摩诃婆罗多 · 章 14.71
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.71.1
तान्समीपगताञ्श्रुत्वा पाण्डवाञ्शत्रुकर्शनः ।
वासुदेवः सहामात्यः प्रययौ ससुहृद्गणः।
ते समेत्य यथान्यायं प्रत्युद्याता दिदृक्षया ॥ १४.७१.१ ॥
毗湿摩的敌人粉碎者婆苏提婆听闻般度五子已近,便与大臣及亲友随从出发。依礼相会之后,他们怀着见面的渴望前来迎接。
14.71.2
ते समेत्य तथाधर्मं पाण्डवा वृष्णिभिः सह ।
विविशुः सहिता राजन्पुरं वारणसाह्वयम् ॥ १४.७१.२ ॥
依礼相会之后,般度五子与毗湿尼族一同,进入名为婆罗那萨瓦耶的城市,大王。
14.71.3
विशतस्तस्य सैन्यस्य खुरनेमिस्वनेन ह ।
द्यावापृथिव्यौ खं चैव सर्वमासीत्समावृतम् ॥ १४.७१.३ ॥
那支军队进入之时,马蹄与车轮边缘的轰鸣声充满了天地与虚空。
14.71.4
ते कोशानग्रतः कृत्वा विविशुः स्वं पुरं तदा ।
पाण्डवाः प्रीतमनसः सामात्याः ससुहृद्गणाः ॥ १४.७१.४ ॥
他们将宝库置于前方,随即进入自己的城市。般度五子心怀喜悦,与大臣及亲友随从同行。
14.71.5
ते समेत्य यथान्यायं धृतराष्ट्रं जनाधिपम् ।
कीर्तयन्तः स्वनामानि तस्य पादौ ववन्दिरे ॥ १४.७१.५ ॥
依礼拜见人主持国王,报上各自的名字,然后向他的双足致敬。
14.71.6
धृतराष्ट्राभ्यनुज्ञाता गान्धारीं सुबलात्मजाम् ।
कुन्तीं च राजशार्दूल तदा भरतसत्तम ॥ १४.७१.६ ॥
得到持国王的允许后,他们随即也去拜见了苏巴拉之女甘陀利和贡蒂,王中猛虎啊,婆罗多中最优秀者。
14.71.7
विदुरं यूजयित्वा च वैश्यापुत्रं समेत्य च ।
पूज्यमानाः स्म ते वीरा व्यरोचन्त विशाम्पते ॥ १४.७१.७ ॥
尊敬毗杜罗并会见了吠舍妇人之子后,那些受到尊重的英雄光彩照人,人主啊。
14.71.8
ततस्तत्परमाश्चर्यं विचित्रं महदद्भुतम् ।
शुश्रुवुस्ते तदा वीराः पितुस्ते जन्म भारत ॥ १४.७१.८ ॥
那时,那些英雄听到了那至为奇妙、非凡、伟大而惊人的事——你父亲的出生,婆罗多啊。
14.71.9
तदुपश्रुत्य तत्कर्म वासुदेवस्य धीमतः ।
पूजार्हं पूजयामासुः कृष्णं देवकीनन्दनम् ॥ १४.७१.९ ॥
听闻智慧的婆苏提婆之子的那一行为后,他们礼拜了值得礼敬的提婆吉之子黑天。
14.71.10
ततः कतिपयाहस्य व्यासः सत्यवतीसुतः ।
आजगाम महातेजा नगरं नागसाह्वयम् ॥ १४.७१.१० ॥
此后过了几天,萨提亚瓦蒂之子、大光辉的毗耶娑来到了名为那伽萨呼瓦亚的城市。
14.71.11
तस्य सर्वे यथान्यायं पूजा चक्रुः कुरूद्वहाः ।
सह वृष्ण्यन्धकव्याघ्रैरुपासांचक्रिरे तदा ॥ १४.७१.११ ॥
库卢族的首领们都依礼敬奉他,随后与韦利什尼和安达卡的虎杰一同侍奉他。
14.71.12
तत्र नानाविधाकाराः कथाः समभिकीर्त्य वै ।
युधिष्ठिरो धर्मसुतो व्यासं वचनमब्रवीत् ॥ १४.७१.१२ ॥
在那里,法之子坚战讲述了种种故事之后,对毗耶娑说了这些话。
14.71.13
भवत्प्रसादाद्भगवन्यदिदं रत्नमाहृतम् ।
उपयोक्तुं तदिच्छामि वाजिमेधे महाक्रतौ ॥ १४.७१.१३ ॥
尊者啊,蒙您之恩,此宝已被取来;我想在大祭——马祭中使用它。
14.71.14
तमनुज्ञातुमिच्छामि भवता मुनिसत्तम ।
