Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.54

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.54.1

ब्रूहि केशव तत्त्वेन त्वमध्यात्ममनिन्दितम् ।
श्रुत्वा श्रेयोऽभिधास्यामि शापं वा ते जनार्दन ॥ १४.५४.१ ॥

啊,Keśava,请如实告诉我无可指责的内在自我真理。听后,我将宣告对你有益之事,或诅咒你,啊,Janārdana。

14.54.2

तमो रजश्च सत्वं च विद्धि भावान्मदाश्रयान् ।
स्थितिसृष्टिलयाध्यक्षो विष्णुब्रह्मेशसंज्ञितः ॥ १४.५४.२ ॥

应知暗性、激性与善性是依止于我的状态。掌管住持、创造与毁灭的主宰,被称为毗湿奴、梵天和自在天。

14.54.3

कदाचित्तमसा रुद्रो विष्णुः सत्त्वगुणे स्थितः ।
रजस्यपि तथा ब्रह्मा स्वगुणान्यगुणानुभौ ॥ १४.५४.३ ॥

有时楼陀罗住于暗性,毗湿奴住于善性,梵天同样住于激性。二者既住于自己的性质,也住于非自己的性质。

14.54.4

प्रणवात्मा च शब्दादींस्त्रिगुणात्मा चराचरम् ।
तथा रुद्रान्वसून्वाऽपि विद्धि मत्प्रभवान्द्विज ॥ १४.५४.४ ॥

其本性为唵(Oṃ)音节,即声等诸境,其性质由三德构成,即是动与不动之万物。同样,应知楼陀罗与婆苏亦从我而生,啊,再生者。

14.54.5

मयि सर्वाणि भूतानि सर्वभूतेषु चाप्यहम् ।
स्थित इत्यभिजानीहि मा ते भूदत्र संशयः ॥ १४.५४.५ ॥

应明确知道,一切众生都在我之中,我也住于一切众生之中。对此你不应有任何疑惑。

14.54.6

तथा दैत्यगणान्सर्वान्यक्षगन्धर्वराक्षसान् ।
नागानप्सरसश्चैव विद्धि मत्प्रभवान्द्विज ॥ १४.५४.६ ॥

同样,应知一切达弥陀众、夜叉、乾闼婆、罗刹、龙族以及阿普萨拉斯,也都从我而生,啊,再生者。

14.54.7

सदसच्चैव यत्प्राहुरव्यक्तं व्यक्तमेव च ।
अक्षरं च क्षरं चैव सर्वमेतन्मदात्मकम् ॥ १४.५४.७ ॥

所谓有与无、未显与已显、不灭与可灭,凡此一切皆以我为本质。

14.54.8

ये चाश्रमेषु वै धर्माश्चतुर्षु विहिता मुने ।
वैदिकानि च कर्माणि विद्धि सर्वं मदात्मकम् ॥ १४.५४.८ ॥

贤者啊,你当知道,四种生活阶段中所规定的一切法,以及一切吠陀祭仪,都以我为本质。

14.54.9

असच्च सच्चैव च यद्विश्वं सदसतः परम् ।
ततः परतरं नास्ति देवदेवात्सनातनात् ॥ १४.५४.९ ॥

非有、有,以及此宇宙,皆超越有与非有;没有比此更高者,即比永恒的神中之神更高者,无有。

14.54.10

ओंकारप्रभवान्वेदान्विद्धि मां त्वं भृगूद्वह ।
यूपं सोमं चरुं होमं त्रिदशाप्यायनं मखे ॥ १४.५४.१० ॥

婆利古的最优者啊,你当知道,从唵字所生的吠陀皆出于我。你也当知道,祭柱、苏摩、饭供、火中供养,以及祭祀中滋养诸天的一切,皆出于我。

14.54.11

होतारमपि हव्यं च विद्धिं मां भृगुनन्दन ।
अध्वर्युः कल्पकृच्चापि हविः परमसंस्कृतम् ॥ १४.५४.११ ॥

婆利古之子啊,你当知道,祭司呼唤者与供物也是我。你当知道,行祭者、仪轨制作者,以及最精心制备的供品,也是我。

14.54.12

उद्गाता चापि मां स्तौति गीतघोषैर्महाध्वरे ।
प्रायश्चित्तेषु मां ब्रह्मञ्शान्तिमङ्गलवाचकाः ॥ १४.५४.१२ ॥

