摩诃婆罗多 · 章 14.76
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.76.1
एवं त्रिरात्रमभवत्तद्युद्धं भरतर्षभ ।
अर्जुनस्य नरेन्द्रेण वृत्रेणेव शतक्रतोः ॥ १४.७६.१ ॥
婆罗多之牛啊,阿周那与那位人王之间的这场战斗就这样持续了三夜,犹如因陀罗与弗栗多的战斗。
14.76.2
ततश्चतुर्थे दिवसे यज्ञदत्तो महाबलः ।
जहास सस्वनं हासं वाक्यं चेदमताब्रवीत् ॥ १४.७६.२ ॥
然后第四天,大力的祭授(Yajñadatta)大笑一声,说出了这些话。
14.76.3
अर्जुनार्जुन तिष्ठस्व न मे जीवन्विमोक्ष्यसे ।
त्वां निहत्य करिष्यामि पितुस्तोयं यथाविधि ॥ १४.७६.३ ॥
阿周那,阿周那,站住!你不会活着从我手中脱身。杀死你之后,我将依仪轨为父亲奉献水祭。
14.76.4
त्वया वृद्धो मम पिता भगदत्तः पितुः सखा ।
हतो वृद्धोऽपि बाधित्वा शिशुं मामद्य योधय ॥ १४.७६.४ ॥
我年老的父亲薄伽达多——我父亲的朋友——被你杀死了;他虽已年老,却被你逼迫而死。今天,与我这个孩子作战吧。
14.76.5
इत्येवमुक्त्वा संक्रुद्धो यज्ञदत्तो नराधिपः ।
प्रेषयामास कौरव्य वारणं पाण्डवं प्रति ॥ १४.७६.५ ॥
说完这些话,愤怒的人王祭授,啊,俱卢之后裔,驱使他的象冲向般度之子。
14.76.6
सम्प्रेष्यमाणो नागेन्द्रो यज्ञदत्तेन धीमता ।
उत्पतिष्यन्निवाकाशमभिदुद्राव पाण्डवम् ॥ १४.७६.६ ॥
在智慧的祭授驱策下,那象王仿佛要腾空跃起,朝般度之子猛冲过去。
14.76.7
अग्रहस्तसुमुक्तेन शीकरेण स नागराट् ।
समौक्षति गुडाकेशं शैलं नील इवाम्बुदः ॥ १४.७६.७ ॥
这位象王以从鼻端喷出的水花洒向古达克舍(阿周那),犹如黑云洒落于山岳。
14.76.8
स तेन प्रेषितो राज्ञा मेघवद्विनदन्मुहुः ।
मुखाडम्बरसंह्रादैरभ्यद्रवत फल्गुनम् ॥ १४.७६.८ ॥
那象被国王驱使,如云般一再咆哮,以口中的雷鸣般吼声冲向法尔古那(阿周那)。
14.76.9
स नृत्यन्निव नागेन्द्रो यज्ञदत्तप्रचोदितः ।
आससाद द्रुतं राजन्कौरवाणां महारथम् ॥ १४.७६.९ ॥
在耶祇亚达塔的驱使下,这位象王仿佛起舞般,王啊,迅速抵达了俱卢族的大战车武士面前。
14.76.10
तमायान्तमथालक्ष्य यज्ञदत्तस्य वारणम् ।
गाण्डीवमाश्रित्य बली न व्यकम्पत शत्रुहा ॥ १४.७६.१० ॥
虽见耶祇亚达塔的那头象走来,这位强大的灭敌者依靠甘狄拔神弓,丝毫不曾颤抖。
14.76.11
चुक्रोध बलवच्चापि पाण्डवस्तस्य भूपतेः ।
कार्यविघ्नमनुस्मृत्यि पूर्ववैरं च भारत ॥ १४.७६.११ ॥
般度之子对那位国王极为愤怒,想起了阻碍其事的障碍与旧日的仇怨,婆罗多啊。
14.76.12
ततस्तं वारणं क्रुद्धः शरजालेन पाण्डवः ।
निवारयामास तदा वेलेव मकरालयम् ॥ १४.७६.१२ ॥
于是愤怒的般度之子以箭网阻住那头象,犹如海岸阻挡大海。
14.76.13
स नागप्रवरः श्रीमानर्जुनेन निवारितः ।
तस्थौ शरैर्विनुन्नाङ्गः श्वाविच्छललितो यथा ॥ १४.७६.१३ ॥
