摩诃婆罗多 · 章 14.80
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.80.1
ततो बहुतरं भीरर्विलप्य कमलेक्षणा ।
मुमोह दुःखसंतप्ता पपात च महीतले ॥ १४.८०.१ ॥
于是她大声哀哭,这位莲花眼的女子被悲痛折磨,昏厥过去,倒在地上。
14.80.2
प्रतिलभ्य च सा संज्ञां देवी दिव्यवपुर्धरा ।
उलूपीं पन्नगसुतां दृष्ट्वेदं वाक्यमब्रवीत् ॥ १४.८०.२ ॥
她恢复神智,这位身具神圣形体的女神看见蛇女乌卢皮,便说出了这番话。
14.80.3
उलूपि पश्य भर्तारं शयानं नितं रणे ।
त्वत्कृते मम पुत्रेण बाणेन समितिंजयम् ॥ १४.८०.३ ॥
乌卢皮啊,看你的丈夫倒卧在战场上被杀。因为你的缘故,他被我儿子的箭射中,这位战场上的胜利者倒下了。
14.80.4
ननु त्वमार्यधर्मज्ञा ननु चासि पतिव्रता ।
यत्त्वत्कृतेऽयं पतितः पतिस्ते निहतो रणे ॥ १४.८०.४ ॥
你难道不懂高贵者的达磨吗?你难道不是忠于丈夫的妇人吗?正因你的缘故,他倒下了;你的丈夫在战场上被杀。
14.80.5
किंनु मन्देऽपकराद्धोऽयं यदि तेऽद्य धनंजयः ।
क्षमस्व याच्यमाना वै जीवयस्व धनंजयम् ॥ १४.८०.५ ॥
愚蠢的女子啊,如果今天财主(阿周那)对你有过什么冒犯,请宽恕他;在恳求之下,让财主复活吧。
14.80.6
ननु त्वमार्ये धर्मज्ञे त्रैलोक्यविदिता शुभे ।
यद्धातयित्वा पुत्रेण भर्तारं नानुशोचसि ॥ १४.८०.६ ॥
高贵的女子啊,知晓达磨、名闻三界的吉祥者,你难道不为令你的儿子杀死丈夫而悲伤吗?
14.80.7
नाहं शोचामि तनयं हतं पन्नगनन्दिनि ।
पतिमेव तु शोचामि यस्यातिथ्यमिदं कृतम् ॥ १४.८०.७ ॥
蛇王之女啊,我不为被杀的儿子悲伤;我悲伤的是接受了这份款待的丈夫。
14.80.8
इत्युक्त्वा सा तदा देवीमुलूपीं पन्नगात्मजाम् ।
भर्तारमभिगम्येदमित्युवाच यशस्विनी ॥ १४.८०.८ ॥
她对蛇女神乌卢比说完这番话后,这位荣耀的女子走向丈夫,说了这些话。
14.80.9
उत्तिष्ठ कुरुमुख्यस्य प्रियमुख्य मम प्रिय ।
अयमश्वो महाबाहो मयो ते परिमोक्षितः ॥ १४.८०.९ ॥
起来吧,库鲁群英之首所钟爱的人,我的爱人!大臂者啊,这匹马已被你解救。
14.80.10
ननु त्वया नाम विभो धर्मराजस्य यज्ञियः ।
अयमश्वोऽनुसर्तव्यः स शेषे किं महीतले ॥ १४.८०.१० ॥
啊,强大者,这不正是法王的祭马吗?你本应跟随它。它为何躺在地上?
14.80.11
त्वयि प्राणा ममायत्ताः कुरूणां कुरुनन्दन ।
स कस्मात्प्राणदोऽन्येषां प्राणान्संत्यक्तवानसि ॥ १४.८०.११ ॥
库鲁之喜乐啊,我的生命与库鲁人的生命都系于你。你既能赐予他人生命,为何却舍弃了生命?
