Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.6

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.6.1

अत्राप्युदाहरन्तीमममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादं मरुत्तस्य च धीमतः ॥ १४.६.१ ॥

此处人们也引用这个古老的故事——布利哈斯帕蒂与智者摩如多的对话。

14.6.2

देवराजस्य समयं कृतमाङ्गिरसेन ह ।
श्रुत्वा मरुत्तो नृपतिर्मन्युमाहारयत्परम् ॥ १४.६.२ ॥

国王摩如多听说阿恩吉罗娑之子与众神之王所立的约定后,怒不可遏。

14.6.3

सङ्कल्प्य मनसा यज्ञं करंधमसुतात्मजः ।
बृहस्पतिमुपागम्य वाग्मी वचनमब्रवीत् ॥ १४.६.३ ॥

摩如多心中决意举行祭祀,这位能言善辩的羯兰陀摩之孙走近布利哈斯帕蒂,说出了这番话。

14.6.4

भगवन्यन्मया पूर्वमभिगम्य तपोधन ।
कृतोऽभिसन्धिर्यज्ञस्य भवतो वचनाद्गुरो ॥ १४.६.४ ॥

尊敬的大师,苦行丰富的老师!我先前来到您这里,依您的话定下了举行祭祀的心愿。

14.6.5

तमहं यष्टुमिच्छामि सम्भाराः सम्भृताश्च मे ।
याज्योस्मि भवतः साधो तत्प्राप्नुहि विधत्स्व च ॥ १४.६.५ ॥

我想举行那场祭祀,所需的物品我已备齐。善士啊,我是您的施主;请接受并依法主持吧。

14.6.6

न कामये याजयितुं त्वामहं पृथिवीपते ।
वृतोस्मि देवराजेन प्रतिज्ञातं च तस्य मे ॥ १४.६.६ ॥

大地之主啊,我不愿为您主持祭祀。我已被众神之王选定,并且已向他许下了诺言。

14.6.7

पित्र्यमस्मि तव क्षेत्रं बहुमन्ये च ते भृशम् ।
तवास्मि याज्यातां प्राप्तो भजमानं भजस्व माम् ॥ १४.६.७ ॥

我是你祖传的田地,我极为敬重你。我来到你面前,求作你的祭祀之主;请接纳寻求庇护的我。

14.6.8

अमर्त्यं याजयित्वाऽहं याजयिष्ये कथं नरम् ।
मरुत्त गच्छ वा मा वा निवृत्तोस्म्यद्य याजनात् ॥ १४.६.८ ॥

我已为不死者主持祭祀,又怎能为凡人主持?马如塔啊,你去也好,不去也罢——今日我已停止主持祭祀。

14.6.9

न त्वां याजयितास्म्यद्य वृणु यं त्वमिहेच्छसि ।
उपाध्यायं महाबाहो यस्ते यज्ञं करिष्यति ॥ १४.६.९ ॥

今日我不会为你主持祭祀。大臂者啊,请在此选择你所愿的师长祭司;他将为你完成祭祀。

14.6.10

एवमुक्तस्तु नृपतिर्मरुत्तो व्रीडितोऽभवत् ।
प्रत्यागच्छन्सुसंविग्नो ददर्श पथि नारदम् ॥ १४.६.१० ॥

国王马如塔听了这话,感到羞愧。他满怀不安地返回,在路上遇见了那罗陀。

14.6.11

देवर्षिणा समागम्य नारदेनि स पार्थिवः ।
विधिवत्प्राञ्जलिस्तस्थावथैनं नारदोऽब्रवीत् ॥ १४.६.११ ॥

国王与天仙之圣那罗陀相见,依礼合掌而立。那罗陀便对他说道。

14.6.12

राजर्षे नातिहृष्टोसि कच्चित्क्षेमं तवानघ ।
क्व गतोसि कुतश्चेदमप्रीतिस्थानमागतम् ॥ १४.६.१२ ॥

王者圣人啊,你并不十分欢喜。无垢者啊,你可安好?你去了哪里?这使人不悦之事,是从何而来?

14.6.13

श्रोतव्यं चेन्मया राजन्ब्रूहि मे पार्थिवर्षभ ।
व्यपनेष्यामि ते मन्युं सर्वयत्नैर्नराधिप ॥ १४.६.१३ ॥

国王啊,若我可以聆听,请说吧,人主中的公牛。我将以一切努力消除你的忧愁,人主啊。

14.6.14

एवमुक्तो मरुत्तः स नारदेन महर्षिणा ।
विप्रलम्भमुपाध्यायात्सर्वज्ञे तं न्यवेदयत् ॥ १४.६.१४ ॥

大仙那罗陀如此相问,摩禄多便把他老师所施的欺骗告诉了全知者。

14.6.15

गतोस्म्यङ्गिरसः पुत्रं देवाचार्यं बृहस्पतिम् ।
यज्ञार्थमृत्विजं प्रष्टुं स च मां नाभ्यनन्दत ॥ १४.६.१५ ॥

我前往安吉罗之子、诸神之师的布利哈斯巴蒂处,为祭祀求取祭司;但他并未欢迎我。

14.6.16

प्रत्याख्यातश्च तेनाहं जीवितुं नाद्य कामये ।
परित्यक्तश्च गुरुणा दूषितश्चास्मि नारद ॥ १४.६.१६ ॥

被他拒绝之后,我已不想再活下去了。那罗陀啊,我被老师抛弃,且蒙受了污名。

14.6.17

एवमुक्तस्तु राज्ञा स नारदः प्रत्युवाच ह ।
आविक्षितं महाराज वाचा संजीवयन्निव ॥ १४.६.१७ ॥

