摩诃婆罗多 · 章 14.62
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.62.1
एतच्छ्रुत्वा तु पुत्रस्य वचः शूरात्मजस्तदा ।
विहाय शोकं धर्मात्मा ददौ श्राद्धमनुत्तमम् ॥ १४.६२.१ ॥
那时,听了儿子这番话,舍利之子、法心者舍弃悲痛,举行了至上的祭祀亡者之仪(śrāddha)。
14.62.2
तथैव वासुदेवश्च स्वस्त्रीयस्य महात्मनः ।
दयितस्यि पितुर्नित्यमकरोदौर्ध्वदेहिकम् ॥ १४.६२.२ ॥
同样,婆苏提婆也为伟大心灵者——其姊之子——所爱之父,始终举行了葬礼(aurdhvadehika)。
14.62.3
षष्टिं शतसहस्राणि ब्राह्मणानां महौजसाम् ।
विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् ॥ १४.६२.३ ॥
他依照礼仪,供养了六十万位大力的婆罗门,所用饮食具备一切美德。
14.62.4
आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् ।
ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् ॥ १४.६२.४ ॥
大臂的黑天以布施赠予众婆罗门,消除了他们对财富的渴求;那时此景令人毛骨悚然。
14.62.5
सुवर्णं चैव गाश्चैव शयनाच्छादनानि च ।
दीयमानं तदा विप्रः प्रभूतमिति चाब्रुवन् ॥ १४.६२.५ ॥
在给予黄金、牛、卧具和被褥时,婆罗门们说:“这实在太多了!”
14.62.6
वासुदेवोऽथ दाशार्हो बलेदेवः ससात्यकिः ।
अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा।
अतीव दुःखसंतप्ता न शमं चोपलेभिरे ॥ १४.६२.६ ॥
那时,达舍尔哈的婆苏提婆、巴拉罗摩与萨提耶吉为阿毗曼尤举行了祭祀亡者之仪;萨提耶迦当时也举行了。他们极度悲痛,终不得安宁。
14.62.7
तथैव पाण्डवा वीरा नगरे नागसह्वये ।
नोपागच्छन्त वै शान्तिमभिमन्युविनाकृताः ॥ १४.६२.७ ॥
同样,英雄般的般度之子们在名为那伽萨呼瓦雅的城中,因失去阿比曼尤而不得安宁。
14.62.8
सुबहूनि च राजेन्द्र दिवसानि विराटजा ।
नाभुङ्क्त पतिदुःखार्ता तदभूत्करुणं महत् ॥ १४.६२.८ ॥
国王之主啊,毗罗吒之女(优多罗)因丈夫的悲痛而备受煎熬,许多日子不进饮食;那真是极为可怜的境况。
14.62.9
धियमाणे तु तस्मिंस्तु गर्भे कुक्षिस्थ एव च ।
आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा ॥ १४.६२.९ ॥
当那胎儿在腹中被怀抱时,毗耶娑以天眼得知后前来。
14.62.10
समागम्याब्रवीमान्पृथां पृथुललोचनाम् ।
उत्तरां च महातेजाःइ शोकः संत्यज्यतामयम् ॥ १४.६२.१० ॥
这位大光辉者走近普利塔与广眼的优多罗,说道:「愿此忧愁舍弃。」
14.62.11
जनिष्यते महातेजाः पुत्रस्तव यशस्विनि ।
प्रभावाद्वासुदेवस्य मम व्याहरणादपि।
पाण्डवानामयं चान्ते पालयिष्यति मेदिनीम् ॥ १४.६२.११ ॥
光荣的女子啊,你那位大光辉的儿子将会诞生;凭借瓦苏提婆的威力,也凭我的话语,他终将守护般度之子们的大地。
14.62.12
धनञ्जयं च सम्प्रेक्ष्य धर्मराजस्य शृण्वतः ।
व्यासो वाक्यमुवाचेदं हर्षयन्निव भारत ॥ १४.६२.१२ ॥
法王聆听之际,毗耶娑望着阿周那,说出了这些话,仿佛令其欢喜,啊,婆罗多之子!
14.62.13
पौत्रस्तव महाभागो जनिष्यति महामनाः ।
पृथ्वीं सागरपर्यन्तां पालयिष्यति धर्मतः ॥ १४.६२.१३ ॥
你那极具福德、心胸广大的孙子将诞生。他将依法守护被大海环绕的大地。
14.62.14
तस्माच्छोकं कुरुश्रेष्ठ जहि त्वमरिकर्शन ।
विचार्यमत्र न हि ते सत्यमेतद्भविष्यति ॥ १४.६२.१४ ॥
因此,库鲁中最优秀者、敌人的克星啊,你应舍弃悲伤。不必怀疑,这事必将实现。
14.62.15
यच्चापि वृष्णिवीरेणि कृष्णेन कुरुनन्दन ।
पुरोक्तं तत्तथा भावि मा तेऽत्रास्तु विचारणा ॥ १४.६२.१५ ॥
库鲁之喜啊,瓦尔希尼的英雄克里希那先前所说,必将如此实现。你不必有任何疑虑。
14.62.16
विबुधानां गतो लोकानक्षयानात्मनिर्जितान् ।
न स शोच्यस्त्वया वीरो न चान्यैः कुरुभिस्तथा ॥ १४.६२.१६ ॥
那位英雄已抵达诸神不灭的世界,那是以自制所赢得的。他不值得你或其他库鲁人为他悲伤。
14.62.17
एवं पितामहेनोक्तो धर्मात्मा स धनञ्जयः ।
त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा ॥ १४.६२.१७ ॥
祖父如此说,正直的达那阳耶舍弃了悲伤;大王啊,那时他的面容变得喜悦了。
14.62.18
पिताऽपि तव धर्मेज्ञ गर्भे तस्मिन्महामते ।
अवर्धत यथाकामं शुक्लपक्षे यथा शसी ॥ १४.६२.१८ ॥
精通法者、大智慧者啊,你的父亲也在那胎中随意增长,如同白半月的月亮。
14.62.19
ततः संचोदयामास व्यासो धर्मात्मजं नृपम् ।
अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ॥ १४.६२.१९ ॥
于是毗耶娑劝促法子国王趣向马祭;随后他便隐没不见了。
14.62.20
धर्मराजोपि मेधावी श्रुत्वा व्यासस्य तद्वचः ।
वित्तोपनयने तात चकार गमने मतिम् ॥ १४.६२.२० ॥
聪慧的法王也听了毗耶娑的那番话,亲爱的孩子啊,便决意前去聚集财富。