摩诃婆罗多 · 章 14.57
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.57.1
स तं दृष्ट्वा तथाभूतं राजानं घोरदर्शनम् ।
दीर्घश्मश्रुधरं नॄणां शोणितेन समुक्षितम् ॥ १४.५७.१ ॥
他看见那国王处于那样的状态,面目可怖,留着长须,身上溅满了人的鲜血,
14.57.2
चकार न व्यथां विप्रो राजा त्वेनमथाब्रवीत् ।
प्रत्युत्थाय महातेजा भयकर्ता यमोपमः ॥ १४.५७.२ ॥
那婆罗门毫不惊慌;而那位大光辉、令人生畏、如同阎摩的国王,起身对他说道。
14.57.3
दिष्ट्या त्वमसि कल्याण षष्ठे काले ममान्तिकम् ।
भक्ष्यं मृगयमाणस्य सम्प्राप्तो द्विजसत्तम ॥ १४.५७.३ ॥
幸运的是,你在第六个时辰来到我身边,善良者啊;你来到了正在寻找食物的我这里,婆罗门中最优秀者。
14.57.4
राजन्गुर्वर्थिनं विद्धि चरन्तं मामिहागतम् ।
न च गुर्वर्थमुद्युक्तं हिंस्यमाहुर्मनीषिणः ॥ १४.५७.४ ॥
大王,请知道我是四处漫游、为求师礼而来到此地的;智者不说为师礼而努力的人应当被伤害。
14.57.5
षष्ठे काले ममाहारो विहितो द्विजसत्तम ।
न शक्यस्त्वं समुत्स्रष्टुं क्षुधितेन मयाऽद्य वै ॥ १४.५७.५ ॥
最优秀的婆罗门啊,我的食物定在第六个时辰;今天我饥饿,不可能放你走。
14.57.6
एवमस्तु महाराजि समयः क्रियतां तु मे ।
गुर्वर्थमभिनिर्वर्त्य पुनरेष्यामि ते वशम् ॥ १४.५७.६ ॥
就这样吧,大王;但请为我立下一个约定:完成师礼之后,我将再回到你的掌控之中。
14.57.7
संश्रुतश्च मया योऽर्थो गुरवे राजसत्तम ।
त्वदधीनः स राजेन्द्र तं त्वां भिक्षे नरेश्वर ॥ १४.५७.७ ॥
诸王之最,我answered为老师所许之事取决于你。诸王之主,人主,我正为此向你乞求。
14.57.8
ददासि विप्रमुख्येभ्यस्त्वं हि रत्नानि नित्यदा ।
दाता च त्वं नरव्याघ्र पात्रभूतः क्षिताविह।
पात्रं प्रतिग्रहे चापि विद्धि मां नृपसत्तम ॥ १४.५७.८ ॥
你总是把宝物施予最优秀的婆罗门。人中之虎,你在这大地上既是施主,也是合适的受施者。诸王之最,请知道我也值得接受布施。
14.57.9
उपाहृत्य गुरोरर्थं त्वदायत्तमरिंदम ।
समयेनेह राजेन्द्र पुनरेष्यामि ते वशम् ॥ १४.५७.९ ॥
降伏敌人者,为老师取得那依赖于你的物品后,诸王之主,依照我们的约定,我将再次回到你的掌控之下。
14.57.10
सत्यं ते प्रतिजानामि नात्र मिथ्या कथञ्चन ।
अनृतं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ॥ १४.५७.१० ॥
我向你发誓说实话;此事绝无半点虚假。我从来不曾说过谎话,即使是戏言也没有;又怎会有别的呢?
14.57.11
यदि मत्तस्तवायत्तो गुर्वर्थः कृत एव सः ।
यदि चास्ति प्रतिग्राह्यं साम्प्रतं तद्वदस्व मे ॥ १४.५७.११ ॥
如果我为老师完成了那依赖于你的事,而现在又有可以接受的东西,那么请告诉我。
14.57.12
प्रतिग्राह्यो मतो मे त्वं सदैव पुरुषर्षभ ।
सोहं त्वामनुसम्प्राप्तो भिक्षितुं मणिकुण्डले ॥ १४.५७.१२ ॥
人中之牛,在我看来你总是值得接受布施的人。因此我如今来到你这里,乞求那对宝珠耳环。
14.57.13
पत्न्यास्ते मम विप्रर्षे उचिते मणिकुण्डले ।
वरयार्थं त्वमन्यं वै तं ते दास्यामि सुव्रत ॥ १४.५७.१३ ॥
婆罗门中的圣仙啊,这对宝珠耳环适合我的妻子。持善誓者啊,请你另求一件作为赠礼,我将把它给你。
14.57.14
अलं ते व्यपदेशेन प्रमाणं यदि ते वयम् ।
प्रयच्छ कुण्डले मह्यं सत्यवाग्भव पार्थिव ॥ १४.५७.१४ ॥
不要再找借口了。若你以我们为准,就把耳环给我。国王啊,请言而有信。
14.57.15
इत्युक्तस्त्वब्रवीद्राजा तमुदङ्कं पुनर्वचः ।
गच्छ मद्वचनाद्देवीं ब्रूहि देहीति सत्तम ॥ १४.५७.१५ ॥
如此被问,国王又对乌当卡说了这些话:“善人中的最优者啊,依我的话去见王后,说:‘给我吧。’”
14.57.16
सैवमुक्ता त्वया नूनं मद्वाक्येन शुचिव्रता ।
प्रदास्यति द्विजश्रेष्ठ कुण्डले ते न संशयः ॥ १४.५७.१६ ॥
你依我的话这样说,那持纯净誓愿的她必定会把耳环给你,这一点毫无疑问,二生者中的最优者啊。
14.57.17
क्व पत्नी भवतः शक्या मया द्रष्टुं नरेश्वर ।
स्वयं वाऽपि भवान्पत्नीं किमर्थं नोपसर्पति ॥ १४.५७.१७ ॥
人主啊,你的妻子在哪里,我能否见到她?或者你自己为何不亲自去见你的妻子?
