摩诃婆罗多 · 章 14.59
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.59.1
उदङ्कस्य वरं दत्त्वा गोविन्दो द्विजत्तम ।
अत ऊर्ध्वं महाबाहुः किं चकार महायशाः ॥ १४.५९.१ ॥
最优秀的再生者啊,赐予优坦伽恩惠之后,大臂、大名的哥文达接着做了什么?
14.59.2
उदङ्काय वरं दत्त्वा प्रायात्सात्यकिना सह ।
द्वारकामेव गोविन्दः शीघ्रवेगैर्महाहयैः ॥ १४.५९.२ ॥
赐予优坦伽恩惠后,哥文达与萨蒂亚基乘着疾速的大马,径直前往德瓦拉卡。
14.59.3
सरांसि सरितश्चैव वनानि च गिरींस्तथा ।
अतिक्रम्याससादाथ रम्यां द्वारवतीं पुरीम् ॥ १४.५९.३ ॥
越过湖泊、河流、森林与山峦,他们抵达了美丽的德瓦拉瓦蒂城。
14.59.4
वर्तमाने महाराज महे रैवतकस्य च ।
उपायात्पुण्डरीकाक्षो युयुधानानुगस्तदा ॥ १४.५९.४ ॥
大王啊,当莱瓦塔卡山上举行盛大节日时,莲花眼者随着尤尤丹那来到了那里。
14.59.5
अलङ्कृतस्तु स गिरिर्नानारूपैर्विचित्रितैः ।
बभौ रत्नमयैः कोशैः संवृतः पुरुर्षर्षभ ॥ १४.५९.५ ॥
那座山被各种形态装饰,覆盖着宝石制成的宝匣,闪耀光芒,人中雄牛啊。
14.59.6
काञ्चनस्रग्भिरग्र्याभिः सुमनोभिस्तथैव च ।
वासोभिश्च महाशैलः कल्पवृक्षैस्तथैव च ॥ १४.५९.६ ॥
那座大山装饰着金色花环、上好的鲜花、衣饰以及如意树。
14.59.7
दीपवृक्षैश्च सौवर्णैरभीक्ष्णमुपशोभितः ।
गुहानिर्झरदेशेषु दिवाभूतो बभूव ह ॥ १४.५९.७ ॥
他不断被金色的灯树装点,在洞穴与瀑布之地宛如白昼。
14.59.8
एताकाभिर्विचित्राभिः सघण्टाभिः समन्ततः ।
पुंभिः स्त्रीभिश्च संघुष्टः प्रगीत इव चाभवत्।
अतीव प्रेक्षणीयोऽभून्मेरुर्मुनिगणैरिव ॥ १४.५९.८ ॥
周围四面都回响着这些色彩斑斓、缀满铃铛的装饰,并有男人与女人的声音,仿佛在歌唱。弥卢山变得极其壮观,如同众多的仙人。
14.59.9
मत्तानां हृष्टरूपाणां स्त्रीणां पुंसां च भारत ।
गायतां पर्वतेन्द्रस्य दिविस्पृगिव निःस्वनः ॥ १४.५९.९ ॥
婆罗多啊,群山之王的声音,在醉意盎然、容颜欢喜的男女歌唱之中,仿佛触及了天空。
14.59.10
प्रमत्तमत्तसम्मत्तक्ष्वेडितोद्धुष्टसंकुलः ।
तथा किलकिलाशब्दैर्भूधरोऽभून्मनोहरः ॥ १४.५९.१० ॥
充满了狂热、醉酒与疯癫之人的呼喊与叫喊,山峰因嬉笑之声而变得迷人。
14.59.11
विपणापणवान्रम्यो भक्ष्यभोज्यविहारवान् ।
वस्त्रमाल्योत्करयुतो वीणावेणुमृदङ्गवान् ॥ १४.५९.११ ॥
市集与店铺令其可爱,有饮食与游乐之处,布匹与花环堆积如山,有琵琶、笛子与鼓。
14.59.12
सुरामैरेयमिश्रेण भक्ष्यभोज्येन चैव ह ।
दीनान्धकृपणादिभ्यो दीयमानेन चानिशम्।
बभौ परमकल्याणो महस्तस्य महागिरेः ॥ १४.५९.१२ ॥