那头被阿周那阻挡的光辉象王,身上被箭射伤,像被刺穿的豪猪一样站立着。
14.76.14
निवारितं गजं दृष्ट्वा भगदत्तसुतो नृपः ।
उत्ससर्ज शितान्बाणानर्जुने क्रोधमूर्छितः ॥ १४.७६.१४ ॥
看到大象被阻,婆伽陀之子的国王怒不可遏,向阿周那射出锐利的箭。
14.76.15
अर्जुनस्तु महाबाहुः शरैररिनिघातिभिः ।
वारयामास तान्बाणांस्तदद्भुतमिवाभवत् ॥ १४.७६.१५ ॥
然而大臂阿周那以杀敌之箭挡开了那些箭,那情景仿佛奇迹一般。
14.76.16
ततः पुनरभिक्रुद्धो राजा प्राग्ज्योतिषाधिपः ।
प्रेषयामास नागेन्द्रं बलवत्पर्वतोपमम् ॥ १४.७६.१६ ॥
随后,怒火再次高涨的普拉格约提沙之王,派出了如山一般强大的象王。
14.76.17
तमापतन्तं सम्प्रेक्ष्य बलवान्पाकशासनिः ।
नाराचमग्निसङ्काशं प्राहिणोद्वारणं प्रति ॥ १४.७६.१७ ॥
大力的因陀罗之子看到那头象冲来,便向它射出一支如火般炽烈的铁箭。
14.76.18
स तेन वारणो राजन्मर्मस्वभिहतो भृशम् ।
पपात सहसा भूमौ वज्ररुग्ण इवाचलः ॥ १४.७६.१८ ॥
国王啊,那头象被这箭重创要害,突然倒在地上,如同被雷霆击碎的山岳。
14.76.19
स पतञ्शुशुभे नागो धनंजयशराहतः ।
विशन्निव महाशैलो महीं वज्रप्रपीडितः ॥ १४.७६.१९ ॥
大象被丹那阇耶的箭射中而倒下,闪耀如同被金刚杵击碎、陷入大地的巨山。
14.76.20
तस्मिन्निपतिते नागे यज्ञदत्तस्य पाण्डवः ।
तं न भेतव्यमित्याह ततो भूमिगतं नृपम् ॥ १४.७६.२० ॥
那头象倒下后,般度之子对倒在地上的国王说:“不要害怕。”
14.76.21
अब्रवीद्धि महातेजाः प्रस्थितं मां युधिष्ठिरः ।
राजानस्ते न हन्तव्या धनंजय कथञ्चन ॥ १४.७६.२१ ॥
因为大光明的坚战在我出发时对我说:“丹那阇耶,无论如何不可杀害诸王。”
14.76.22
सर्वमेतन्नरव्याघ्र भवत्येतावता कृतम् ।
योधाश्चापि न हन्तव्या धनंजय रणे त्वया ॥ १४.७६.२२ ॥
人中之虎啊,仅此一举,一切便已完成。丹那阇耶,战斗中你也不可杀害战士。
14.76.23
वक्तव्याश्चापि राजानः सर्वे सह सुहृज्जनैः ।
युधिष्ठिरस्याश्वमेधो भवद्भिरनुभूयताम् ॥ १४.७६.२३ ॥
还应当告诉所有国王及其亲友:请你们承认坚战的马祭。
14.76.24
इति भ्रातृवचः श्रुत्वा न हन्मि त्वां नराधिप ।
उत्तिष्ठ न भयं तेऽस्ति स्वस्तिमान्गच्छ पार्थिव ॥ १४.७६.२४ ॥
听了兄长的这些话,我不会杀你。起来吧,人主;你无所畏惧。国王啊,平安地去吧。
14.76.25
आगच्छेथा महाराज परां चैत्रीमुपस्थिताम् ।
तदाऽश्वमेधो भविता धर्मिराजस्य धीमतः ॥ १४.७६.२५ ॥
伟大的国王啊,当殊胜的遮德罗月到来时请前来;那时,智慧的法王将举行马祭。
14.76.26
एवमुक्तः स राजा तु भगदत्तात्मजस्तदा ।
तथेत्वेवाब्रवीद्वाक्यं पाण्डवेनाभिनिर्जितः ॥ १४.७६.२६ ॥
被如此告知后,那位被般度之子彻底击败的薄伽达多之子国王便说道:“就这样吧。”