摩诃婆罗多 · 章 14.72
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.72.1
एवमुक्तस्तु कृष्णेन धर्मपुत्रो युधिष्ठिरः ।
व्यासमामन्त्र्य् मेधावी ततो वाचनमब्रवीत् ॥ १४.७२.१ ॥
克里希那如此说后,法之子坚战向智者毗耶娑呼唤并说了这些话。
14.72.2
यदा कालं भवान्वेत्ति हयमेधस्य तत्त्वतः ।
दीक्षयस्व तदा मां त्वं त्वय्यायत्तो हि मे क्रुतुः ॥ १४.७२.२ ॥
当您真正知道马祭的时节时,便请为我授予灌顶之礼,因为我的祭祀全赖于您。
14.72.3
अयं पैलोथ कौन्तेय याज्ञवल्क्यस्तथैव च ।
विधानं यद्यथा कालं तत्कर्तारौ न संशयः ॥ १४.७२.३ ॥
这位是毗拉,俱蒂之子,耶若婆勒迦也是如此;按时节行仪的,必定是这两位,毫无疑问。
14.72.4
चैत्र्यां हि पौर्णमास्यां तु तव दीक्षा भविष्यति ।
सम्भाराः सम्भ्रियन्तां च यज्ञार्थं पुरुषर्षभ ॥ १४.७२.४ ॥
你的灌顶将在吉祥月的满月日举行;人中之牛啊,请备齐祭祀所需之物。
14.72.5
अश्वविद्याविदश्चैव सूता विप्राश्च तद्विदः ।
मेध्यमश्वं परीक्षन्तां तव यज्ञार्थसिद्धये ॥ १४.७२.५ ॥
让通晓马术的御者与婆罗门来检验适合祭祀的马匹,以成就你的祭祀。
14.72.6
तमुत्सृज यथाशास्त्रं पृथिवीं सागराम्बराम् ।
सपर्येतु यशो नाम्ना तव पार्थिव वर्धयन् ॥ १४.७२.६ ॥
国王啊,请依照经典放出它;让它在被大海环绕的大地上行走,以你的名字增进你的荣耀。
14.72.7
इत्युक्तः स तथेत्युक्त्वा पाण्डवः पृथिवीपतिः ।
चकार सर्वं राजेन्द्र यथोक्तं ब्रह्मवादिना ॥ १४.७२.७ ॥
受此吩咐,般度之子、大地之主说:“就这样吧。”大王啊,他便依照梵言者所说的一切而行。
14.72.8
सम्भारश्चैव राजेन्द्र सर्वे सङ्कल्पितास्तता ॥ १४.७२.८ ॥
大王啊,所有的供物与器具也同样都已备齐。
14.72.9
स सम्भारान्समाहृत्य नृपो धर्मसुतस्तदा ।
न्यवेदयदमेयात्मा कृष्णद्वैपायनाय वै ॥ १४.७२.९ ॥
于是,法之子那位国王收集了所有供物,禀告了无量自性的黑岛仙人(毗耶娑)。
14.72.10
ततोऽब्रवीन्महातेजा व्यासो धर्मात्मजं नृपम् ।
यथाकालं यथायोगं सज्जाः स्म तव दीक्षणे ॥ १४.७२.१० ॥
于是大光明的毗耶娑对义人之子那位国王说:“按时、依礼,你的受戒之事一切已备。”
14.72.11
स्फ्यश्च कूर्चश्च सौवर्णो यच्चान्यदपि कौरव ।
यत्तु योग्यं भवेत्किञ्चिद्रौक्मं तत्क्रियतामिति ॥ १४.७२.११ ॥
Kaurava啊,祭杓与草束,以及其他金制之物,凡宜以金制作者,都应当制作。
14.72.12
अश्वश्चोत्सृज्यतामद्य पृथ्व्यामथ यथाक्रमम् ।
सुगुप्तं चरतां चापि यथाशास्त्रं यथाविधि ॥ १४.७२.१२ ॥
今日即应依次将马放于大地之上,凡随之行者当好生守护,依照经典与仪规。
14.72.13
अयमश्वो यता ब्रह्मन्नुत्सृष्टः पृथिवीमिमाम् ।
चरिष्यति यथाकामं तत्र वै संविदीयताम् ॥ १४.७२.१३ ॥
婆罗门啊,这匹被束缚后放逐于大地上的马将随意游行;请在那里作好安排。
14.72.14
पृथिवीं पर्यटन्तं हि तुरगं कामचारिणम् ।
