Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.7

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.7.1

कथमस्मि त्वया ज्ञातः केन वा कथितोस्मि ते ।
एतदाचक्ष्व मे तत्त्वमिच्छसे चेन्मम प्रियम् ॥ १४.७.१ ॥

你是如何认识我的?又是谁告诉你我的事?若你想让我欢喜,就把这真相告诉我。

14.7.2

सत्यं ते ब्रुवतः सर्वे सम्पत्स्यन्ते मनोरथाः ।
मिथ्या च ब्रुवतो मूर्धा शतधा ते स्फुटिष्यति ॥ १४.७.२ ॥

对说实话的你,你的一切愿望都会实现;而说谎者的头颅将碎裂成百片。

14.7.3

नारदेन भवान्मह्यमाख्यातो ह्यटता पथि ।
गुरुपुत्रो ममेति त्वं ततो मे प्रीतिरुत्तमा ॥ १४.७.३ ॥

那罗陀在路上游荡时告诉我你的事:你是我师父的儿子;因此我感到无比的喜悦。

14.7.4

सत्यमेतद्भवानाह स मां जानाति सत्रिणम् ।
कथयस्व तदेतन्मे क्वनु सम्प्रति नारदः ॥ १४.७.४ ॥

你所说属实;他知道我是主持祭祀的人。现在请告诉我,那罗陀此刻在何处?

14.7.5

भवन्तं कथयित्वा तु मम देवर्षिसत्तमः ।
ततो मामभ्यनुज्ञाय प्रविष्टो हव्यवाहनम् ॥ १४.७.५ ॥

那罗陀,诸天仙中最优秀者,向我讲述了你的事之后,与我告别,进入了祭火之中。

14.7.6

श्रुत्वा तु पार्थिवस्यैत्संवर्तः प्रमुदं गतः ।
एतावदहमप्येवं शक्नुयामिति सोऽब्रवीत् ॥ १४.७.६ ॥

Saṃvarta听到国王这番话,满心欢喜,说道:"但愿我也能做到这么多。"

14.7.7

ततो मरुत्तमुन्मत्तो वाचा निर्भर्त्सयन्निव ।
रूक्षया ब्राह्मणि राजन्पुनः पुनरथाब्रवीत् ॥ १४.७.७ ॥

于是他狂乱地,仿佛斥责一般,用严厉的话语,大王,一再地说道。

14.7.8

वातप्रधानेन मया स्वचित्तवशवर्तिना ।
एवं विकृतरूपेण कथं याजितुमिच्छसि ॥ १४.७.८ ॥

我为风所主宰,受自己心念支配,以如此丑陋的形貌,你怎么想让我为你主持祭祀?

14.7.9

भ्राता मम समर्थश्च वासवेन च सङ्गतः ।
वर्तते याजने चैव तेन कर्माणि कारय ॥ १४.७.९ ॥

我的兄长有能力,又与帝释结盟;他正在主持祭祀。请让他来主持这些仪式。

14.7.10

गार्हस्थ्यं चैव याज्याश्च सर्वा गृह्याश्च देवताः ।
पूर्वजेन ममाक्षिप्तं शरीरं वर्जितं त्विदम् ॥ १४.७.१० ॥

家主的职责、一切祭祀供物与家中的神祇,都已被我的长兄夺去;唯有这身躯未被夺走。

14.7.11

नाहं तेनाननुज्ञातस्त्वामाविक्षित कर्हिचित् ।
याजयेयं कथंचिद्वै स हि पूज्यतमो मम ॥ १४.७.११ ॥

没有他的许可,我绝不会教导你,也绝不会以任何方式为你主持祭祀,因为他是我最尊敬的人。

14.7.12

स त्वं बृहस्पतिं गच्च तमनुज्ञाप्य चाव्रज ।
ततोऽहं याजयिष्ये त्वां यदि यष्टुमिहेच्छसि ॥ १४.७.१२ ॥

你去见布哈斯帕蒂,得到他的许可后再回来;那时,若你想在此祭祀,我便为你主持祭祀。

14.7.13

बृहस्पतिं गतः पूर्वमहं संवर्ते तच्छृणु ।
न मां कामयते याज्यं मुनिर्वासववारितः ॥ १४.७.१३ ॥

我先前去见了布利哈斯帕蒂,萨姆瓦尔塔,请听我说。那位被婆娑(因陀罗)禁止的仙人,不愿为我主持祭祀。

14.7.14

अमरं याज्यमासाद्य याजयिष्ये न मानुषम् ।
शक्रेण प्रतिषिद्धोऽहं मरुत्तं मा स्म याजये ॥ १४.७.१४ ॥