在大祭中,乌德伽特里以歌咏之声赞美我。婆罗门啊,在赎罪仪式中诵说平安吉祥之言的人,也赞美我。

14.54.13

स्तुवन्ति विश्वकर्माणं सततं द्विजसत्तम ।
मम विद्धि सुतं धर्ममग्रजं द्विजसत्तम ॥ १४.५४.१३ ॥

最优秀的再生者啊,他们经常赞颂毗首羯摩。最优秀的再生者啊,你应知我是法的长子。

14.54.14

मानसं दयितं विप्र सर्वभूतदयात्मकम् ।
तत्राहं वर्तमानैश्च निवृत्तैश्चैव मानवैः ॥ १४.५४.१४ ॥

婆罗门啊,我心所生的爱子,以怜悯一切众生为本性——我居于其中,也居于那些在世间行动的人和已经出离的人之中。

14.54.15

बह्वीः संसरमाणो वै योनीर्वर्तामि सत्तम ।
लोकसरंक्षणार्थाय धर्मसंस्थापनाय च ॥ १४.५४.१५ ॥

最善者啊,我在众多生育之胎中轮回,确实显现——为了守护世界,为了建立法。

14.54.16

तैस्तैर्वेषैश्च रूपैश्च त्रिषु लोकेषु भार्गव ।
अहं विष्णुरहं ब्रह्मा शक्रोऽथ प्रभवाप्ययः ॥ १४.५४.१६ ॥

婆迦种啊,以种种形貌与相状,在三界之中,我是毗湿奴,我是梵天,我是因陀罗;我也是生起与灭尽。

14.54.17

भूतग्रामस्य सर्वस्य स्रष्टा संहार एव च ।
अधर्मे वर्तमानानां सर्वेषामहमच्युतः ॥ १४.५४.१७ ॥

我是一切众生群的创造者,也是毁灭者;对于所有沉溺于非法的人,我是不朽者(阿周那)。

14.54.18

धर्मस्य सेतुं बध्नामि चलिते चलिते युगे ।
तास्ता योनीः प्रविश्याहं प्रजानां हितकाम्यया ॥ १४.५४.१८ ॥

每当时代动摇颠簸之时,我便架起法的桥梁;出于对众生福祉的愿望,我便进入那些种种生育之胎。

14.54.19

यदा त्वहं देवयोनौ वर्तामि भृगुनन्दन ।
तदाऽहं देववत्सर्वमाचरामि न संशयः ॥ १४.५४.१९ ॥

婆里古之子啊,当我处于天神之生时,我一切行事皆如天神,此无疑问。

14.54.20

यदा गन्धर्वयोनौ तु वर्तामि भृगुनन्दन ।
तदा गन्धर्ववच्चेष्टा सर्वाश्चेष्टामि भार्गव ॥ १४.५४.२० ॥

婆里古之子啊,当我处于乾闼婆之生时,我一切举止皆如乾闼婆。

14.54.21

नागयोनौ यदा चैव तदा वर्तामि नागवत् ।
यक्षराक्षसयोन्योस्तु यथावद्विचराम्यहम् ॥ १४.५४.२१ ॥

当我处于蛇之生时,我便如蛇而居;在夜叉与罗刹之生中,我则依理而行。

14.54.22

मानुष्ये वर्तमाने तु कृपणं याचिता मया ।
न च ते जातसम्मोहा वचोऽगृह्णन्त मोहिताः ॥ १४.५४.२२ ॥

当我身处人身之时,我谦卑地恳求他们,然而他们迷惑失神,未听从我的话。

14.54.23

भयं च महदुद्दिश्य त्रासिताः कुरवो मया ।
क्रुद्धेन भूत्वा तु पुर्यथावदनुदर्शिताः ॥ १४.५४.२३ ॥

我施加大恐惧,使俱卢族惊恐;我怒而起,在城中如实向他们显示了这一切。

14.54.24

तेऽधर्मेणेह संयुक्ताः परीताःक कालधर्मणा ।
धर्मेण निहता युद्धे गताः स्वर्गं न संशयः ॥ १४.५४.२४ ॥

他们在此陷于非法,被时之法所围;在战中依法而死,因而升往天界,此无疑问。

14.54.25

लोकेषु पाण्डवाश्चैव गताः ख्यातिं द्विजोत्तम ।
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ॥ १४.५४.२५ ॥

啊,再生者中的最优者,般度之子也在诸世界中获得了名声。你所问的一切,都已为你宣说。