कः पालयेदिति मुने तद्भवान्वक्तुमर्हति ॥ १४.७२.१४ ॥
圣者啊,那匹随意游行于大地的马,谁来守护?只有您才有资格说出。
14.72.15
इत्युक्तः स तु राजेन्द्र कृष्णद्वैपायनोऽब्रवीत् ।
भीमसेनादवरजः श्रेष्ठः सर्वधनुष्मताम्।
जिष्णुः सहिष्णुर्धृष्णुस्च स एनं पालयिष्यति ॥ १४.७२.१५ ॥
王中之王啊,被如此问及后,黑天·二岁尊者答道:比毗摩塞那年幼、为诸弓手之最、胜利、忍耐且勇敢的遮湿努(阿周那)将守护此马。
14.72.16
शक्तः स हि महीं जेतुं निवातकवचान्तकः ।
तस्मिन्ह्यस्त्राणि दिव्यानि दिव्यं संहननं तथा।
दिव्यं धनश्चेषुधी च स एनमनुयास्यति ॥ १४.७२.१६ ॥
他能够征服大地,是尼婆多迦婆迦的毁灭者。他身具神圣的武器、神圣的体格、神圣的弓和两个箭囊;他将跟随此马。
14.72.17
स हि धर्मार्थकुशलः सर्वविद्याविशारदः ।
यथाशास्त्रं नृपश्रेष्ठ चारयिष्यति ते हयम् ॥ १४.७२.१७ ॥
他精通法与利,于一切学问皆通达。王中之最啊,他将依照经典使您的马游行。
14.72.18
राजपुत्रो महाबाहुः श्यामो राजीवलोचनः ।
अभिमन्योः पिता वीरः स एनमनुयास्यति ॥ १४.७२.१८ ॥
王子,大臂,肤色黝黑,眼如莲花,英雄,阿毗曼尤之父——他将跟随此马。
14.72.19
भीमसेनोपि तेजस्वी कौन्तेयोऽमितविक्रमः ।
समर्थो रक्षितुं राष्ट्रं नकुलश्च विशाम्पते ॥ १४.७२.१९ ॥
光辉的毗摩森那、无量勇武的贡蒂之子,以及那古罗,也都能够守护王国,人民之主啊。
14.72.20
सहदेवस्तु कौरव्य समायास्यति बुद्धिमान् ।
कुटुम्बतन्त्रं विधिवत्सर्वमेव महायशाः ॥ १४.७२.२० ॥
俱卢之裔啊,明智的萨诃提婆也将到来;大名的他将依法料理家族的一切事务。
14.72.21
स तु सर्वं यथान्यायमुक्त कुरुकुलोद्वहः ।
चकार फल्गुनं चापि संदिदेश हयं प्रति ॥ १४.७२.२१ ॥
这位担负俱卢族重任者,依法说明并处置了一切,又向法尔古那发出了关于马匹的指示。
14.72.22
एह्यर्जुन त्वया वीर हयोऽयं परिपाल्यताम् ।
त्वमर्हो रक्षितुं ह्येनं नान्यः कश्चन मानवः ॥ १४.७२.२२ ॥
来吧,阿周那,英雄;让这匹马由你守护。只有你配守护它,别的人都不配。
14.72.23
ये चापि त्वां महाबाहो प्रत्युद्यान्ति नराधिपाः ।
तैर्विग्रहो यथा न स्यात्तथा कार्यं त्वयाऽनघ ॥ १४.७२.२३ ॥
那些前来迎接你的国王,大臂者啊,你应当这样行事,使他们之间不起争端,无瑕者啊。
14.72.24
आख्यातव्यश्च भता यज्ञोऽयं मम सर्वशः ।
पार्थिवेभ्यो महाबाहो समये गम्यतामिति ॥ १४.७२.२४ ॥
应当告知诸王:我的这场祭祀各方面都在进行。大臂者啊,你去吧,说:请在约定的时间到来。
14.72.25
एवमुक्त्वा स धर्मात्मा भ्रातरं सव्यसाचिनम् ।
भीमं च नकुलं चैव पुरगुप्तौ समादधत् ॥ १४.७२.२५ ॥
说完这话,这位德行高尚的人任命他的兄弟萨维亚萨钦(阿周那)、比摩和那古拉守卫城市。
14.72.26
कुटुम्बतन्त्रे च तदा सहदेवं युधांपतिम् ।
अनुमान्य महीपालं धृतराष्ट्रं युधिष्ठिरः ॥ १४.७२.२६ ॥
于是,Yudhiṣṭhira将战士之主萨诃提婆安排在家务管理之中,并获得了大地守护者持国王的同意。