摩诃婆罗多 · 章 14.55
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.55.1
अभिजानामि जगतः कर्तारं त्वां जनार्दन ।
नूनं भवत्प्रसादोऽयमिति मे नास्ति संशयः ॥ १४.५५.१ ॥
哦,阇那陀那!我知道你是世界的创造者。这无疑是你的恩典,我对此毫不怀疑。
14.55.2
चित्तं च सुप्रसन्नं मे त्वद्भावगतमच्युत ।
विनिवृत्तश्च मे कोप इति विद्धि परंतप ॥ १४.५५.२ ॥
哦,阿阇多!我的心已专注于你的本性,极为欢喜,我的愤怒也已平息——请知晓此事,哦,焚烧敌人者。
14.55.3
यदि त्वनुग्रहं कञ्चित्त्वत्तोऽर्हामि जनार्दन ।
द्रष्टुमिच्छामि ते रूपं वैष्णवं तन्निदर्शय ॥ १४.५५.३ ॥
哦,阇那陀那!若我配得到你的任何恩惠,我愿见你那毗湿奴的形相——请向我显示。
14.55.4
ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः ।
शाश्वतं वैष्णवं धीमान्ददृशे यद्धनंजयः ॥ १४.५५.४ ॥
于是,他心怀欢喜,向他显示了那永恒的毗湿奴之身,智者财主(阿周那)也曾见过。
14.55.5
स ददर्श महात्मानं विश्वरूपं महाभुजम् ।
सहस्रसूर्यप्रतिमं दीप्तिमत्पावकोपमम्।
सर्वमाकाशमावृत्य तिष्ठन्तं सर्वतोमुखम् ॥ १४.५५.५ ॥
他看见那大德者显现宇宙之形:大臂,如千日之光,如熊熊烈火,立于天空之中遍被一切,面向四方。
14.55.6
तद्दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम् ।
विस्मयं च ययौ विप्रस्तं दृष्ट्वा परमेश्वरम् ॥ १४.५५.६ ॥
那婆罗门见到毗湿奴那至上而奇妙的毗湿奴之形,又见到那至尊主,便充满了惊奇。
14.55.7
नमोनमस्ते सर्वात्मन्नारायण परात्मक ।
परमात्मन्पद्मनाभ पुण्डरीकाक्ष माधव ॥ १४.५५.७ ॥
敬礼,敬礼于你,一切之我,那罗延,至上之我。至上之魂,莲花脐,莲眼,摩陀婆!
14.55.8
हिरण्यगर्भरूपाय संसारोत्तारणाय च ।
पुरुषाय पुराणाय शान्तश्यामाय ते नमः ॥ १४.५५.८ ॥
你以金胎为形,救度脱离轮回,原人,古老,寂静而深黑者,敬礼于你。
14.55.9
अविद्यातिमिरादित्यं भवव्याधिमहौषधिम् ।
संसारार्णवसारं त्वां प्रणमामि गतिर्भव ॥ १४.५५.९ ॥
你是无明黑暗的太阳,是有之病的大良药,是轮回大海的精华,我向你礼拜;愿你成为我的归宿。
14.55.10
सर्ववेदैकवेद्याय सर्ववेदमयाय च ।
वासुदेवाय नित्याय नमो भक्तप्रियाय ते ॥ १४.५५.१० ॥
你是一切吠陀所唯一可知者,是一切吠陀所成,婆苏提婆,常住,为信徒所爱,敬礼于你。
14.55.11
दयया दुःखमोहान्मां सुमुद्धर्तुमिहार्हसि ।
कर्मभिर्बहुभिः पापैर्बद्धं पाहि जनार्दन ॥ १४.५५.११ ॥
请以慈悲将我从苦与迷妄中好好拔起。被诸多业与罪所缚的我,请守护我,遮那陀那。
14.55.12
विश्वकर्मन्नमस्तेऽस्तु विश्वात्मन्विश्वकसम्भव ।
पद्म्यां ते पृथिवी व्याप्ता शिरसा चावृतं नभः ॥ १४.५५.१२ ॥
敬礼于你,宇宙之造者,宇宙之我,宇宙之源!大地被你的双足遍满,天空被你的头所覆盖。
14.55.13
द्यावापृथिव्योर्यन्मध्यं जठरेण तवावृतम् ।
भुजाभ्यामावृताश्चाशास्त्वमिदं सर्वमच्युत ॥ १४.५५.१३ ॥
无沉者啊,天地之间的空间被你的腹部充满,四方被你的双臂环绕;这一切都是你。
14.55.14
संहरस्व पुनर्देव रूपमक्षय्यमुत्तमम् ।
