Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.49

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.49.1

को वा स्विदिह धर्माणामनुष्ठेयतमो मतः ।
व्याहतामिव पश्यामो धर्मस्य विविधां गतिम् ॥ १४.४९.१ ॥

在这里,诸法之中何者被认为最应奉行?我们看到法的多样进路仿佛相互矛盾。

14.49.2

ऊर्द्ध्वं देहाद्वदन्त्येके नैतदस्तीति चापरे ।
केचित्संशयितं सर्वं निःसंशयमथापरे ॥ १४.४९.२ ॥

有人说身体之上另有存在,有人说并非如此。有人认为一切都可疑,另有人认为一切都无疑。

14.49.3

अनित्यं नित्यमित्येके नास्त्यस्तीत्यपि चापरे ।
त्रिधेत्येके द्विधेत्येके व्याकीर्णमिति चापरे ॥ १४.४९.३ ॥

有人说它无常,有人说它常住;有人说它不存在,有人说它存在。有人说它有三种,有人说它有两种,另有人说它是散乱的。

14.49.4

मन्यन्ते ब्राह्मणा एव ब्रह्मज्ञास्तत्त्वदर्शिनः ।
एकमेके पृथक्चान्ये बहुत्वमिति चापरे ॥ १४.४९.४ ॥

唯有知梵的、见真理的婆罗门才这样认为。有人认为它是一,有人认为它各自不同,另有人认为它是多。

14.49.5

देशकालावुभौ केचिन्नैतदस्तीति चापरे ।
जटाजिनधराश्चान्ये मुण्डाः केचिदसंवृताः ॥ १४.४९.५ ॥

有人认为时间与空间二者皆有,有人认为都没有,另有人认为此并不存在。有人戴着发髻、穿着鹿皮,有人剃光了头,有人赤身裸体。

14.49.6

अश्नानं केचिदिच्छन्ति स्नानमप्यपरे जनाः ।
मन्यन्ते ब्राह्मणा देवा ब्रह्मज्ञास्तत्त्वदर्शिनः ॥ १४.४९.६ ॥

有人不愿沐浴,也有人愿意沐浴。人们视知梵、见真理的婆罗门为神。

14.49.7

आहारं केचिदिच्छन्ति केचिच्चानशने रताः ।
कर्म केचित्प्रशंसन्ति प्रशान्ति चापरे जनाः ॥ १४.४९.७ ॥

有人渴望食物,有人专心于禁食。有人赞美行动,另一些人赞美寂静。

14.49.8

केचिन्मोक्षं प्रशंसन्ति केचिद्भोगान्पृथग्विधान् ।
धनानि केचिदिच्छन्ति निर्धनत्वमथापरे।
उपास्य साधनं त्वेके नैतदस्तीति चापरे ॥ १४.४९.८ ॥

有人赞美解脱,有人赞美种种享乐。有人渴望财富,另一些人渴望贫穷。有人崇奉手段,另一些人说:“这并不存在。”

14.49.9

अहिंसानिरताश्चान्ये केचिद्धिंसापरायणाः ।
पुण्येन यशसा चान्ये नैतदस्तीति चापरे ॥ १४.४९.९ ॥

有人专心于不害,有人专注于伤害。有人凭功德与名声,另一些人说:“这并不存在。”

14.49.10

सद्भावनिरताश्चान्ये केचित्संशयिते स्थिताः ।
दुःखादन्ये सुखादन्ये ध्यानमित्यपरे जनाः ॥ १४.४९.१० ॥

有人专心于善心,有人停留在疑惑之中。有人由苦而行,另一些人由乐而行。其他人说:“禅定。”

14.49.11

यज्ञ इत्यपरे विप्राः प्रदानमिति चापरे ।
तपस्त्वन्ये प्रशंसन्ति स्वाध्यायमपरे जनाः ॥ १४.४९.११ ॥

有些婆罗门说是祭祀,另一些说是布施。有人赞美苦行,另一些人赞美自修。

14.49.12

ज्ञानं संन्यासमित्येके स्वभावं भूतचिन्तकाः ।
सर्वमेके प्रशंसन्ति न सर्वमिति चापरे ॥ १४.४९.१२ ॥

有人说智慧即是出离;观察众生者则赞美自性。有人赞美一切,另一些人说:“并非一切。”

14.49.13

एवं व्युत्थापिते धर्मे बहुधा विप्रबोधिते ।
निश्चयं नाधिगच्छामः श्रेयः किमिति सत्तम ॥ १४.४९.१३ ॥

如此,法被多种方式动摇,又被学者们扰乱,我们无法确定何为至善,哦,善人中最优秀者。

14.49.14

इदं श्रेय इदं श्रेय इत्येवं व्युस्थितो जनः ।
यो हि यस्मिन्रतो धर्म स तं पूजयते सदा ॥ १४.४९.१४ ॥

人们说着“这是至善,这是至善”,彼此分歧。谁沉迷于何种法,便始终尊奉那一法。

14.49.15

तेन नोऽविहिता प्रज्ञा मनश्च बहुलीकृतम् ।
एतदाख्यातमिच्छामः श्रेयः किमिति सत्तम ॥ १४.४९.१५ ॥

因此我们的智慧未能确定,心也分裂为众多部分。我们希望有人宣说:何为至善,哦,善人中最优秀者?

14.49.16

अतः परं तु यद्गुह्यं तद्भवान्वक्तुमर्हति ।
सत्वक्षेत्रज्ञयोश्चापि सम्बन्धः केन हेतुना ॥ १४.४९.१६ ॥

此后所谓秘密之事,您应当宣说:萨埵与知田者之间的联系,缘于何因?

14.49.17

एवमुक्तः स तैर्विप्रैर्भगवाँल्लोकभावनः ।
तेभ्यः शशंस धर्मात्मा याथातथ्येन बुद्धिमान् ॥ १४.४९.१७ ॥

那些婆罗门如此请求,世界的护持者、法性高尚而有智慧的世尊,便依真实之理为他们宣说。