Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.79

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.79.1

श्रुत्वा तु नृपतिः प्राप्तं पितरं बभ्रुवाहनः ।
निर्ययौ विनयेनाथ ब्राह्मणार्यपुरःसरः ॥ १४.७९.१ ॥

国王巴布鲁瓦诃那听说父亲到来,便谦恭地出迎,让婆罗门和贵族走在前面。

14.79.2

मणलूरेश्वरं त्वेवमुपयातं धनंजयः ।
नाभ्यनन्दत्स मेधावी क्षत्रधर्ममनुस्मरन् ॥ १४.७९.२ ॥

智者达难惹耶见摩那卢罗之主如此前来,念及刹帝利之法,便没有欢迎他。

14.79.3

उवाच च स धर्मात्मा समन्युः फल्गुनस्तदा ।
प्रक्रियेयं न ते युक्ता बहिस्त्वं क्षत्रधर्मतः ॥ १४.७९.३ ॥

于是正义的法尔古那愤怒地说道:“这种做法对你并不合适;依刹帝利之法,你该站在外面。”

14.79.4

संरक्ष्यमाणं तुरगं यौधिष्ठिरमुपागतम् ।
यज्ञियं विषयान्ते मां नायोत्सीः किंनु पुत्रक ॥ १४.७९.४ ॥

“我的儿子,当坚战的祭马被守护着来到你王国的边境时,你为何不与我交战?”

14.79.5

धिक्त्वामस्तु सुदुर्बुद्धिं क्षत्रधर्माविशारदम् ।
यो मां युद्धाय सम्प्राप्तं साम्नैव प्रत्यगृह्णथाः ॥ १४.७९.५ ॥

“真可耻啊,你这极其愚蠢、不通刹帝利之法的人!我为战斗而来,你却只用和解之道接待了我!”

14.79.6

न त्वया पुरुषार्थो हि कश्चिदस्तीह जीवता ।
यस्त्वं स्त्रीवद्युधा प्राप्तं मां साम्ना प्रत्यगृह्णथाः ॥ १४.७९.६ ॥

“你活着,却在这里没有建立任何男子汉的功业,因为你像对待女人一样,用和解之道接待了为战斗而来的我。”

14.79.7

यद्यहं न्यस्तशस्त्रस्त्वामागच्छेयं सुदुर्मते ।
प्रक्रियेयं भवेद्युक्ता तावतव नराधम ॥ १४.७९.७ ॥

若我放下兵器来到你面前,愚昧之人啊,这样的做法本是恰当的;卑劣的人啊,仅此便已足够。

14.79.8

तमेवमुक्तं भर्त्रा तु विदित्वा पन्नगात्मजा ।
अमृष्यमाणा भित्त्वोर्वीमुलूपी समुपागमत् ॥ १४.७९.८ ॥

蛇女得知丈夫如此说,忍受不了,便破土而出,乌卢比来到了地面。

14.79.9

सा ददर्श तत पुत्रं विमृशन्तमधोमुखम् ।
संतर्ज्यमानमसकृत्पित्रा युद्धार्थिना विभो ॥ १४.७९.९ ॥

她在那里看见儿子低头沉思,被渴望战斗的父亲屡次斥责,啊,伟大的人。

14.79.10

ततः सा चारुसर्वाङ्गी समुपेत्योरगात्मजा ।
उलूपी प्राह वचनं क्षत्रधर्मविशारद ॥ १४.७९.१० ॥

于是,身姿全美的蛇女走近前来,说道:啊,精通刹帝利法的人。

14.79.11

उलूपीं मां निबोध त्वं मातरं पन्नगात्मजाम् ।
कुरुष्व वचनं पुत्र धर्मस्ते भविता परः ॥ १४.७९.११ ॥

请认我为乌卢比,你的母亲,蛇女。啊,儿子,听从我的话;这将是你最高的法。

14.79.12

युध्यस्वैनं कुरुश्रेष्ठं धनंजयमरिन्दमम् ।
एवमेष हि ते प्रीतो भविष्यति न संशयः ॥ १४.७९.१२ ॥

与库鲁之最、降伏敌人的财富征服者(阿周那)作战吧;这样他必会喜悦于你,毫无疑问。

14.79.13

एवमुद्धार्षितो राजा स मात्रा बभ्रुवाहनः ।
मनश्चक्रे महातेजा युद्धाय भरतर्षभ ॥ १४.७९.१३ ॥

