摩诃婆罗多 · 章 14.60
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.60.1
श्रुतवानस्मि वार्ष्णेय सङ्ग्रामं परमाद्भुतम् ।
नराणां वदतां पुत्र कथोद्धातेषु नित्यशः ॥ १४.६०.१ ॥
婆修提婆说:瓦尔什涅耶啊,孩子,我常从讲述故事的人们那里听说那场极其奇妙的战争。
14.60.2
त्वं तु प्रत्यक्षदर्शी च कार्यज्ञश्च महाभुजः ।
तस्मात्प्रब्रूहि सङ्ग्रामं याथातथ्येन मेऽनघ ॥ १४.६०.२ ॥
你是亲眼所见者,也深知事情的始末,大臂者啊。因此,无罪者啊,请如实地把那场战争告诉我。
14.60.3
यथा तदभवद्युद्धं पाण्डवानां महात्मनाम् ।
भीष्मकर्णकृपद्रोणशल्यादिभिरनुत्तमम् ॥ १४.६०.३ ॥
那场高尚的般度子孙与毗湿摩、迦尔纳、克里帕、德罗纳、沙利耶等人的战争,是如何发生的,那是无与伦比的。
14.60.4
अन्येषां क्षत्रियाणां च कृतास्त्राणामनेकशः ।
नानावेषाकृतिमतां नानादेशनिवासिनाम् ॥ १४.६०.४ ॥
还有其他善用多种兵器的刹帝利,他们装束和形貌各异,居住在不同的国度。
14.60.5
इत्युक्तः पुण्डरीकाक्षः पित्रा मातुस्तदाऽन्तिके ।
शशंस कुरुवीराणां सङ्ग्रामे निधनं यथा ॥ १४.६०.५ ॥
父亲这样询问后,莲花眼者便在母亲面前,讲述了库鲁英雄们在战争中如何殒命。
14.60.6
अत्यद्भुतानि कर्माणि क्षत्रियाणां महात्मनाम् ।
बहुलत्वान्न सङ्ख्यातुं शक्यान्यब्दशतैरपि ॥ १४.६०.६ ॥
高尚的刹帝利们的功业极其奇妙;因其数量众多,即使百年也无法数尽。
14.60.7
प्राधान्यतस्तु गदतः समासेनैव मे शृणु ।
कर्माणि पृथिवीशानां यथावदमरद्युते ॥ १४.६०.७ ॥
我将主要简略地讲述,你听着。啊,光辉如天神者,请照实听闻大地之王们的事迹。
14.60.8
भीष्मः सेनापतिरभूदेकादशचमूपतिः ।
कौरव्यः कौरवेन्द्राणां देवानामिव पावकिः ॥ १४.६०.८ ॥
毗湿摩成为统帅,统领十一军,乃俱卢之裔,在俱卢诸王中如诸神中的火之子。
14.60.9
शिखण्डी पाण्डुपुत्राणां नेता सप्तचमूपतिः ।
बभूव रक्षितो धीमाञ्श्रीमता सव्यसाचिना ॥ १४.६०.९ ॥
始基丹蒂成为般度诸子的统帅,统领七军;这位智者由光荣的左右开弓者(阿周那)守护。
14.60.10
तेषां तदभवद्युद्धं दशाहानि महात्मनाम् ।
कुरूणां पाण्डवानां च सुमहद्रोमहर्षणम् ॥ १४.६०.१० ॥
那场大力的俱卢与般度之战持续了十日,极为惨烈,令人毛骨悚然。
14.60.11
अयुध्यमानं गाङ्गेयं शिखण्डी तं महाद्युतिम् ।
जघान बहुभिर्बाणैः सह गाण्डीवधन्वना ॥ १४.६०.११ ॥
始基丹蒂与执甘狄拔弓者一同,以众多箭矢射中了那位不参战的恒河之子、大光明者。
14.60.12
अकरोत्स ततः कालं शरतल्पगतो मुनिः ।
अयनं दक्षिणं हित्वा सम्प्राप्ते चोत्तरायणे ॥ १४.६०.१२ ॥
