摩诃婆罗多 · 章 14.78
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.78.1
ततो गाण्डीवभृच्छूरो युद्धाय समुपस्थितः ।
विबभौ युधि दुर्धर्षो हिमवानचलो यथा ॥ १४.७८.१ ॥
此时持甘提婆弓的英雄出阵应战。他在战中不可战胜,如同巍然不动的喜马拉雅山般光辉耀眼。
14.78.2
ततस्ते सैन्धवा योधाः पुनरेव व्यवस्थिताः ।
व्यमुञ्चन्त सुसंरब्धाः शरवर्षाणि भारत ॥ १४.७८.२ ॥
于是那些信度战士重新列阵,怒火中烧,婆罗多啊,他们射出如雨的箭矢。
14.78.3
तान्प्रहस्य महाबाहुः पुनरेव व्यवस्थितान् ।
ततः प्रोवाच कौन्तेयो मुमूर्षञ्श्लक्ष्णया गिरा ॥ १४.७८.३ ॥
看到他们再次列阵,大臂的贡蒂之子笑了,然后对这些已近死亡的人,用温和的言语说道。
14.78.4
युध्यध्वं परया शक्त्या यतध्वं विजये मम ।
कुरुध्वं सर्वकार्याणि महद्वो भयमागतम् ॥ १४.७८.४ ॥
用尽你们最大的力量作战,努力战胜我,完成你们的一切事务,因为大难已经降临到你们身上。
14.78.5
एष योत्स्यामि सर्वांस्तु निवार्य शरवागुराम् ।
तिष्ठध्वं युद्धमनसो दर्पं शमयितास्मि वः ॥ १४.७८.५ ॥
我将与你们所有人交战,屹立不动地挡住箭网。你们心意在战,且站稳脚跟;我将压制你们的骄傲。
14.78.6
एतावदुक्त्वा कौरव्यो रोषाद्गाण्डीवभृत्तदा ।
ततोऽथ वचनं स्मृत्वा भ्रातुर्ज्येष्ठस्य भारत ॥ १४.७८.६ ॥
说完这些,持甘提婆弓的俱卢之子当时怒火充满;然后,婆罗多啊,他想起了长兄的话。
14.78.7
न हन्तव्या रणे तात क्षत्रिया विजिगीषवः ।
जेतव्याश्चेति यत्प्रोक्तं धर्मराज्ञा महात्मना।
चिन्तयामास स तदा फल्गुनः पुरुषर्षभः ॥ १४.७८.७ ॥
亲爱的,在战斗中求胜的刹帝利不应被杀,而应被征服,伟大的法王如此说。那时,人中雄牛法尔古那(阿周那)思索起来。
14.78.8
इत्युक्तोऽहं नरेन्द्रेण न हन्तव्या नृपा इति ।
कथितं न मृषेदं स्याद्धर्मराजवचः शुभम् ॥ १४.७८.८ ॥
人主如此对我说:国王不应被杀。此言不应虚假;法王的吉祥之言必须成立。
14.78.9
न हन्येरंश्च राजानो राज्ञश्चाज्ञा कृता भवेत् ।
इति सञ्चिन्त्य स तदा फल्गुनः पुरुषर्षभः ॥ १४.७८.९ ॥
不应杀害国王,国王的命令必须执行。如此思量之后,人中雄牛法尔古那(阿周那)便下定了决心。
14.78.10
प्रोवाच वाक्यं धर्मज्ञः सैन्धवान्युद्धदुर्मदान् ।
बालांस्त्रियो वा युष्माकं न हनिष्ये व्यवस्थितान् ॥ १४.७८.१० ॥
精通法之人对战场上骄横的信度战士说:站立的你们的孩子或妇女,我不会杀害。
14.78.11
यश्च वक्ष्यति सङ्ग्रामे तवास्मीति पराजितः ।
एतच्छ्रुत्वा वचो मह्यं कुरुध्वं हितमात्मनः ॥ १४.७८.११ ॥
凡在战中战败而说“我是你的”者,将得以免死。听闻我这番话,你们应为自己谋求利益。
14.78.12
ततोऽन्यथा कृच्छ्रगता भविष्यथ मयाऽर्दिताः ।