混合着烈酒与美酒的食物与膳食,并且不断地施予贫穷、盲人、困苦者等人,那大山的至为吉祥的光辉闪耀起来。
14.59.13
पुण्यावसथवान्वीरैः पुण्यकृद्भिर्निषेवितः ।
विहारो वृष्णिवीराणां महे रैवतस्य ह ॥ १४.५९.१३ ॥
此地充满圣洁的居所,常有积功行善的英雄们前来,是在雷瓦塔大节上韦leyeqian英雄们的游乐之地。
14.59.14
स नानावेश्मसंकीर्णो देवलोक इवाबभौ ।
तदा च कृष्णसान्निध्यान्मुदा देवगणैर्युतः ॥ १४.५९.१४ ॥
充满众多宅第,它光辉如天界;那时因克里希那在场,欢喜地与诸神众相聚。
14.59.15
स्तुवन्त्यन्तर्हिता देवा गन्धर्वाश्च सहर्षिभिः ।
साधकः सर्वधर्माणामसुराणां विनाशकः ॥ १४.५९.१५ ॥
隐身的诸神与乾闼婆,与仙人们一同赞颂他:他是成就一切法者,是阿修罗的毁灭者。
14.59.16
त्वं स्रष्टा सृज्यमाधारं कारणं धर्मवेदवित् ।
त्वया सत्क्रियते देव ज जानीमोऽत्र मायया ॥ १४.५९.१६ ॥
你是创造者,是被创造之物的依托与因由,通晓法与吠陀。神啊,因你此处受到尊崇;此处我们借你的幻力而认识你。
14.59.17
केवलं त्वाऽभिजानीमः शरणं परमेश्वरम् ।
ब्रह्मादीनां च गोविन्द सान्निध्वं शरणं नमः ॥ १४.५९.१७ ॥
唯有你,我们认识你为皈依处、至高主宰;你也是梵天等诸神的皈依。哦,戈文达,你的临在即是皈依;敬礼。
14.59.18
इति स्तुते मानुषैश्च पूजिते देवकीसुते ।
शक्रसद्मप्रतीकाशो बभूव स हि शैलराट् ॥ १४.५९.१८ ॥
如此被世人赞颂供奉,为了提婆吉之子,那座山王变得如同帝释天的宫殿。
14.59.19
ततः सम्पूज्यमानः स विवेश भवनं शुभम् ।
गोविन्दः सात्यकिश्चैव जग्मतुर्भवनं स्वकम् ॥ १४.५९.१९ ॥
受到尊敬的他进入了吉祥的宅第;哥文达与萨蒂亚基也各自回到自己的住所。
14.59.20
विवेश च प्रहृष्टात्मा चिरकालप्रवासतः ।
कृत्वा नसुकरं कर्म दानवेष्विव वासवः ॥ १४.५९.२० ॥
他心情欢喜,经过长久的离别后走了进来,犹如因片刻之间在檀那婆中完成艰难之业的因陀罗。
14.59.21
उपायान्तं तु वार्ष्णेयं भोजवृष्ण्यन्धकास्तथा ।
अभ्यगच्चन्महात्मानं देवा इव शतक्रतुम् ॥ १४.५९.२१ ॥
当筏尔什涅耶走近时,婆荷迦、毗湿尼与安陀迦也前去迎接这位伟大的人,犹如诸天迎接百祭之主因陀罗。
14.59.22
स तानभ्यर्च्य मेधावी पृष्ट्वा च कुशलं तदा ।
अभ्यवादयत प्रीतः पितरं मातरं तदा ॥ १४.५९.२२ ॥
他尊敬了所有人并问候了他们的安好,然后欢喜地向父亲和母亲行礼。
14.59.23
ताभ्यां स सम्परिष्वक्तः सान्त्वितश्च महाभुजः ।
उपोपविष्टैः सर्वैस्तैर्वृष्णिभिः परिवारितः ॥ १४.५९.२३ ॥
他被二人拥抱并安慰,那位大臂者被周围就坐的所有毗湿尼人环绕。
14.59.24
स विश्रान्तो महातेजाः कृतपादावनेजनः ।
कथयामास तत्सर्वं पृष्टः पित्रा महाहवम् ॥ १४.५९.२४ ॥
他休息并洗净双脚后,在父亲询问时,将那场大战的全部经过讲述了一遍。