Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.77

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.77.1

जित्वा प्रसाद्य राजानं भगदत्तसुतं तदा ।
विसृज्य याते तुरगे सैन्धवान्प्रति भारत ॥ १४.७७.१ ॥

婆罗多之子啊,那时征服并安抚了跋伽达多之子的国王后,放开马匹,它便向信度人而去。

14.77.2

सैन्धवैरभवगद्युद्धं ततस्तस्य किरीटिनः ।
हतशेषैर्महाराज हतानां च सुतैरपि ॥ १४.७७.२ ॥

那时,这位戴冠者与信度人发生了战斗,大王啊,与幸存者,也与被杀者的儿子们作战。

14.77.3

तेऽवतीर्णमुपश्रुत्य विषयं श्वेतवाहनम् ।
प्रत्युद्ययुरमृष्यन्ते राजानः पाण्डवर्षभम् ॥ १४.७७.३ ॥

他们听说这位白马之主、般度族中的雄牛进入了自己的领地,诸王不能忍受,便出来迎战他。

14.77.4

अश्वं च तं परामृश्य विषयान्ते विषोपमात् ।
न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ॥ १४.७७.४ ॥

在国境上,他们对那位像毒药般抓住那匹马的普利塔之子,以及紧随其后的毗摩先,都没有感到恐惧。

14.77.5

तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च ।
बीभत्सुं प्रत्यपद्यन्त् पदातिनमवस्थितम् ॥ १४.७७.५ ॥

在祭祀之马不远处,他们遇到了手持弓箭、步行站立的毗跋蹉(阿周那)。

14.77.6

ततस्ते तं महावीर्या राजानः पर्यवारयन् ।
जिगीषन्तो नरव्याघ्रं पूर्वं विनिकृता युधि ॥ १४.७७.६ ॥

于是,那些先前在战斗中被击败的大力诸王,渴望取胜,便包围了那位人中之虎。

14.77.7

ते नामान्यपि गोत्राणि कर्मणि विविधानि च ।
कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ॥ १४.७७.७ ॥

于是他们一边颂扬般的名号、家族与种种功业,一边以箭雨遮蔽普利塔之子(阿周那)。

14.77.8

ते किरन्तः शरव्रातान्वारणप्रतिवारणान् ।
रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ॥ १४.७७.८ ॥

他们射出成群的箭矢,攻击又反击,渴望在战场上取胜,将贡蒂之子团团包围。

14.77.9

ते समीक्ष्य च तं कृष्णमुग्रकर्माणमाहवे ।
सर्वे युयुधिरे वीरा रथस्थास्तं पदातिनम् ॥ १४.७७.९ ॥

在战场上,他们看见那位行事凶猛的黑天(阿周那)徒步而行,所有站在战车上的勇士便与他交战。

14.77.10

ते तमाजघ्निरे वीरं निवातकवचान्तकम् ।
संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ॥ १४.७७.१० ॥

他们攻击那位英雄——他曾灭杀尼瓦塔卡瓦查,歼灭三战士部众,并杀死信度王(胜车)。

14.77.11

ततो रथसहस्रेण गजानामयुतेन च ।
ष्ठकीकृत्य बीभत्सुं प्रहृष्टमनसोऽभवन् ॥ १४.७७.११ ॥

于是,他们以千辆战车和万头象将毗跋特苏(阿周那)团团围住,心中欢喜起来。

14.77.12

स्मरन्तो वधं वीराः सिन्धुराजस्य चाहवे ।
जयद्रथस्य कौरव्य समरे सव्यसाचिना ॥ १४.७७.१२ ॥

啊,俱卢之裔!勇士们在战斗中回想着信度王胜车被杀之事,以及那场战斗中善用双手的神射手(阿周那)杀死他的情景。

14.77.13

ततः पर्जन्यवत्सर्वे शरवृष्टीरवासृजन् ।
तैः कीर्णः शुशुभे पार्थो रविर्मेघान्तरे यथा ॥ १४.७७.१३ ॥

于是众人如雨云般倾泻箭雨。被箭雨覆盖的般度之子,犹如云间的太阳般闪耀。

14.77.14

स शरैः समवच्छन्नश्चकाशे पाण्डवर्षभः ।
पञ्चरान्तरसञ्चारी शकुन्त इव भारत ॥ १४.७७.१४ ॥

被箭完全覆盖的那位般度族雄牛闪耀。啊,婆罗多,他如同在五列之间穿行的飞鸟。

14.77.15

ततो हाहाकृतं सर्वं कौन्तेय शरपीडिते ।
त्रैलोक्यमभवद्राजन्रविरासीद्रजोरुणः ॥ १४.७७.१५ ॥

于是,啊,昆蒂之子,三界因箭矢所伤而哀号。啊,国王,太阳被尘土染成了红色。

14.77.16

ततो ववौ महाराज मारुतो रोमहर्षणः ।
राहुरग्रसदादित्यं पर्वणीव विशाम्पते ॥ १४.७७.१६ ॥

于是,啊,大王,一阵令人毛骨悚然的风吹起,罗睺如同在日食时吞噬太阳,啊,人民之主。

14.77.17

उल्काश्च जघ्निरे सूर्यं विकीर्यन्त्यः समन्ततः ।
वेपथुश्चाभवद्राजन्कैलासस्य महागिरेः ॥ १४.७७.१७ ॥