एवमुक्त्वा तु तान्वीरान्युयुधे कुरुपुङ्गवः ॥ १४.७८.१२ ॥
否则,你们将被我所困,陷入危难。如此对那些英雄说完,库鲁之牛便投入了战斗。
14.78.13
अत्वरावानसम्भ्रान्तः संक्रुद्धैर्विजिगीषुभिः ।
शतं शतसहस्राणि शराणां नतपर्वणाम् ॥ १४.७८.१३ ॥
他不慌不忙、毫无惊乱,向愤怒而渴望胜利的战士射出数以十万计的百箭,箭杆弯曲有节。
14.78.14
मुमुचुः सैन्धवा राजंस्तदा गाण्डीवधन्वनि ।
शरानापततः क्रूरानाशीविषविषोपमान्।
चिच्छेद निशितैर्बाणैरन्तरा स धनंजयः ॥ १४.७८.१४ ॥
大王啊,那时信度人向持甘提弓者射出如蛇毒般残酷的箭;然而持财者(阿周那)以锐利的箭在半空将其斩断。
14.78.15
छित्त्वा तु तानाशु चैव कङ्कपत्राञ्शिलाशितान् ।
एकैकमेषां समरे बिभेद निशितैः शरैः ॥ १४.७८.१५ ॥
他迅速斩断它们,然后在战斗中以饰有鹭羽、在石上磨砺的箭,逐一射穿了他们每一人。
14.78.16
ततः प्रास्रांश्च शक्तीस्च पुनरेव धनंजये ।
जयद्रथं हतं स्मृत्वा चिक्षिपुः सैन्धवा नृपाः ॥ १४.७८.१६ ॥
于是信度诸王想起胜车已被杀,便再次向持财者掷出长矛与投枪。
14.78.17
तेषां किरीटी सङ्कल्पं मोघं चक्रे महाबलः ।
सर्वांस्तानन्तरा च्छित्त्वा तदा चुक्रोश पाण्डवः।
तथैवापततां तेषां योधानां जयगृद्धिनाम्। ॥ १४.७८.१७ ॥
大力的基利提使他们的誓愿落空;他在半空中将他们全部斩断,那时般度之子高声呼喊;对那些贪求胜利而冲来的战士,也是如此。
14.78.18
तथैवापततां तेषां योधानां यजगृद्धिनाम् ।
शिरांसि पातयामास भल्लैः सन्नतपर्वभिः ॥ १४.७८.१८ ॥
同样,他用节部弯曲的宽头箭(薄箭),把那些贪求胜利、冲上前来的战士的头颅一一射落。
14.78.19
तेषां प्रद्रवतां चापि पुनरेवाभिधावताम् ।
निवर्ततां च शब्दोऽभूत्पूर्णस्येव महोदधेः ॥ १४.७८.१९ ॥
逃跑者、再次冲来者和折返者的喧声响起,如同充盈的大海在咆哮。
14.78.20
ते वध्यमानास्तु तदा पार्थेनामिततेजसा ।
यथाप्राणं यथोत्साहं योधयामासुरर्जुनम् ॥ १४.७८.२० ॥
那时,他们被无量光辉的普利塔之子击杀,却仍只要尚有生命与勇气,便与阿周那搏斗。
14.78.21
ततस्ते फल्गुनेनाजौ शरैः सन्नतपर्वभिः ।
कृता विसंज्ञा भूयिष्ठा क्लान्तवाहनसैनिकाः ॥ १४.७८.२१ ॥
于是,法尔古那以关节弯曲的箭在战斗中使他们大多昏迷;他们的坐骑与士兵也都疲惫不堪。
14.78.22
तांस्तु सर्वान्परिग्लानान्विदित्वा धृतराष्ट्रजा ।
दुःशला बालमादाय नप्तारं प्रययौ तदा ॥ १४.७८.२२ ॥
得知他们都已筋疲力尽,持国王之女难近便带着年幼的孙子动身了。
14.78.23
सुरथस्य सुतं वीरं रथेनाथागमत्तदा ।
शान्त्यर्थं सर्वयोधानामभ्यगच्छत पाण्डवम् ॥ १४.७८.२३ ॥
于是她乘车带着苏罗陀的英勇之子前来,为了所有战士的和平而走近了般度之子。
14.78.24
सा धनंजयमासाद्य रुरोदार्तस्वरं तदा ।