14.57.18
तां द्रक्ष्यति भवानद्य कास्मिंश्चिद्वननिर्झरे ।
षष्ठे काले न हि मया सा शक्या द्रष्टुमद्य वै ॥ १४.५७.१८ ॥
今天你会在林中某处的泉水边见到她。第六个时辰,我今天不能见她。
14.57.19
उदङ्कस्तु तथोक्तः स जगाम भरतर्षभ ।
मदयन्तीं च दृष्ट्वा स ज्ञापयत्स्वप्रयोजनम् ॥ १४.५७.१९ ॥
婆罗多的雄牛啊,乌坦伽听了这话便离去;见到摩陀延提,他便说明了自己的来意。
14.57.20
सौदासवचनं श्रुत्वा ततः सा पृथुलोचना ।
प्रत्युवाच महावुद्धिमुदङ्कं जनमेजय ॥ १४.५७.२० ॥
闻听萨乌达萨之言,那位广眼女子便回答大智的乌坦伽,哦,阇那美阁耶。
14.57.21
एवमेतन्महाब्रह्मन्नानृतं वदसेऽनघ ।
अभिज्ञानं तु किञ्चित्त्वं समानयितुमर्हसि ॥ १४.५७.२१ ॥
大婆罗门啊,无罪者,确实如此,你并未妄语。然而你应当拿来某个相认的信物。
14.57.22
इमे हि दिव्ये मणिकुण्डले मे ।
देवाश्च यक्षाश्च महर्षयश्च।
तैस्तैरुपायैरपहर्तुकामा-
श्छिद्रेषु नित्यं परितर्कयन्ति ॥ १४.५७.२२ ॥
这对神圣的宝珠耳环是我的。诸天、夜叉与大仙都想以各种手段窃取,他们常常伺机而动。
14.57.23
निक्षिप्तमेतद्भुवि पन्नगास्तु ।
रत्नं समासाद्य परामृशेयुः।
यक्षास्तथोच्छिष्टधृतं सुराश्च ।
निद्रावशाद्वा परिधर्षयेयुः ॥ १४.५७.२३ ॥
若此宝珠放置于地,蛇众会找到并触碰它;夜叉与诸天也会以不净之手拿取,或趁睡眠时加以侵犯。
14.57.24
छिद्रेष्वेतेष्विमे नित्यं ह्रियते द्विजसत्तम ।
देवराक्षसनागानामप्रमत्तेनि धार्यते ॥ १४.५७.२४ ॥
双生者中最优秀的啊,在这些空隙之中,它们总是被夺走;须得小心佩戴,以免被诸天、罗刹与蛇众所得。
14.57.25
एते दिवापि भासेते रात्रौ च द्विजसत्तम ।
नक्तं नक्षत्रताराणां प्रभामाक्षिप्य वर्ततः ॥ १४.५७.२५ ॥
二生者中最優者啊,它們白天發光,夜晚也發光;夜間它們勝過星宿與繁星的光輝而常駐。
14.57.26
एते ह्यामुच्य भगन्क्षुत्पिपासाभयं कुतः ।
विषाग्निश्वापदेभ्यश्च भयं जातु न विद्यते ॥ १४.५७.२६ ॥
尊者啊,佩戴它們的人,何來飢渴之懼?對於毒物、火焰與猛獸,也永遠不會有恐懼。
14.57.27
ह्रस्वेन चैते आमुक्ते भवतो ह्रस्वके तदा ।
अनुरूपेण चामुक्ते जायेते तत्प्रमाणके ॥ १४.५७.२७ ॥
若小者佩戴,它們便對你而言變小;若合適地佩戴,它們便隨之成為相應的尺寸。
14.57.28
एवंविधे ममैते वै कुण्डले परमार्चिते ।
त्रिषु लोकेषु विज्ञाते तदभिज्ञानमानय ॥ १४.५७.२८ ॥
我這對耳環如此,極受尊崇,三界皆知。請取來那可供辨識的標記。