国王如此相问,那罗陀回答道:阿维克希特之子啊,大王,仿佛以言语使他复活一般。

14.6.18

राजन्नङ्गिरसः पुत्रः संवर्तो नाम धार्मिकः ।
चङ्कमीति दिशः सर्वा दिग्वासा मोहयन्प्रजाः ॥ १४.६.१८ ॥

大王啊,安吉罗之子名为僧伐多的正法者,裸身游行于四方,迷惑众生。

14.6.19

तं गच्च यदि याज्यं त्वां न वाञ्छति बृहस्पतिः ।
प्रसन्नस्त्वां महातेजाः संवर्तो याजयिष्यति ॥ १४.६.१९ ॥

你去找他吧。若布利哈斯帕蒂不愿为你的施主主持祭祀,大光明的娑maṃvarta会欣然为你主祭。

14.6.20

संजीवितोऽहं भवता वाक्येनानेन नारद ।
पश्येयं क्व नु संवर्तं शंस मे वदतांवर ॥ १४.६.२० ॥

那罗陀,凭你这番话,我又重获生命。请告诉我,我该到哪里去见娑maṃvarta?辩才中最优秀的人啊,请告诉我。

14.6.21

कथं च तस्मै वर्तेयं कथं मां न परित्यजेत् ।
प्रत्याख्यातश्च तेनापि नाहं जीवितुमुत्सहे ॥ १४.६.२१ ॥

我该如何对待他,才能使他不抛弃我?连他也拒绝了我,我已没有勇气活下去。

14.6.22

उन्मत्तवेषं बिभ्रत्स चङ्क्रमीति यथासुखम् ।
वाराणसीं तु नगरीमभीक्ष्णमुपसेवते ॥ १४.६.२२ ॥

他身披疯癫之相,随意游荡,并且时常前往婆罗奈城。

14.6.23

तस्या द्वारं समासाद्य न्यसेथाः कुणपं क्वचित् ।
तं दृष्ट्वा यो निवर्तेत संवर्तः स महीपते ॥ १४.६.२३ ॥

你到达那座城的门口时,应在某处放置一具尸体。大地之主啊,凡见到它而转身离去的人,便是娑maṃvarta。

14.6.24

तं पृष्ठतोऽनुगच्छेथा यत्र गच्छेत्स वीर्यवान् ।
तमेकान्ते समासाद्य प्राञ्जलिः शरणं व्रजेः ॥ १४.६.२४ ॥

那位有力者无论去哪里,你都要在他身后跟随。在僻静处走近他,双手合十,前往他那里寻求庇护。

14.6.25

पृच्छेत्त्वां यदि केनाहं तवाख्यात इति स्म ह ।
ब्रूयास्त्वं नारदेनेति स कुत्र इति शत्रुहन् ॥ १४.६.२५ ॥

若他问你:“是谁把我介绍给你的?”你就说:“是那罗陀。”敌人的屠杀者啊,若他再问:“在哪里?”——

14.6.26

स चेत्त्वामनुयुञ्जीत ममानुगमनेप्सया ।
शंसेथा वह्निमारूढं मामपि त्वमशङ्कया ॥ १४.६.२६ ॥

若他因想跟随我而再向你追问,你就无所畏惧地告诉他:我已登上了火焰。

14.6.27

स तथेति प्रतिश्रुत्य पूजयित्वा च नारदम् ।
अभ्यनुज्ञाय राजर्षिर्ययौ वाराणसीं पुरीम् ॥ १४.६.२७ ॥

他应允道:“我就这样做。”敬奉了那罗陀并辞别之后,那位王仙便前往婆罗奈城。

14.6.28

तत्र गत्वा यथोक्तं स पुर्या द्वारे महायशाः ।
कुणपं स्थापयामास नारदस्य वचः स्मरन् ॥ १४.६.२८ ॥

他到了那里,记着那罗陀的话,照所说的,在城门口安置了一具尸体。这位大名远扬者便如此行事。

14.6.29

यौगपद्येनि विप्रश्च पुरीद्वारमथाविशत् ।
ततः स कुणपं दृष्ट्वा सहसा संन्यवर्तत ॥ १४.६.२९ ॥

婆罗门说了一声“同时”,便走进城门;随即他看见那具尸体,突然折返。

14.6.30

स तं निवृत्तमालक्ष्य प्राञ्जलिः पृष्ठतोऽन्वगात् ।
आविक्षितो महीपालः संवर्तमुपशिक्षितुम् ॥ १४.६.३० ॥

他看见那人转身,阿维克希特之子国王双手合十,从后面跟随他,以便接受桑瓦尔塔的教导。

14.6.31

स च तं विजने दृष्ट्वा पांसुभिः कदेमेन च ।
श्लेष्मणा चैव राजानं ष्ठीवनैश्च समाकिरत् ॥ १४.६.३१ ॥

他在僻静处见到国王,便用尘土、泥浆、痰液和唾沫将他淹没。

14.6.32

स तथा बाध्यमानो वै संवर्तेन महीपतिः ।
अन्वगादेव तमृषिं प्राञ्जलिः सम्प्रसादयन् ॥ १४.६.३२ ॥

国王被संवर्त如此折磨,仍合掌跟随那位仙人,想要使他息怒。

14.6.33

ततो निवर्त्य संवर्तः परिश्रान्त उपाविशत् ।
शीतलच्छायमासाद्य न्यग्रोधं बहुशाखिनम् ॥ १४.६.३३ ॥

随后,संवर्त折返,疲惫地来到一棵枝叶繁茂、树荫清凉的榕树下坐了下来。