धनंजयोपि तां दृष्ट्वा धनुर्विससृजे प्रभुः ॥ १४.७८.२४ ॥
她走近德汉伽耶,便以悲痛的声音哭泣;德汉伽耶见到她,这位强者便放下了弓。
14.78.25
समुत्सृज्य धनुः पार्थो विधिवद्भगिनी तदा ।
प्राह किं करवाणीति सा च तं प्रत्युवाच ह ॥ १४.७८.२५ ॥
普利塔之子(阿周那)放下弓,依礼向妹妹问道:“我该怎么做?”她便回答了他。
14.78.26
एष ते भरतश्रेष्ठ स्वस्रीयस्यात्मजः शिशुः ।
अभिवादयते पार्थ तं पश्य पुरुषर्षभ ॥ १४.७८.२६ ॥
婆罗多族中最优秀的人,这是你外甥之子的孩子,他正恭敬地向你致礼。普利塔之子,人中雄牛,看看他吧。
14.78.27
इत्युक्तस्तस्य पितरं स पप्रच्छार्जुनस्तथा ।
क्वासाविति ततो राजन्दुःशला वाक्यमब्रवीत् ॥ १४.७८.२७ ॥
阿周那听罢,问起那孩子的父亲:“他在哪里?”于是,大王啊,杜尚罗说了这番话。
14.78.28
पितृशोकाभिसंतप्तो विषादार्तोऽस्य वै पिता ।
पञ्चत्वमगमद्वीरो यथा तन्मे निशामय ॥ १४.७८.२८ ॥
他那英勇的父亲因悲痛于其父而备受煎熬,又为绝望所折磨,终于离世。请听我讲述经过。
14.78.29
स पूर्वं पितरं श्रुत्वा हतं युद्धे त्वयाऽनघ ।
त्वामागतं च संश्रुत्य युद्धाय हयसारिणम्।
पितुश्च मृत्युदुःखार्तोऽजहात्प्राणान्धनंजय ॥ १४.७८.२९ ॥
无罪的财富征服者啊,他先听说父亲在战斗中被你杀死,后又听说你作为马车夫前来交战。他因父亲之死而悲痛欲绝,于是舍弃了生命之气。
14.78.30
प्राप्तो बीभत्सुरित्येव नाम श्रुत्वैव तेऽनघ ।
विषादार्तः पपातोर्व्यां ममार च ममात्मजः ॥ १४.७८.३० ॥
无罪者啊,他一听到“比跋窣已经到来”这个名字,便因绝望而倒在地上死去。他是我的儿子。
14.78.31
तं दृष्ट्वा पतितं तत्र ततस्तस्यात्मजं प्रभो ।
गृहीत्वा समनुप्राप्ता त्वामद्य शरणैपिणी ॥ १४.७८.३१ ॥
她看见他倒在那里,啊主人,便抱起他的儿子,今天前来寻求你的庇护。
14.78.32
इत्युक्त्वाऽऽर्तस्वरं सा तु मुमोच धृतराष्ट्रजा ।
दीना दीनं स्थितं पार्थमब्रवीच्चाप्यधोमुखम् ॥ १४.७८.३२ ॥
说完这些,持国之女发出悲痛的哭喊,她满怀哀伤,对低头站立的般度之子(阿周那)说话。
14.78.33
स्वसारं समवेक्षस्व स्वस्रीयात्मजमेव च ।
कर्तुमर्हसि धर्मज्ञ दयां कुरुकुलोद्वह।
विस्मृत्य कुरुराजानं तं च मन्दं जयद्रथम् ॥ १४.७८.३३ ॥
请怜悯地看看你的姐妹和她的儿子。啊,精通法的人,库鲁族的支柱,你应当发慈悲,忘掉库鲁王和那个愚蠢的jayadratha。
14.78.34
अभिमन्योर्यथा जातः परिक्षित्परवीरहा ।
तथाऽयं सुरथाज्जातो मम पौत्रो महाभुज ॥ १४.७८.३४ ॥
正如杀死敌方英雄的阿毗曼纽之子波利克希特(Parikṣit)是从阿毗曼纽所生,这一位则是从苏罗陀所生——我的孙子,啊大臂者。
14.78.35
तमादाय नरव्याघ्र सम्प्रप्तास्मि तवान्तिकम् ।
