摩诃婆罗多 · 章 14.61
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.61.1
कथयन्नेव तु तदा वासुदेवः प्रतापवान् ।
महाभारतयुद्धं तत्कथान्ते पितुरग्रतः ॥ १४.६१.१ ॥
当时,威严的婆苏提婆在那段叙述的末尾,于父亲面前讲述大婆罗多战争。
14.61.2
अभिमन्योर्वधं वीरः सोत्यक्रामन्महामतिः ।
अप्रियं वसुदेवस्य माभूदिति महामनाः ॥ १४.६१.२ ॥
这位大智慧的英雄,心胸宽广,略过了阿比曼纽被杀之事,心想:不要让婆苏提婆不悦。
14.61.3
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् ।
दुःखशोकाभिसंतप्तो भवेदिति महामतिः ॥ १४.६१.३ ॥
唯恐婆苏提婆听到外孙被杀的大灾难后,陷入悲痛与忧伤,那位大智者如此思量。
14.61.4
सुभद्रा तु तमुत्क्रान्तमात्मजस्य वधं रणे ।
आचक्ष्व कृष्ण सौभद्रवधमित्यपतद्भुवि ॥ १४.६१.४ ॥
然而苏跋德拉在战场上听到儿子被杀的消息,说道:“克里希那,请告诉我娑乌跋陀罗的死讯。”说罢便倒在地上。
14.61.5
तामपश्यन्निपतितां वसुदेवः क्षितौ तदा ।
दृष्ट्वैव च पपातोर्व्यां सोऽपि दुःखेन मूर्छितः ॥ १४.६१.५ ॥
婆苏提婆看见她倒在地上,一见之下,他也因悲痛而昏厥,倒在地上。
14.61.6
तषः स दौहित्रवदाद्दुःखशोकसमाहतः ।
वसुदेवो महाराज कृष्णं वाक्यमथाब्रवीत् ॥ १४.६१.६ ॥
于是婆苏提婆因外孙被杀而痛苦悲伤,大王啊,他对克里希那说了这些话。
14.61.7
ननु त्वं पुण्डरीकाक्ष सत्यवाग्भुवि विश्रुतः ।
यद्दौहित्रवधं मेऽद्य न ख्यापयसि शत्रुहन् ॥ १४.६१.७ ॥
莲花眼者啊,你在世间以诚实著称。杀敌者啊,今日你为何不向我宣告我外孙的被杀?
14.61.8
तद्भागिनेयनिधनं तत्त्वेनाचक्ष्व मे प्रभो ।
सदृशाक्षस्तव कथं शत्रुभिर्निहतो रणे। ॥ १४.६१.८ ॥
主啊,请如实告诉我那外甥的死亡。与你眼睛相似的他,如何在战场上被敌人杀害?
14.61.9
दुर्भरं बत वार्ष्णेय कालेऽप्राप्ते नृभिः सह ।
यत्र मे हृदयं दुःखाच्छतधा न विदीर्यते ॥ १४.६१.९ ॥
瓦尔什尼的后裔啊,唉,在人群中未到时限便遭此事,实难忍受。我的心为何不因这悲痛而碎成百片?
14.61.10
किमब्रवीत्त्वां सङ्ग्रामे सुभद्रां मातरं प्रति ।
मां चापि पुण्डरीकाक्षि चपलाक्षः प्रियो मम ॥ १४.६१.१० ॥
莲花眼者啊,他在战场上对你和母亲须跋陀罗说了什么?我那眼神灵动的爱子,又对我说了什么?
14.61.11
आहवं पृष्ठतः कृत्वा कच्चिन्न निहतः परैः ।
कच्चिन्मुखं न गोविन्द तेनाजौ विकृतं कृतम् ॥ १४.६१.११ ॥
他是否在战场上背对敌人,因而被敌人杀害?哥文达啊,他的面容在战斗中是否被毁坏了?
