智慧即是至上的梵。
14.47.2
अतिदूरात्मकं ब्रह्म वेदविद्याव्यपाश्रयम् ।
निर्द्वन्द्वं निर्गुणं नित्यमचिन्त्यगुणमुत्तमम् ॥ १४.४७.२ ॥
梵具有至远之性,依托吠陀之明,超越二元,无属性,永恒,具有不可思议之德,至上殊胜。
14.47.3
ज्ञानेन तपसा चैव धीराः पश्यन्ति तत्परम् ।
निर्णिक्तमनसः पूता व्युत्क्रान्तरजसोऽमलाः ॥ १४.४७.३ ॥
唯有以智慧与苦行,坚定者方能见到那至上者:心意净化、清净、超越激情、无垢之人。
14.47.4
तपसा क्षेममध्वानं गच्छन्ति परमेश्वरम् ।
संन्यासनिरता नित्यं ये च ब्रह्मविदो जनाः ॥ १४.४७.४ ॥
借苦行,他们沿安稳之道抵达至上主宰:那些常安于舍离者,以及通晓梵的人们。
14.47.5
तपः प्रदीप इत्याहुराचारो धर्मसाधकः ।
ज्ञानं वै परमं विद्यात्संन्यासं तप उत्तमम् ॥ १४.४७.५ ॥
人们称苦行为灯,正行为成就法者;应当知智慧为至上,舍离为最上之苦行。
14.47.6
यस्तु वेद निराबाधं ज्ञानं तत्त्वविनिश्चयात् ।
सर्वभूतस्थमात्मानं स सर्वविदिहोच्यते ॥ १४.४७.६ ॥
若有人以真理之确定通达无碍之智,知晓栖于一切众生中的自我,此人在此被称为一切知者。
14.47.7
यो विद्वान्सहवासं च विवासं चैव पश्यति ।
तथैवेकत्वनानात्वे स दुःखात्प्रतिमुच्यते ॥ १४.४७.७ ॥
智者若能看见相聚与分离,也能如此看见一与多,他便从苦中解脱。
14.47.8
यो न कामयते किञ्चिन्न किञ्चिदवमन्यते ।
इह लोकस्थ एवैष ब्रह्मभूयाय कल्पते ॥ १४.४७.८ ॥
不欲求任何事物,也不轻视任何事物,安住于此世的人,便能够成为梵。
14.47.9
प्रधानगुणतत्त्वज्ञः सर्व भूतविधानवित् ।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥ १४.४७.९ ॥
知晓原初本体、诸德与真理,通达一切众生之秩序,无我所、无我慢者得解脱,此中无疑。
14.47.10
निर्द्वन्द्वो निर्नमस्कारो निःस्वधाकार एव च ।
निर्गुणं नित्यमद्वन्द्वं प्रशमेनैव गच्छति ॥ १४.४७.१० ॥
超越对待、不行礼敬、不行svadhā供奉者,唯凭寂静便能抵达无德、常住、不二之境。
14.47.11
हित्वा गुणमयं सर्वं कर्म जन्तुः शुभाशुभम् ।
उभे सत्यानृते हित्वा मुच्यते नात्र संशयः ॥ १४.४७.११ ॥
舍弃一切由德构成的业,无论吉祥或不吉祥,舍弃真与妄二者,众生即得解脱,此中无疑。
14.47.12
अव्यक्तबीजप्रभवो बुद्धिस्कन्धमयो महान् ।
महाहङ्कारविटप इन्द्रियान्तरकोटरः ॥ १४.४७.१२ ॥
生于未显之种,以觉智为干,宏大,以大我慢为枝,以诸根内部之孔穴为洞。
14.47.13
महाभूतविशाखश्च विशेषप्रतिशाखवान् ।
सदापत्रः सदापुष्पः शुभाशुभफलोदयः ॥ १४.४७.१३ ॥
以大种为枝,具有特殊的分枝,常有叶,常有花,生出善恶之果。
14.47.14
आजीव्यः सर्वभूतानां ब्रह्मवृक्षः सनातनः ।
एनं छित्त्वा च भित्त्वा च तत्त्वज्ञानासिना बुधः ॥ १४.४७.१४ ॥
此梵树为一切众生之所依,永恒不灭。智者以真知之剑斩断并劈开它,
14.47.15
हित्वा सङ्गमयान्पाशान्मृत्युजन्मजरोदयान् ।
निर्ममो निरहङ्कारो मुच्यते नात्र संशयः ॥ १४.४७.१५ ॥
舍弃那些生起死亡、生和衰老的执着之索,无我所、无我慢者得解脱,此中无疑。
14.47.16
द्वाविमौ पक्षिणौ नित्यौ संक्षेपौ चाप्यचेतनौ ।
एताभ्यां तु परो योन्यश्चेतनावान्स उच्यते ॥ १४.४७.१६ ॥
此二鸟常住,为总括之相,亦无知觉。在此二者之上,有具足觉知的更高本源,被称为彼。
14.47.17
अचेतनः सत्वसङ्ख्याविमुक्तः ।
सत्त्वात्परं चेतयतेऽन्तरात्मा।
स क्षेत्रवित्सर्वसङ्ख्यातबुद्धि-
र्गुणातिगो मुच्यते सर्वपापैः ॥ १४.४७.१७ ॥
无知觉者,离诸德之数;超越德性而觉知的内我,即是知田者。智慧已数尽一切、超越诸德者,脱离一切罪业。