शमार्थं सर्वयोधानां शृणु चेदं वचो मम ॥ १४.७८.३५ ॥
啊人中之虎,我带着他来到你面前。为了所有战士的和平,请听我这番话。
14.78.36
आगतोऽयं महाबाहो तस्य मन्दस्य पुत्रकः ।
प्रसादमस्य बालस्य तस्मात्त्वं कर्तुमर्हसि ॥ १४.७८.३६ ॥
啊大臂者,那个愚蠢之人的儿子来了。因此,你应当对这孩子施以恩惠。
14.78.37
एष प्रसाद्य शिरसा प्रशमार्थमरिंदम ।
याचते त्वां महाबाहो शमं गच्छ धनंजय ॥ १४.७८.३७ ॥
他低首向你求和,恳请你息怒。降敌者、大臂的财征啊,平息吧。
14.78.38
बालस्य हतबन्धोश्च पार्थ किञ्चिदजानतः ।
प्रसादं कुरु धर्मज्ञ मा मन्युवशमन्वगाः ॥ १४.७८.३८ ॥
此童子亲族被杀,于事懵然无知。普利塔之子、通达法者啊,请施恩宽恕,莫被愤怒所controlled。
14.78.39
तमनार्थं नृशंसं च विस्मृत्यास्य पितामहम् ।
आगस्कारिणमत्यर्तं प्रसादं कर्तुमर्हसि ॥ १४.७८.३९ ॥
忘却那残暴无义之人,念及其祖父,你理应施恩于此重大的过犯者。
14.78.40
एवं ब्रुवत्यां करुणं दुःशलायां धनंजयः ।
संस्मृत्य देवीं गान्धारीं धृतराष्ट्रं च पार्थिवम्।
उवाच दुःखशोकार्तः क्षत्रधर्मं व्यगर्हयत् ॥ १४.७८.४० ॥
杜沙拉如此悲切地说话时,财征想起了王后甘陀利与国王持国。他悲痛忧伤,便指责了刹帝利的本分。
14.78.41
धिक्तं दुर्योधनं क्षुद्रं राज्यलुब्धं च मानिनम् ।
यत्कृते बान्धवाः सर्वे मया नीता यमक्षयम् ॥ १४.७८.४१ ॥
可耻啊,那卑劣、贪恋王位而骄傲的难敌!因他之故,我把所有亲族都送往阎摩之境了。
14.78.42
इत्युक्त्वा बहु सान्त्वादि प्रसादमकरोज्जयः ।
परिष्वज्य च तां प्रीतो विससर्ज गृहान्प्रति ॥ १४.७८.४२ ॥
胜利者(阿周那)如此说了,以许多安慰之语使她平息;随后拥抱她,心中欢喜,送她回家去了。
14.78.43
दुःशला चापि तान्योधान्निवार्य महतो रणात् ।
सम्पूज्य पार्थं प्रययौ गृहानेव शुभानना ॥ १४.७८.४३ ॥
杜沙拉也制止了那些战士脱离那场大战,敬礼般对待阿周那后,面容姣好地回家去了。
14.78.44
एवं निर्जित्य तान्वीरान्सैन्धवान्स धनंजयः ।
अन्वधावत धावन्तं हयं कामविचारिणम् ॥ १४.७८.४४ ॥
如此战胜那些信度英雄之后,财征(阿周那)追逐那匹随意奔跑的马。
14.78.45
ततो मृगमिवाकाशे यथा देवः पिनाकधृक् ।
ससार तं तथा वीरो विधिवद्यज्ञियं हयम् ॥ १४.७८.४५ ॥
于是,如持皮那卡弓的天神在空中追逐鹿一般,那位英雄依照仪轨追逐那匹适合祭祀的马。
14.78.46
स च वाजी यथेष्टेन तांस्तान्देशान्यथाक्रमम् ।
विचचार यथाकामं कर्म पार्थस्य वर्धयन् ॥ १४.७८.४६ ॥
那匹马随意依次游行于各个国土,增添了阿周那的功业。
14.78.47
क्रमेण स हयस्त्वेवं विचरन्पुरुषर्षभ ।
मणलूरपतेर्देशमुपायात्सहपाण्डवः ॥ १४.७८.४७ ॥
人中雄牛啊!那匹马如此依次游行,与般度之子一同来到了摩那卢罗王的国土。