被母亲如此激励后,大光明的国王巴布鲁婆诃那,婆罗多族的雄牛啊,决意开战。

14.79.14

सन्नह्य काञ्चनं वर्म शिरस्त्राणं च भानुमत् ।
तूणीरशतसंबाधमारुरोह रथोत्तमम् ॥ १४.७९.१४ ॥

身披金甲,头戴闪耀的头盔,他登上了装满数百个箭囊的最好战车。

14.79.15

सर्वोपकरणोपेतं युक्तमश्वैर्मनोजवैः ।
सचक्रोपस्करं श्रीमान्हेमभाण्डपरिष्कृतम् ॥ १४.७९.१५ ॥

装备齐全,套上快如思想的骏马,车轮与饰件俱全,并以金器装饰,那辆光彩夺目的战车。

14.79.16

परमार्चितमुच्छ्रित्य ध्वजं हंसं हिरण्मयम् ।
प्रययौ पार्थमुद्दिश्य स राजा बभ्रुवाहनः ॥ १४.७९.१६ ॥

高高举起金色天鹅旗,备受尊崇的国王巴布鲁婆诃那,朝着Pārtha出发了。

14.79.17

ततोऽभ्योत्य हयं वीरो यज्ञियं पार्थरक्षितम् ।
ग्राहयामास पुरुषैर्हयशिक्षाविशारदैः ॥ १४.७९.१७ ॥

于是英雄走近由Pārtha守护的祭马,让精通驯马之术的人将它捉住。

14.79.18

गृहीतं वाजिनं दृष्ट्वा प्रीतात्मा स धनंजयः ।
पुत्रं रथस्थं भूमिष्ठः संन्यवारयदाहवे ॥ १४.७९.१८ ॥

看见祭马被捉,心中欢喜的Dhanaṃjaya站在地上,在战斗中拦住了站在战车上的儿子。

14.79.19

स तत्र राजा तं वीरं शरसङ्घैरनेकशः ।
अर्दयामास निशितैराशीविषविषोपमैः ॥ १४.७९.१९ ॥

那里,国王以如毒蛇之毒般锋利的箭群多次击伤那位英雄。

14.79.20

तयोः समभवद्युद्धं पितुः पुत्रस्यक चातुलम् ।
देवासुररणप्रख्यमुभयोः प्रीयमाणयोः ॥ १४.७९.२० ॥

两人之间爆发了父子之间无与伦比的战斗,如同天神与阿修罗的战斗,二人都欢喜不已。

14.79.21

किरीटिनं प्रविव्याघ शरेणानतपर्वणा ।
जत्रुदेशे नरव्याघ्रं प्रहसन्बभ्रुवाहनः ॥ १४.७९.२१ ॥

巴布鲁瓦诃那笑着,用一支弯曲节羽的箭射中了那位戴冠的人中猛虎的锁骨处。

14.79.22

सोभ्यगात्सहपुङ्खेन वल्मीकमिव पन्नगः ।
विनिर्भद्य च कौन्तेयं प्रविवेशि महीतलम् ॥ १४.७९.२२ ॥

那支箭如蛇入蚁穴,连同羽翎穿透了贡蒂之子,并没入大地表面。

14.79.23

स गाढवेदनो धीमानालम्ब्य धनुरुत्तमम् ।
दिव्यं तेजः समाविश्य प्रमीत इव सोभवत् ॥ १४.७९.२३ ॥

那位智者痛苦万分,握住他的良弓,沉入神圣的光辉之中,仿佛死去一般。

14.79.24

स संज्ञामुपलभ्याथ प्रशस्य पुरुषर्षभः ।
पुत्रं शक्रात्मजो वाक्यमिदमाह महाद्युतिः ॥ १४.७९.२४ ॥

随后恢复知觉,那位人中雄牛、因陀罗之子、大光明者赞扬了他的儿子,并说出了这些话。

14.79.25

साधुसाधु महाबाहो वत्स चित्राङ्गदात्मज ।
सदृशं कर्म ते दृष्ट्वा प्रीतिमानस्मि पुत्रक ॥ १४.७९.२५ ॥

好啊,好啊!大臂者,亲爱的孩子,支多王之子,见你所为相称,我甚欢喜,我的儿子。

14.79.26

विमुञ्चाम्येष ते बाणान्पुत्र युद्धे स्थिरो भव ।
इत्येवमुक्त्वा नाराचैरभ्यवर्षदमित्रहा ॥ १४.७९.२६ ॥

我现在向你射出这些箭,我的儿子;在战斗中要坚定。说完,这位杀敌者便降下铁箭如雨。

14.79.27

तान्स गाण्डीवनिर्मुक्तान्वज्राशनिसमप्रभान् ।
नाराचानच्छिनद्राज भल्लैः सर्वांस्त्रिधा द्विधा ॥ १४.७९.२७ ॥