पुनस्त्वां स्वेन रूपेण द्रष्टुमिच्छामि शाश्वतम् ॥ १४.५५.१४ ॥
神啊,请再次收回这无尽的至上形相;我想再次以你自己永恒的形态见到你。
14.55.15
तमुवाच प्रसन्नात्मा गोविन्दो जनमेजय ।
वरं वृणीष्वेति तदा तमुदङ्कोऽब्रवीदिदम्। ॥ १४.५५.१५ ॥
于是心中欢喜的戈文达对他说:“请选择一个恩赐。”于是乌当迦对他说了这些。
14.55.16
पर्याप्त एष एवाद्य वरस्त्वत्तो महाद्युते ।
यत्ते रूपमिदं कृष्ण पश्यामि प्रभवाप्ययम् ॥ १४.५५.१६ ॥
大光明者啊,今日从你那里得到的这一个恩赐便已足够:克利须那啊,我得见你这具生灭之形。
14.55.17
तमब्रकवीत्पुनः कृष्णो मा त्वमत्र विचारय। ॥ १४.५५.१७ ॥
于是克利须那又对他说:“此事你不必思量。”
14.55.18
अवश्यं करणीयं च यद्येतन्मन्यसे विभो ।
तोयमिच्छामि यत्रेष्टं मरुष्वेतद्धि दुर्लभम् ॥ १४.५५.१८ ॥
主啊,若你认为此事必须去做,我希望在所愿之处得到水;在沙漠中,这实在难得。
14.55.19
ततः संहृत्य तत्तेजः प्रोवाचोदङ्कमीश्वरः ।
एष्टव्ये सति चिन्त्योऽहमित्युक्त्वा द्वारकां ययौ ॥ १४.५५.१९ ॥
于是世尊收回光辉,对乌檀迦说:"若有所求而思念我,我便会应念。"说罢,他便前往德瓦拉卡。
14.55.20
ततः कदाचिद्भगवानुदङ्कस्तोयकाङ्क्षया ।
तृषितः परिचक्राम मरौ सस्मार चाच्युतम् ॥ १४.५५.२० ॥
其后某时,尊贵的乌檀迦渴求水,口渴难耐,在沙漠中徘徊,并思念阿丘塔。
14.55.21
ततो दिग्वाससं धीमान्मातङ्गं मलपङ्किनम् ।
अपश्यत मरौ तस्मिञ्श्वयूथपरिवारितम् ॥ १४.५५.२१ ॥
于是智慧的乌檀迦在那沙漠中看见一个赤身裸体、满身污垢、被一群狗围绕的摩檀伽。
14.55.22
भीषणं बद्धनिस्त्रिंशं बाणकार्मुकधारिणम् ।
तस्याधःस्रोतसोऽपश्यद्वारि भूरि द्विजोत्तमः ॥ १४.५५.२२ ॥
他形象可怖,佩着宝剑,持弓挟箭;而在他下方的水流中,那位最优秀的再生者看见了大量的水。
14.55.23
स्मरन्नेव च तं प्राह मातङ्गः प्रहसन्निव ।
एह्युदङ्क प्रतीच्छस्व मत्तो वारि भृगूद्वह।
कृपा हि मे सुमहती त्वां दृष्ट्वा तृट्समाश्रितम् ॥ १४.५५.२३ ॥
摩檀伽似笑非笑地念着他说:"来吧,乌檀迦,从我这里取水,婆利古族中最优秀的人!看见你为渴所苦,我心中充满了深深的慈悲。"
14.55.24
इत्युक्तस्तेन स मुनिस्तत्तोयं नाभ्यनन्दन ।
चिक्षेप च स तं धीमान्वाग्भिरुग्राभिरच्युतम्। ॥ १४.५५.२४ ॥
他这样说了之后,那位仙人没有接受那水;而那位智者便以严厉的言辞斥责阿丘塔。
14.55.25
पुनःपुनश्च मातङ्ग पिबस्वेति तमब्रवीत् ।
न चापिबत्स सक्रोधः क्षुभितेनान्तरात्मना ॥ १४.५५.२५ ॥
他一再对他说:“摩旃伽,喝吧。”然而他怀着愤怒,内心激荡,却不肯喝。
14.55.26
स तथा निश्चयात्तेन प्रत्याख्यातो महात्मना ।
श्वभिः सह महाराज तत्रैवान्तरधीयत ॥ १४.५५.२६ ॥
大王啊,他被这位大德以坚定的决心如此拒绝后,便连同狗一起就在那里消失了。
14.55.27
उदङ्कस्तं तथा दृष्ट्वा ततो व्रीडितमानसः ।
मेने प्रलब्धमात्मानं कृष्णेनामित्रघातिना ॥ १४.५५.२७ ॥
乌丹伽看到他如此,心中羞愧,想到自己被灭敌者克里希那欺骗了。
14.55.28
अथ तेनैव मार्गेण शङ्कचक्रगदाधरः ।