于是,那位卧于箭床之上的圣者等待时机;离开南行之道,待北行之时到来。
14.60.13
ततः सेनापतिरभूद्द्रोणोऽस्त्रविदुषांवरः ।
प्रवीरः कौरवेन्द्रस्य काव्यो दैत्यपतेरिव ॥ १४.६०.१३ ॥
于是精通武器者中最优秀的德罗纳成为俱卢之王的将领,如同达努之主的迦维耶(室克罗)。
14.60.14
अक्षौहिणीभिः शिष्टाभिर्नवभिर्द्विजसत्तमः ।
संवृतः समरश्लाघी गुप्तः कृपसुतादिभिः ॥ १४.६०.१४ ॥
被剩余的九个阿克沙前尼所围绕,这位婆罗门中的最优者、好战自矜者,由克里帕之子等人护卫。
14.60.15
धृष्टद्युम्नस्त्वभून्नेता पाण्डवानां महास्त्रवित् ।
गुप्तो भीमेन मेधावी मित्रेण वरुणो यथा ॥ १४.६०.१५ ॥
而达利什塔迪尤姆那成为般度五子的领袖,精通大兵器;智慧的怖军护卫着他,如同弥陀罗护卫伐楼那。
14.60.16
स च सेनापरिवृतो द्रोणप्रेप्सुर्महामनाः ।
पितुर्निकारान्संस्मृत्य रणे कर्माकरोन्महत् ॥ १४.६०.१६ ॥
他心胸宽广,被大军环绕,渴望与德罗纳交锋,念及父亲所受的侮辱,在战场上建立了伟大的功业。
14.60.17
तस्मिंस्ते पृथिवीपाला द्रोणपार्षतसङ्गरे ।
नानादिगागता वीराः प्रायशो निधनं गताः ॥ १४.६०.१७ ॥
在德罗纳与帕尔沙塔的那场战斗中,来自四方的那些护持大地的王者与英雄,大多数都丧命了。
14.60.18
दिनानि पञ्च तद्युद्धमभूत्परमदारुणम् ।
ततो द्रोणः परिश्रान्तो धृष्टद्युम्नवशं गतः ॥ १४.६०.१८ ॥
那场战斗持续五天,极为惨烈。此后德罗纳疲惫不堪,落入达利什塔迪尤姆那的掌控之中。
14.60.19
ततः सेनापतिरभूत्कर्णो दौर्योधने बले ।
अक्षौहिणीभिः शिष्टाभिर्वृतः पञ्चभिराहवे ॥ १४.६०.१९ ॥
于是迦尔纳成为难敌军中的统帅,在战斗中被余下的五个阿克绍希尼军团所包围。
14.60.20
तिस्रस्तु पाण्डुपुत्राणां चम्वो बीभत्सुपालिताः ।
हतप्रवीरभूयिष्ठा बभूवुः समवस्थिताः ॥ १४.६०.२० ॥
般度之子的三支军队在俾毗婆酥(阿周那)的护卫下驻扎在那里,大多数勇士已被杀死。
14.60.21
ततः पार्थं समासाद्य पतङ्ग इव पावकम् ।
पञ्चत्वमगमत्सौतिर्द्वितीयेऽहनि दारुणः ॥ १४.६०.२१ ॥
于是,他如飞蛾扑火般逼近普利塔之子(阿周那),那可怕的御者之子在第二天死去。
14.60.22
हते कर्णे तु कौरव्या निरुत्साहा हतौजसः ।
अक्षौहिणीभिस्तिसृभिर्मद्रेशं पर्यवारयन् ॥ १४.६०.२२ ॥
迦尔纳被杀后,俱卢族士气低落、精力衰竭,以三个阿克绍希尼军团包围了摩德罗王(沙利耶)。
14.60.23
हतिवाहनभूयिष्ठाः पाण्डिवास्तु युधिष्ठिरम् ।
अक्षौहिण्या निरुत्साहाः शिष्टया पर्यवारयन् ॥ १४.६०.२३ ॥
象和车骑大多被杀,气馁的般度族以仅存的一个阿克绍希尼军团包围了坚战。
14.60.24
अवधीन्मद्रराजानं कुरुराजो युधिष्ठिरः ।
