Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.65

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.65.1

क्रियतामुपहारोऽद्य त्र्यम्बकस्य महात्मनः ।
दत्त्वोपहारं नृपते ततः स्वार्थं यतामहे ॥ १४.६५.१ ॥

国王啊,今天应向伟大的三眼神(Tryambaka)献上供品;献上供品之后,我们将为自己的目的而努力。

14.65.2

श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः ।
गिरीशस्य यथान्यायमुपहारमुपाहरत् ॥ १४.६५.२ ॥

尤地希提啰听了婆罗门们的话,依照规定向山主(湿婆)献上了供品。

14.65.3

आज्येन तर्पयित्वाऽग्निं विधिवत्संस्कृतेन च ।
मन्त्रसिद्धं चरुं कृत्वा पुरोधाः स ययै तदा ॥ १४.६५.३ ॥

以酥油满足火神之后,依规定准备好经咒力成就、如法净化的炊饭供物,那位家祭司便去了。

14.65.4

स गृहीत्वा सुमनसो मन्त्रपूता जनाधिप ।
मोदकैः पायसेनाथ मांसैश्चोपाहरद्बलिंम् ॥ १४.६५.४ ॥

人主啊,他取了经咒净化的鲜花,以甜点、奶米饭和肉食献上了供品。

14.65.5

सुमनोभिश्च चित्राभिर्लाजैरुच्चावचैरपि ।
सर्वं स्विष्टकृतं हुत्वा विधिवद्वेदपारगः।
किंकराणां ततः पश्चाच्चकार बलिमुत्तमम् ॥ १४.६५.५ ॥

以各色鲜花与各式炒米,精通吠陀者依规定献上了全部斯维什塔克利特祭品;之后又为仆役们供上了上好的供食。

14.65.6

यक्षेन्द्राय कुबेराय माणिभद्राय चैव ह ।
तथाऽन्येषां च यक्षाणां भूतानां पतयश्च ये ॥ १४.६५.६ ॥

献给夜叉之主俱毗罗(Kubera)、摩尼跋陀罗(Maṇibhadra),以及其他夜叉和作为诸鬼神之主的那些神灵,也都献上了供品。

14.65.7

कृसरेण च मांसेन निवापैस्तिलसंयुतैः ।
ओदनं कुम्भशः कृत्वा पुरोधाः समुपाहरत् ॥ १४.६५.७ ॥

祭司以粥饭、肉类和掺入芝麻的供品,在陶罐中备好米饭,献上作为祭品。

14.65.8

ब्राह्मणेभ्यः सहस्राणि गवां दत्वा तु भूमिपः ।
नक्तंचराणां भूतानां व्यादिदेश बलि तदा ॥ १४.६५.८ ॥

国王布施给婆罗门数千头牛之后,便下令向夜间游荡的众生献上祭品。

14.65.9

धूपगन्धनिरुद्धं तत्सुमनोभिश्च संवृतम् ।
शुशुभे स्थानमत्यर्थं देवदेवस्य पार्थिवः ॥ १४.६५.९ ॥

那地方充满香烟的芬芳,覆盖着鲜花,对国王来说,这神中之神的处所显得格外光彩。

14.65.10

कृत्वा पूजां तु रुद्रस्य गणानां चैव सर्वशः ।
ययौ व्यासं पुरस्कृत्य नृपो रत्ननिधिं प्रति ॥ १४.६५.१० ॥

国王礼拜了楼陀罗及其所有随从之后,尊奉毗耶娑在前,前往宝藏之地。

14.65.11

पूजयित्वा धनाध्वक्षं प्रणिपत्याभिवाद्य च ।
सुमनोभिर्विचित्राभिरपूपैः कृसरेण च ॥ १४.६५.११ ॥

礼拜财富之主,俯身致敬并恭敬问候,以各色鲜花、饼食和粥饭供养。

14.65.12

शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः ।
अर्चयित्वा द्विजाग्र्या स्वस्ति वाच्य च वीर्यवान् ॥ १४.६५.१२ ॥

礼拜法螺等所有宝藏及其所有守护者,并请最优秀的再生者诵念吉祥之语之后,这位勇武的国王。

14.65.13

तेषां पुण्याहघोषेण तेजसा समवस्थितः ।
प्रीतिमान्स कुरुश्रेष्ठः खानयामासं तं निधिम् ॥ १४.६५.१३ ॥

库鲁之最在吉祥诵声与光辉中站立,心中欢喜,便命人挖掘那宝藏。

14.65.14

ततः पात्री सकरका बहुरूपा मनोरमाः ।
भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ॥ १४.६५.१४ ॥

随后有形状多样、令人喜爱的器皿,以及水罐、盛器、大锅、瓶与增益器。

14.65.15

बहूनि च विचित्राणि भाजनानि सहस्रशः ।
उद्धारयामास तदा धर्मराजो युधिष्ठिरः ॥ १४.६५.१५ ॥

于是法王坚战命人取出成千上万件奇异的器皿。

14.65.16

तेषां रक्षणमप्यासीन्महान्करपुटस्तथा ।
नद्धं च भाजनं राजंस्तुलार्धमभवन्नृप ॥ १४.६५.१६ ॥

守护它们也有一大捧的计量;国王啊,所捆扎的器皿重量为半个秤。

14.65.17

वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशांपते ।
षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ॥ १४.६५.१७ ॥

众生之主啊,那里有般度之子的坐骑:六万头骆驼,以及加倍的百数马匹。

14.65.18

वारणाश्च महाराज सहस्रशतसंमिताः ।
शकटानि रथाश्चैव तावदेव करेणवः।
स्वराणां पुरुषाणां च परिसङ्ख्या न विद्यते ॥ १४.६५.१८ ॥

大王啊,大象以百千计;车辆与战车同样多,母象也同样多;仆役与男子之数无法计算。

14.65.19

एतद्वित्तं तदभवद्यदुद्दध्रे युधिष्ठिरः ।
षोडशाष्टौ चतुर्विंशत्सहस्रं भारलक्षणम् ॥ १४.६५.१९ ॥

这便是坚战所取之财,以十六、八、二十四千担计量。

14.65.20

एतेष्वादाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः ।
महादेवं प्रति ययौ पुरं नागाहयं प्रति ॥ १४.६५.२० ॥

坚战从中取出那些财富,再次礼拜大天神,然后前往那伽呼耶城。

14.65.21

द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् ।
गोरुते गोरुते चैव न्यवसत्पुरुषर्षभः ॥ १४.६५.२१ ॥

得到毗耶娑的允许,以国师在前,这位人中之牛每隔一个“牛鸣之距”便驻扎下来。

14.65.22

सा पुराऽभिमुखा राजन्नुवाह महती चमूः ।
कृच्छ्राद्द्रविणभारार्ता हर्षयन्ती कुरूद्वहान् ॥ १४.६५.२२ ॥

大王啊,那支大军面向前方行进;虽为财富之重所苦,却仍令库鲁的俊杰们欢欣。