14.61.12
स हि कृष्ण महातेजाः श्लाघन्निव ममाग्रतः ।
बालभावेन विजयमात्मनोऽकथयत्प्रभुः। ॥ १४.६१.१२ ॥
克里希纳啊,那位大光辉者,仿佛在我面前自夸一般,以孩童的口吻讲述他自己的胜利。
14.61.13
कच्चिन्न निकृतो बालो द्रोणकर्णाकृपादिभिः ।
धरण्यां निहतः शेते तन्ममाचक्ष्वि केशव ॥ १४.६१.१३ ॥
那少年是否遭到德罗纳、迦尔纳、克里帕等人的欺凌,被杀倒在地上?克沙婆,请告诉我。
14.61.14
स हि द्रोणं च भीष्मं च कर्णं च बलीनां वरम् ।
स्पर्धते स्म रणे नित्यं दुहितुः पुत्रको मम ॥ १४.६१.१४ ॥
他,我女儿的儿子,在战场上总是与德罗纳、毗湿摩以及强者中最优秀的迦尔纳相争。
14.61.15
एवंविधं बहु तदा विलपन्तं सुदुःखितम् ।
पितरं दुःखिततरं गोविन्दो वाक्यमब्रवीत् ॥ १४.६१.१५ ॥
那时,govinda 对那位如此痛哭、极度悲伤、更加哀痛的父亲说了这番话。
14.61.16
न तेनि विकृतं वक्त्रं कृतं सङ्ग्राममूर्धनि ।
न पृष्ठतः कृतश्चापि सङ्ग्रामस्तेन दुस्तरः ॥ १४.६१.१६ ॥
他在战阵前列没有扭曲面容,也没有从背后作战;因他之故,那场战斗变得难以克服。
14.61.17
निहत्य पृथिवीपालान्सहस्रशतसङ्घशः ।
खेदितो द्रोणकर्णाभ्यां दौःशासनिवशं गतः ॥ १४.६१.१७ ॥
他成群结队地杀死了成百上千的国王,被德罗纳和迦尔纳折磨得疲惫不堪,最终落入难降之子的掌控。
14.61.18
एको ह्येकेन सततं युध्यमानो यदि प्रभो ।
न स शक्येत सङ्ग्रामे निहन्तुमपि वज्रिणा ॥ १४.६१.१८ ॥
主啊,若一人持续与一人交战,即便手执金刚杵的因陀罗,也无法在战斗中杀死他。
14.61.19
समाहूते च सङ्ग्रामे पार्थे संशप्तकैस्तदा ।
पर्यवार्यत संक्रुद्धैः स द्रोणादिभिराहवे ॥ १४.६१.१९ ॥
当般度之子在战场上被挑战时,愤怒的三伏军与德罗纳等人在战斗中将他包围。
14.61.20
ततः शत्रुवधं कृत्वा सुमहान्तं रेणे पितः ।
दौहित्रस्तव वार्ष्णेय दौःशासनिवशं गतः ॥ १४.६१.२० ॥
父亲啊,他在战斗中大肆杀戮敌人之后,您的外孙,伐尔希涅耶,落入了杜尚娑那之子的掌控。
14.61.21
नूनं च स गतः स्वर्गं जहि शोकं महामते ।
न हि व्यसनमासाद्य सीदन्ति कृतबुद्धयः ॥ १४.६१.२१ ॥
他一定已经升入天界。大智者啊,放下悲伤吧;有定见的人遭遇不幸时,也不会陷入沮丧。
14.61.22
द्रोणकर्णप्रभृतयो येन प्रतिसमासिताः ।
रणे महेन्द्रप्रतिमाः स कथं नाप्नुयाद्दिवम् ॥ १४.६१.२२ ॥
他在战斗中如同大因陀罗一般,抵挡德罗纳、迦尔纳等人,他怎会得不到天界呢?
14.61.23
स शोकं जहि जुर्धर्ष मा च मन्युवशं गमः ।
शस्त्रपूतां हि स गतिं गतः परपुरंजयः ॥ १४.६१.२३ ॥
无敌者啊,放下悲伤,不要受愤怒所支配。那征服敌城者已获得由武器净化的归宿。
14.61.24
तस्मिंस्तु निहते वीरे सुभद्रेयं स्वसा मम ।
दुःखार्ताऽथो सुतं प्राप्य कुररीव ननाद ह ॥ १४.६१.२४ ॥
那位英雄被杀之后,我的妹妹苏跋陀罗因悲痛而备受折磨,虽然得到了儿子,却像库罗利鸟一样哀号起来。
14.61.25
द्रौपदीं च समासाद्य पर्यतप्यत दुःखिता ।
आर्ये क्व दारकाः सर्वे द्रष्टुमिच्छामि तानहम् ॥ १४.६१.२५ ॥
她来到德劳帕蒂身边,悲痛地哀号道:“尊贵的夫人,我的孩子们都在哪里?我想见见他们。”
14.61.26
अस्यास्तु वचनं श्रुत्वा सर्वास्ताः कुरुयोषितः ।
भुजाभ्यां परिगृह्यैनां चुक्रुशुः परमार्तवत् ॥ १४.६१.२६ ॥
众库卢妇女听到她的话,都用双臂拥抱她,极度痛苦地哭喊起来。
14.61.27
उत्तरां चाब्रवीद्भद्रे भर्ता स क्व नु ते गतः ।
क्षिप्रमागमनं मह्यं तस्य त्वं वेदयस्व ह ॥ १४.६१.२७ ॥
她对乌塔拉说:“善良的女子啊,你的丈夫去了哪里?请告诉我他快点来见我。”
14.61.28
ननु नामाद्य वैराटि श्रुत्वा मम गिरं सदा ।
भवनान्निष्पतत्याशु कस्मान्नाभ्येति ते पतिः ॥ १४.६१.२८ ॥
维拉塔之女啊,你的丈夫一向听从我的话,今天难道不快快从屋里出来吗?他为何不来你身边?