तस्मिंस्तदाऽर्धदिवसे कृत्वा कर्म सुदुष्करम् ॥ १४.६०.२४ ॥
俱卢王坚战杀死了摩德罗王(沙利耶)。就在那时,正午时分,他完成了极为艰难的事业。
14.60.25
हते शल्ये तु शकुनिं सहदेवो महामनाः ।
आहर्तारं कलेस्तस्य जगानामितविक्रमः ॥ १४.६०.२५ ॥
沙利耶被杀后,心胸广大、勇武无比的偕天,杀死了煽动迦利的沙古尼。
14.60.26
निहते शकुनौ राजा धार्तराष्ट्रः सुदुर्मनाः ।
अपाक्रामद्गदापाणिर्हतभूयिष्ठसैनिकः ॥ १४.६०.२६ ॥
沙古尼被杀,大部分军队已阵亡,持杖的持国之子国王心中极为沮丧,便退了下去。
14.60.27
तमन्वधावत्संक्रुद्धो भीमसेनः प्रतापवान् ।
ह्रदे द्वैपायने चापि सलिलस्थं ददर्श तम् ॥ १४.६०.२७ ॥
勇猛而愤怒的怖军追赶他,在二岛湖中看见他站在水里。
14.60.28
इतशिष्टेन सैन्येन समन्तात्पर्यवार्य तम् ।
अथोपविविशुर्हृष्टा ह्रदस्थं पञ्च पाण्डवाः ॥ १४.६०.२८ ॥
以残余军队从四面包围他,五位般度之子欢喜地在湖边坐下,围住湖中的他。
14.60.29
विगाह्य सलिलं त्वाशु वाग्बाणैर्भृशविक्षतः ।
उत्थाय स गदापाणिर्युद्धाय समुपस्थितः ॥ १४.६०.२९ ॥
他潜入水中,被言语之箭重创,迅速起身,手持棍棒,上前应战。
14.60.30
ततः स निहतो राजा धार्तराष्ट्रो महारणे ।
भीमसेनेन विक्रम्य पश्यतां पृथिवीक्षिताम् ॥ १४.६०.३० ॥
于是,持国之子那位国王在大战中被怖军以勇武杀死,地上的诸王都在旁观看。
14.60.31
ततस्तत्पाण्डवं सैन्यं प्रसुप्तं शिबिरे निशि ।
निहतं द्रोणपुत्रेण पितुर्वधममृष्यता ॥ १४.६०.३१ ॥
于是夜里,潘达瓦军队在营中熟睡,德罗纳之子不忍父亲被杀,将其尽数屠戮。
14.60.32
हतपुत्रा हतबला हतमित्रा मया सह ।
युयुधानसहायेन पञ्च शिष्टास्तु पाण्डवाः ॥ १४.६०.३२ ॥
子嗣、军队与盟友皆已战死,唯有五位潘达瓦与我及尤尤丹那同在而得存。
14.60.33
सहैव कृपभोजाभ्यां द्रौणिर्युद्धादमुच्यत ।
युयुत्सुश्चापि कौरव्यो मुक्तः पाण्डवसंश्रयात् ॥ १४.६०.३३ ॥
德罗纳之子与克里帕、克里塔瓦尔曼一同脱离了战场;考罗婆之子优优度也因投靠潘达瓦而得以解脱。
14.60.34
निहते कौरवेन्द्रे तु सानुबन्धे सुयोधने ।
विदुरः संजयश्चैव धर्मराजमुपस्थितौ ॥ १४.६०.३४ ॥
当库鲁之主苏约达那连同其随从被杀后,毗杜罗与桑遮耶前来拜见正法之王坚战。
14.60.35
एवं तदभवद्युद्दमहान्यष्टादश प्रभो ।
यत्र ते पृथिवीपाला निहताः स्वर्गमावसन् ॥ १४.६०.३५ ॥
如是,主啊,那场战斗持续了十八日,其中那些大地之王被杀,住于天界。
14.60.36
शृण्वतां तु महाराज कथां तां रोमहर्षणीम् ।
दुःखशोकपरिक्लेशा वृष्णीनामभवंस्तदा ॥ १४.६०.३६ ॥
大王啊,当他们听闻那令人毛骨悚然的故事时,维利什尼族人心中生起了悲伤、忧愁与痛苦。