那些从甘狄拔弓射出、如霹雳闪电般明亮的铁箭,他以新月箭将它们全部斩断,或断为三段,或断为两段,大王。

14.79.28

तस्य पार्थः शरैर्दिव्यैर्ध्वजं हेमपरिष्कृतम् ।
सुवर्णतालप्रतिमं क्षुरेणापाहरद्रथात् ॥ १४.७९.२८ ॥

般度之子以神箭,用一支剃刀形箭,将他那饰以黄金、形如金棕榈的旗帜从战车上射落。

14.79.29

हयांश्चास्य महाकायान्महावेगानरिंदम ।
चकार राजन्निर्जावान्प्रहसन्निव पाण्डवः ॥ १४.७९.२९ ॥

降敌者啊,大王,般度之子仿佛含笑般,使他那高大迅疾的马匹都失去了生命。

14.79.30

स रथादवतीर्याथ राजा परमकोपनः ।
पदातिः पितरं क्रुद्धो योधयामास पाण्डवम् ॥ १४.७९.३० ॥

于是那位国王极为愤怒,下了战车,徒步而战,愤怒地与他的父亲、那位般度之子交战。

14.79.31

सम्प्रीयमाणः पार्थानामृषभः पुत्रविक्रमात् ।
नात्यर्थं पीडयामास पुत्रं वज्रधरात्मजः ॥ १४.७९.३१ ॥

因儿子的勇武而极为欢喜,持金刚者之子,这位帕尔塔中的雄牛,并未过分折磨这个儿子。

14.79.32

स हन्यमानोऽभिमुखं पितरं बभ्रुवाहनः ।
शरैराशीविषाकारैः पुनरेवार्दयद्बली ॥ १४.७९.३२ ॥

巴布鲁瓦诃那被父亲迎面击中,便又以如毒蛇般的箭矢,凭其强力再次折磨父亲。

14.79.33

ततः स बाल्यात्पितरं विव्याध हृदि पत्रिणा ।
निशेतेन सुपुङ्खेन बलवद्बभ्रुवाहनः ॥ १४.७९.३३ ॥

于是,巴布鲁瓦诃那出于年少,以一支锋利、羽翎精美的箭,猛然射穿了父亲的心。

14.79.34

स बाणस्तेजसा दीप्तो ज्वलन्निव हुताशनः ।
विवेश पाण्डवं राजन्मर्म भित्त्वाऽतिदुःखकृत् ॥ १४.७९.३४ ॥

那支箭如燃烧的火焰般闪耀,哦国王,它穿透了般度之子的要害,深入其中,造成极大的痛苦。

14.79.35

स तेनातिभृशं विद्धः पुत्रेण कुरुनन्दनः ।
महीं जगाम मोहार्तस्ततो राजन्धनंजयः ॥ १४.७९.३५ ॥

被那个儿子重重射伤的库鲁之喜悦者财主,因昏迷而痛苦,哦国王,倒在了地上。

14.79.36

तस्मिन्निपतिते वीरे कौरवाणां धुरंधरे ।
सोपि मोहं जगामाथ ततश्चित्राङ्गदासुतः।ष ॥ १४.७९.३६ ॥

当那位库拉瓦的英雄支柱倒下时,奇兰伽达之子也昏迷了过去。

14.79.37

व्यायम्य संयुगे राजा दृष्ट्वा च पितरं हतम् ।
पूर्वमेव स बाणौर्घर्गाढविद्धोऽर्जुनेन ह।
पपात सोपि धरणीमालिङ्ग्य रणमूर्धनि ॥ १४.७९.३७ ॥

国王在战斗中奋力作战,看见父亲已被杀死。他也早已被阿周那的箭重重刺穿,于战场前沿倒下,拥抱着大地。

14.79.38

भर्तारं निहतं दृष्ट्वा पुत्रं च पतितं भुवि ।
चित्राङ्गदा परित्रस्ता प्रविवेश रणाजिरे ॥ १४.७९.३८ ॥

奇特朗伽达见丈夫被杀、儿子倒在地上,惊恐万分,走进了战场。

14.79.39

शोकसंतप्तहृदया रुदती वेपती भृशम्। ॥ १४.७९.३९ ॥

心被悲痛煎熬,哭泣着,浑身剧烈颤抖。

14.79.40

मणलूरपतेर्माता ददर्श निहतं पतिम् ॥ १४.७९.४० ॥

摩那卢罗之主的母亲看见了被杀的丈夫。