流星四散飞溅,击向太阳;啊,国王,大山冈仁波齐也震动了。

14.77.18

मुमुचुः श्वासमत्युष्णं दुःखशोकसमन्विताः ।
सप्तर्षयो जातभयास्तथा देवर्षयोपि च ॥ १४.७७.१८ ॥

充满悲伤与忧愁的众人呼出极其炽热的气息。七仙人心生恐惧,天界仙人也是如此。

14.77.19

शशं चाशु विनिर्भिद्य मण्डलं शशिनोऽपतन् ।
विपरीता दिशश्चापि सर्वा धूमाकुलास्तथा ॥ १४.७७.१९ ॥

迅速穿透月轮,兔(之标记)坠落;所有方位倒转,被烟雾笼罩。

14.77.20

रासभारुणसङ्काशा धनुष्मन्तः सविद्युतः ।
आवृत्य गगनं मेघा मुमुचुर्मांसशोणितम् ॥ १४.७७.२० ॥

如驴似红,持弓,伴有闪电,云朵遮蔽天空,倾下血肉。

14.77.21

एवमासीत्तदा वीरे शरवर्षेण संवृते ।
फल्गुने भरतश्रेष्ठ तदद्भुतमिवाभवत् ॥ १४.७७.२१ ॥

当时英雄被箭雨所覆盖,便是如此。婆罗多中的最优者、法尔古纳啊,那事变得如同奇迹一般。

14.77.22

तस्य तेनावकीर्णस्य शरजालेन सर्वतः ।
मोहात्पपात गाण्डीवमावापश्च करादपि ॥ १४.७७.२२ ॥

当他四面被箭网所困时,因迷乱,甘狄拔弓坠落,手中的握持也脱落了。

14.77.23

तस्मिन्मोहमनुप्राप्ते शरजालं महत्तदा ।
सैन्धवा मुमुचुस्तूर्णं गतसत्वे महारथे ॥ १४.७७.२३ ॥

当他陷入迷乱时,信度的战士立刻向那失去勇气的大车士倾下大箭网。

14.77.24

ततो मोहं समापन्नं ज्ञात्वा पार्थं द्विवौकसः ।
सर्वे वित्रस्तमनसस्तस्य शान्तिकृतोऽभवन् ॥ १४.७७.२४ ॥

此时,诸天神知道普利塔之子陷入迷乱,心中惊恐,便都为他做了安抚之事。

14.77.25

ततो देवर्षयः सर्वे तथा सप्तर्षयोपि च ।
ब्रह्मर्षचस्च विजयं जेपुः पार्थस्य धीमतः ॥ १४.७७.२५ ॥

于是,所有天界仙人、七位仙人以及婆罗门仙人,都为智慧的Pārtha(阿周那)的胜利低声诵念。

14.77.26

ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव ।
तस्थावचलवद्धीमान्सङ्ग्रामे परमास्त्रवित् ॥ १४.७७.२६ ॥

于是,大王啊,当天神们点燃了Pārtha的光辉时,这位智者、精通至高兵器的人在战场上如山一般屹立不动。

14.77.27

विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः ।
यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ॥ १४.७७.२७ ॥

于是,这位库罗家族的欢乐者拉开了神圣的弓,它巨大的响声一次又一次地响起,如同机械的轰鸣。

14.77.28

ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः ।
ववर्ष धनुषा पार्थो वर्षाणीव पुरंदरः ॥ १४.७७.२८ ॥

于是,这位威猛者用弓向敌人降下箭雨,如同帝释天降下大雨,阿周那便是这般降下。

14.77.29

ततस्ते सैन्धवा योधाः सर्व एव सराजकाः ।
नादृश्यन्त शरैः कीर्णाः शलभैरिव पादपाः ॥ १४.७७.२९ ॥

于是,那些信度(Sindhu)的战士们连同他们的国王,都被箭矢覆盖,不再可见,如同被蝗虫覆盖的树木。

14.77.30

तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः ।
मुमुचुस्चाश्रु शोकार्ताः शुशुचुश्चापि सैन्धवाः ॥ १४.७७.३० ॥

他的声音使他们惊恐,被恐惧折磨的他们四散逃窜;信度的百姓则被悲痛折磨,流泪哀号。

14.77.31

तांस्तु सर्वान्नरव्याघ्रः सैन्धवान्व्यचरद्बली ।
अलातचक्रवद्राजञ्शरजालैः समार्पयत् ॥ १४.७७.३१ ॥

那位勇猛如人中虎的英雄,如火轮般旋转,在所有信度人之间往来,王啊,以箭网将他们全部覆盖。

14.77.32

तदिन्द्रजालप्रतिमं बाणजालममित्रहा ।
विसृज्य दिक्षु सर्वासु महेन्द्रि इव वज्रभृत् ॥ १४.७७.३२ ॥

那位杀敌者将如幻术般的箭网射向四面八方,宛如执金刚的大因陀罗。

14.77.33

मेघजालनिभं सैन्यं विदार्य शरवृष्टिभिः ।
विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ॥ १४.७७.३३ ॥

他以箭雨劈开那如云团般的大军,俱卢中最杰出的人如秋日的太阳般光辉闪耀。