त्वदधीना वयं सर्वे कृष्णस्य च महात्मनः ॥ १४.७१.१४ ॥
诸仙中最杰出者啊,我想得到您对此的允许;我们一切都依赖于您,也依赖于大德的克里希纳。
14.71.15
अनुजानामि राजंस्त्वां क्रियतां यदनन्तरम् ।
यजस्व वाजिमेधेन विधिवद्दक्षिणावता ॥ १४.७१.१५ ॥
国王啊,我允许你;接下来该做的事就去做吧。按照规程、以适当的布施,以马祭来献祭。
14.71.16
अश्वमेधो हि राजेन्द्र पावनः सर्वपाप्मनाम् ।
तेनेष्ट्वा त्वं विपात्मा वै भविता नात्र संशयः ॥ १४.७१.१६ ॥
诸王之主啊,马祭能净化一切罪业;以它献祭之后,你必定会脱离罪垢,这一点毫无疑问。
14.71.17
इत्युक्तः स तु धर्मात्मा कुरुराजो युधिष्ठिरः ।
अश्वमेधस्य कौरव्य चकाराहरणे मतिम् ॥ १४.७१.१७ ॥
如此被劝告之后,正直的俱卢王坚战(Yudhiṣṭhira)啊,俱卢后裔,便决意举行马祭。
14.71.18
समनुज्ञाप्य तत्सर्वं कृष्मद्वैपायनं नृपः ।
वासुदेवमथाभ्येत्य वाग्मी वचनमब्रवीत् ॥ १४.७१.१८ ॥
国王在一切事上得到黑氏仙人(Kṛṣṇa Dvaipāyana)的许可后,便善辩地走近婆苏提婆(Vāsudeva),说出了这番话。
14.71.19
देवकी सुप्रजा देवी त्वया पुरुषसत्तम ।
यद्ब्रूयां त्वां महाबाहो तत्कृथास्त्वमिहाच्युत ॥ १४.७१.१९ ॥
至上之人啊,你赐予了提婆基良好的子嗣。大臂者啊,无失者啊,请在此做我所说的事。
14.71.20
त्वत्प्रभावार्जितान्भोगानश्नीम यदुनन्दन ।
पराक्रमेण बुद्ध्या च त्वयेयं निर्जिता मही ॥ १४.७१.२० ॥
邑度之喜悦者啊,我们愿享用依你威力所得的享乐。以勇力与智慧,此大地正是你所征服的。
14.71.21
दीक्षयस्व त्वमात्मानं त्वं हि नः परमो गुरुः ।
त्वयीष्टवति दाशार्ह विपाप्मा भविता ह्यहम् ॥ १४.७१.२१ ॥
请你自行受持祭戒,因为你确实是我们至上的导师。达舍阿尔哈啊,当你行祭之后,我将无罪。
14.71.22
त्वं हि यज्ञो गुरुश्च त्वं धर्मज्ञस्त्वं प्रजापतिः ।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥ १४.७१.२२ ॥
你确实是祭祀与导师;你是知法者,你是众生之主。你是一切众生的归宿——这是我坚定的看法。
14.71.23
त्वमेवैतन्महाबाहो कर्तुमर्हस्यरिंदम ।
त्वं गतिः सर्वभूतानामिति मे निश्चिता मतिः ॥ १४.७१.२३ ॥
大臂者、调伏敌人者啊,此事你本应亲自去做。你是一切众生的归宿——这是我坚定的看法。
14.71.24
त्वं चाद्यि कुरुवीराणां धर्मेण हि विराजसे ।
गुणीभूताः स्म ते राजंस्त्वं नो राजन्गुरुर्मतः।
यजस्व मदनुज्ञातः प्राप्य एष क्रतुस्त्वया ॥ १४.७१.२४ ॥
今日你在俱卢英雄之中因法而光耀。大王啊,我们服从于你;大王啊,你被视为我们的导师。在我的许可下,请行祭——此祭应由你完成。
14.71.25
युनक्तु नो भवान्कार्ये यत्र वाञ्छसि भारत ।
सत्यं ते प्रतिजानामि सर्वं कर्तास्मि तेऽनघ ॥ १४.७१.२५ ॥
婆苏提婆说:婆罗多啊,您愿意让我们做什么事,就请吩咐吧。无垢者啊,我向您真诚地承诺:我会为您做一切。
14.71.26
भीमसेनार्जुनौ चैव तथा माद्रवतीसुतौ ।
इष्टवन्तो भविष्यन्ति त्वयीष्टवति पार्थिवे ॥ १४.७१.२६ ॥
毗摩西那、阿周那,以及摩德丽的两个儿子,在您,大王,举行祭祀之时,也将举行祭祀。