既然得到了一位不死者作为受祭者,我就不会让凡人祭司主持祭祀。我已被沙克拉(因陀罗)禁止,因此不要为摩路多主持祭祀。

14.7.15

स्पर्धते हि मया विप्र सदा हि स तु पार्थिवः ।
एवमस्त्विति चाप्युक्तो भ्रात्रा ते बलसूदनः ॥ १४.७.१५ ॥

婆罗门啊,他总是与我竞争;那位国王(因陀罗)也总是如此。连灭力者(因陀罗)也被你的兄长说过“就这样吧”。

14.7.16

स मामधिगतं प्रेम्णा याज्यत्वे न बुभूषति ।
देवराजं समाश्रित्य तद्विद्धि मुनिपुङ्गव ॥ १४.७.१६ ॥

他虽然怀着爱意来到我这里,却不愿做受祭之人。要知道,哦,仙人中最杰出者,他已投靠了诸神之王(因陀罗)。

14.7.17

सोहमिच्छामि भवता सर्वस्वेनापि याजितुम् ।
कामये समतिक्रान्तुं वासवं त्वत्कृतैर्गुणैः ॥ १४.७.१७ ॥

我愿意倾尽所有,请你为我主持祭祀。凭借你所展现的美德,我想超越婆娑(因陀罗)。

14.7.18

न हि मे वर्तते बुद्धिर्गन्तुं ब्रह्मन्बृहस्पतिम् ।
प्रत्याख्यातो हि तेनास्मि तथाऽनपकृते सति ॥ १४.७.१८ ॥

婆罗门啊,我无意前往布利哈斯帕蒂那里,因为他拒绝了我,而我并没有对他做过任何错事。

14.7.19

चिकीर्षसि यथाकामं सर्वमेतत्त्वयि ध्रुवम् ।
यदि सर्वानभिप्रायान्कर्तासि मम पार्थिव ॥ १४.७.१९ ॥

国王啊,你想随心所欲地做这一切,这在你身上是确定的。如果你完成我所有的意愿……

14.7.20

याज्यमानं मया हि त्वां बृहस्पतिपुंरदरौ ।
द्विषेतां समभिक्रुद्धावेतदेकं समर्थये ॥ १४.७.२० ॥

若我为你主持祭祀,布里哈斯帕蒂与普兰达拉(因陀罗)都将大怒并憎恨你;我只请求这一件事。

14.7.21

स्थैर्यमत्र कथं मे स्यात्स त्वं निःसंशयं कुरु ।
कुपितस्त्वां न हीदानीं भस्म कुर्या सवान्धवम् ॥ १४.७.२१ ॥

请你毫无疑问地确定,我在此如何能保持坚定。现在我虽已愤怒,却没有将你和你的亲族化为灰烬。

14.7.22

यावत्तपेत्सहस्रांशुस्तिष्ठेरंश्चापि पर्वताः ।
तावल्लोकान्न लभेयं त्यजेयं सङ्गतं यदि ॥ १४.७.२२ ॥

只要千光之日照耀、群山屹立,若我舍弃此交往,愿我不得诸界。

14.7.23

मा चापि शुभबुद्धित्वं लभेयमिह कर्हिचित् ।
विषयैः सङ्गतं चास्तु त्यजेयं सङ्गतं यदि ॥ १४.७.२३ ॥

愿我在此永不得善良之心;若舍弃此交往,愿我与诸感官之境相连。

14.7.24

आविक्षित शुभा बुद्धिर्वर्ततां तव कर्मसु ।
याजनं हि ममाप्येव वर्तते हृदि पार्थिव ॥ १४.७.२४ ॥

阿维克希特啊(摩路陀),愿善良之心常在你的行为中;国王啊,我心中也只有主持祭祀的念头。

14.7.25

अभिधास्ते च ते राजन्नक्षयं द्रव्यमुत्तमम् ।
येन देवान्सग्धर्वाञ्शक्रं चाभिभविष्यसि ॥ १४.७.२५ ॥

大王啊,我将告诉你一种不尽的至上财富,借此你将胜过诸天、乾达婆,甚至因陀罗。

14.7.26

न तु मे वर्तते बुद्धिर्धने याज्येषु वा पुनः ।
विप्रियं तु करिष्यामि भ्रातुश्चेन्द्रस्य चोभयो ॥ १४.७.२६ ॥

然而我的心既不在财富,也不在请我主持祭祀的人身上;但我仍将对你的兄弟和因陀罗二者都做不喜悦之事。

14.7.27

गमयिष्यामि शक्रेण समतामपि ते ध्रुवम् ।
प्रियं च ते करिष्यामि सत्यमेतद्ब्रवीमि ते ॥ १४.७.२७ ॥

我必定使你与因陀罗相等,并为你做让你欢喜之事;这是真实的,我正是这样告诉你。