आजगाम महाबाहुरुदङ्कश्चैनमब्रवीत् ॥ १४.५५.२८ ॥
于是,那位手持海螺、飞轮与铁杵的大臂者沿同一条路而来,乌丹伽对他说道。
14.55.29
न युक्तं तादृशं दातुं त्वया पुरुषसत्तम ।
सलिलं विप्रमुख्येभ्यो मातङ्गस्रोतसा विभो ॥ १४.५५.२९ ॥
至上之人啊,大能者啊,将来自摩旃伽之流的这样的水施给尊贵的婆罗门,对您来说是不合适的。
14.55.30
इत्युक्तवचनं तं तु महाबुद्धिर्जनार्दनः ।
उदङ्कं श्लक्ष्णया वाचा सान्त्वयन्निदमब्रवीत् ॥ १४.५५.३० ॥
大智的genardana以温和的言辞安慰被这样说的乌丹伽,于是说道。
14.55.31
यादृशेनेह रूपेण योग्यं दातुं धृतेन वै ।
तादृशं खलु ते दत्तं यच्च त्वं नावबुध्यथाः ॥ १४.५५.३१ ॥
以此处所应给予的适当形态,确实已经给予了你,只是你未能察觉。
14.55.32
मया त्वदर्थमुक्तो वै वज्रपाणिः पुरंदरः ।
उदङ्कायामृतं देहि तोयरूपमिति प्रभुः ॥ १४.५५.३२ ॥
我确实为你对手持金刚杵的补兰达罗说:「请把甘露以水的形式给乌檀迦。」主如是说。
14.55.33
स मामुवाच देवेन्द्र न मर्त्योऽमर्त्यतां व्रजेत् ।
अन्यमस्मै वरं देहीत्यसकृद्भृगुनन्दन ॥ १४.५५.३३ ॥
他对我说:「天神之主啊,凡人不能获得不死;请赐予他另一件恩典。」婆利古之子啊,他一再这样说。
14.55.34
अमृतं देयमित्येव मयोक्तः स शचीपतिः ।
स मां प्रसाद्य देवेन्द्रः पुनरेवेदमब्रवीत् ॥ १४.५५.३४ ॥
我说:「甘露必须给予。」于是舍支之主因陀罗安抚我,又这样说道。
14.55.35
यदि देयमवश्यं वै मातङ्गोऽहं महामते ।
भूत्वाऽमृतं प्रदास्यामि भार्गवाय महात्मने ॥ १४.५५.३५ ॥
若必须给予,大智者啊,我将化作摩陀迦,把甘露献给伟大的婆利古之子。
14.55.36
यद्येवं प्रतिगृह्णाति भार्गवोऽमृतमद्य वै ।
प्रदातुमेष गच्छामि भार्गवस्यामृतं विभो।
प्रत्याख्यातस्त्वहं तेन दास्यामि न कथञ्चन ॥ १४.५५.३६ ॥
若婆利古之子今日如此接受甘露,威严者啊,我便去把甘露献给婆利古之子。但他已拒绝了我,所以我绝不会给予。
14.55.37
स तथा समयं कृत्वा तेन रूपेण वासवः ।
उपस्थितस्त्वया चापि प्रत्याख्यातोऽमृतं ददत्।
चाण्डालरूपी भगवान्सुमहांस्ते व्यतिक्रमः ॥ १४.५५.३७ ॥
他立下这样的约定,以那副形象前来;你在他递上甘露时也拒绝了他。化作旃陀罗形象的尊者啊,这是你的大过错。
14.55.38
यत्तु शक्यं मया कर्तुं भूय एव तवेप्सितम् ।
तोयेप्सां तव दुर्धर्षां करिष्ये सफलामहम् ॥ १४.५५.३८ ॥
但我能做的,我将再次为你所愿而做。我要使你那难以抑制的求水之愿得以成就。
14.55.39
येष्वहःसु च ते ब्रह्मन्सलिलेप्सा भविष्यति ।
तदा मरौ भविष्यन्ति जलपूर्णाः पयोधराः ॥ १४.५५.३९ ॥
婆罗门啊,在你生起求水之心的那些日子里,沙漠中便会有充满水的云。
14.55.40
रसवच्च प्रदास्यन्ति तोयं ते भृगुनन्दन ।
उदङ्गमेघा इत्युक्ताः ख्यातिं यास्यन्ति चापि ते ॥ १४.५५.४० ॥
婆里古之子啊,它们会给你甘美的水;那些被称为乌丹伽之云的云,也将获得名声。
14.55.41
इत्युक्तः प्रीतिमान्विप्रः कृष्णेन स बभूव ह ।
अद्याप्युदङ्कमेघाश्च मरौ वर्षन्ति भारत ॥ १४.५५.४१ ॥
克里希那如此说后,那婆罗门欢喜了。婆罗多啊,至今乌丹伽之云仍在沙漠中降雨。