14.61.29
अभिमन्योऽनुशयिनो मातुलास्ते महारथाः ।
कुशलं चाब्रुवन्सर्वे त्वां युयुत्सुमिहागतम् ॥ १४.६१.२९ ॥
阿毗曼由啊,你的舅舅们——诸位大车勇士——都问候你的安好,并说裕尤度已来到此地。
14.61.30
आचक्ष्व मेऽद्य सङ्ग्रामं यथापूर्वमरिन्दम ।
कस्मादेवं विलपतीं नाद्येह प्रतिभाषसे। ॥ १४.६१.३० ॥
降伏敌人者啊,现在请像从前一样把战事告诉我。我这样哀哭,你今天为何在此不回答我?
14.61.31
एवमादि तु वार्ष्णेय्यास्तस्यास्तत्परिदेवितम् ।
श्रुत्वा पृथा सुदुःखार्ता शनैर्वाक्यमथाब्रवीत् ॥ १४.६१.३१ ॥
普利塔(昆蒂)听到筏尔石尼之女如此等哀叹,悲痛万分,缓缓地说出了这些话。
14.61.32
सुभद्रे वासुदेवेन तथा सात्यकिना रणे ।
पित्रा च लालितो बालः स हतः कालधर्मणा ॥ १४.६१.३२ ॥
啊,苏跋德罗!那个被筏苏提婆、萨提奇和父亲宠爱养育的孩子,在战场上依时运之法被杀了。
14.61.33
ईदृशो मर्त्यधर्मोऽयं मा शुचो यदुनन्दिनि ।
पुत्रो हि तव दुर्धर्षः सम्प्राप्तः परमां गतिम् ॥ १४.६१.३३ ॥
啊,雅度族的女儿,这就是凡人之法,不要悲伤。你那不可战胜的儿子已经达到了至高的归宿。
14.61.34
कुले महति जातासि क्षत्रियाणां महात्मनाम् ।
मा शुचश्चपलाक्षं त्वं पद्मपत्रनिभेक्षणे ॥ १४.६१.३४ ॥
你生于伟大的刹帝利大德之家。不要悲伤,啊,眼神灵动的人,啊,眼如莲瓣的人。
14.61.35
उत्तरां त्वमवेक्षस्व गुर्विणीं मा शुचः शुभे ।
पुत्रमेषा हि तस्याशु जनयिष्यति भामिनी ॥ १४.६१.३५ ॥
看看怀孕的乌塔拉吧。不要悲伤,啊,吉祥的人;这位美丽的女子很快就会为他生下儿子。
14.61.36
एवमाश्वासयित्वैनां कुन्ती यदुकुलोद्वह ।
विहाय शोकं दुर्धर्षं श्राद्धमस्य ह्यकल्पयत् ॥ १४.६१.३६ ॥
啊,雅度族的支柱!这样安慰她之后,昆蒂抛下了难以承受的悲痛,为他举行了祭祀亡灵的仪式。
14.61.37
समनुज्ञाप्य धर्मज्ञं राजानं भीममेव च ।
यमौ यमोपमौ चैव ददौ दानान्यनेकशः ॥ १४.६१.३७ ॥
她向精通法的国王和毗摩告辞后,又向如阎摩般的两位孪生兄弟布施了许多财物。
14.61.38
ततः प्रदाय बह्वीर्गा ब्राह्मणेभ्यो यदूद्वह ।
समाहृष्य तु वार्ष्णेयी वैराटीमब्रवीदिदम् ॥ १४.६१.३८ ॥
耶度族的最优者啊!随后,她向婆罗门布施了许多牛,欢喜的伐里什尼耶(苏跋陀罗)便对毗罗吒之女(优多罗)说了这番话。
14.61.39
वैराटि नेह संतापस्त्वया कार्यो ह्यनिन्दिते ।
भर्तारं प्रति सुश्रोणि गर्भस्थं रक्ष वै शिशुम् ॥ १४.६१.३९ ॥
毗罗吒之女啊!无瑕者啊!美臀者啊!你不应因丈夫而在此悲伤;请保护你腹中的孩子。
14.61.40
एवमुक्त्वा ततः कुन्ती विरराम महाद्युते ।
तामनुज्ञाप्य चैवेमां सुभद्रां समुपानयम् ॥ १४.६१.४० ॥
大光明者啊!贡提如此说完便沉默了;我向她告辞后,便把这位苏跋陀罗带到了近前。
14.61.41
एवं स निधनं प्राप्तो दौहित्रस्तव मानद ।
संतापं त्यज दुर्धर्ष मा च शोके मनः कृथाः ॥ १४.६१.४१ ॥
如此,你的外孙(阿毗曼尤)已经死去。施予尊荣者啊!难以战胜者啊!请放下痛苦,不要让心沉溺于悲伤。