14.80.12
उलूपि साधु पश्येमं पतिं निपतितं भुवि ।
पुत्रं चेमं समुत्साद्य घातयित्वा न शोचसि ॥ १४.८०.१२ ॥
乌卢比啊,好好看看你那倒卧在地上的丈夫吧。你让这个儿子被杀,却不悲伤。
14.80.13
कामं स्वपितु बालोऽयं भूमौ मृत्युवशं गतः ।
लोहिताक्षो गुडाकेशो विजयः साधु जीवतु ॥ १४.८०.१३ ॥
任这孩子倒在地上,落入死亡之手吧。愿红眼、卷发的胜利者(阿周那)好好活着。
14.80.14
नापराधोऽस्ति सुभगे नराणां बहुभार्यता ।
प्रमदानां भवत्येष मा ते भूद्बुद्धिरीदृशी ॥ १४.८०.१४ ॥
男子多妻并非过错,善良的女子啊,这是女子的常理。愿你的心不要如此。
14.80.15
सख्यं चैतत्कृतं धात्रा शश्वदव्ययमेव तु ।
सख्यं समभिजानीहि सत्यं सङ्गतमस्तु ते ॥ १४.८०.१५ ॥
这份友谊乃造物主所立,永恒而不灭。请深知这份友谊;愿你的结合是真实的。
14.80.16
पुत्रेम घातयित्वैनं पतिं यदि न मेऽद्य वै ।
जीवन्तं दर्शयस्यद्य परित्यक्ष्यामि जीवितम् ॥ १४.८०.१६ ॥
若你不能让你的儿子杀死我的丈夫后,今天就让他重新活着出现在我面前,我今天就舍弃生命。
14.80.17
साऽहं दुःखान्विता देवि पतिपुत्रविनाकृता ।
इहैव प्रायमाशिष्ये प्रेक्षन्त्यास्ते न संशयः ॥ १४.८०.१७ ॥
女神啊,我满怀悲痛,失去了丈夫与儿子,就在这里绝食而卧,你看着便是——对此毫无疑问。
14.80.18
इत्युक्त्वा पन्नगसुतां सपत्नी चैत्रवाहनी ।
ततः प्रायमुपासीना तूष्णीमासीज्जनाधिप ॥ १४.८०.१८ ॥
说完这话,作为对手的妻子、赤婆诃那之女(citrāṅgadā)对蛇女说;随后,人主啊,她坐下绝食,默然不语。
14.80.19
ततो विलप्य विरता भर्तुः पादौ प्रगृह्य सा ।
उपविष्टा भवद्दीना सोच्छ्वासं पुत्रमीक्षती ॥ १४.८०.१९ ॥
随后她哀哭已毕,握住丈夫的双脚。她悲伤地坐下,叹息着望着儿子。
14.80.20
ततः संज्ञां पुनर्लब्ध्वा स राजा बभ्रुवाहनः ।
मातरं तामथालोक्य रणभूमावथाब्रवीत् ॥ १४.८०.२० ॥
随后,国王巴布鲁跋诃那再次恢复知觉,在战场上看见母亲,便开口说道。
14.80.21
इतो दुःखतरं किंनु यन्मे माता सुखैधिता ।
भूमौ निपतितं वीरमनुशेते मृतं पतिम् ॥ १४.८०.२१ ॥
还有什么比这更痛苦?我的母亲自幼享受安乐,如今却躺在她那倒地而死的英雄丈夫身旁。
14.80.22
निहन्तारं रणेऽरीणां सर्वशस्त्रभृतां वरम् ।
मया विनिहतं सङ्ख्ये प्रेक्षते दुर्मरं बत ॥ १४.८०.२२ ॥
她凝视着他——那在战场上击杀敌人、是持械者中最杰出的人,那位被我在战斗中击倒、死得如此痛苦的人。唉!
14.80.23
अहोऽस्या हृदयं देव्या दृढं यन्न विदीर्यते ।
व्यूढोरस्कं महाबाहुं प्रेक्षन्त्या निहतं पतिम् ॥ १४.८०.२३ ॥
啊!这位王后的心多么坚硬,眼看着宽胸大臂的丈夫被杀,竟不破碎!
14.80.24
दुर्मरं पुरुषेणेह मन्ये काले ह्यनागते ।
यत्र नाहं न मे माता न वियुक्तौ स्वजीवितात् ॥ १४.८०.२४ ॥
我想,在这里,人会在未到的时候遭遇惨死,而我和母亲却未与自己的生命分离。
14.80.25
हाहा धिक्कुरुवीरस्य किरीटं काञ्चनं भुवि ।
अपविद्धं हतस्येह मया पुत्रेम पश्यत ॥ १४.८०.२५ ॥
唉,可耻!库鲁英雄的金冠被弃置于地上。请看这里被杀的人,被我——他的儿子——所杀。
14.80.26
भोभो पश्यत मे वीरं पितरं ब्राह्मणा भुवि ।
शयानं वीरशयने मया पुत्रेण पातितम् ॥ १४.८०.२६ ॥
哦,哦,婆罗门们!请看我的英雄父亲,躺在英雄之榻上,倒在地上,被我——他的儿子——击倒。
14.80.27
ब्राह्मणाः कुरुमुख्यस्य ये मुक्ता हयसारिणः ।
कुर्वन्ति शान्तिं कामस्य रणे योऽयं मया हतः ॥ १४.८०.२७ ॥
婆罗门们,愿那些被释放的库鲁首领的马夫为这被我在战场上所杀的欲望之化身行安息之仪式。
14.80.28
व्यादिशन्तु च किं विप्राः प्रायश्चित्तमिहाद्य मे ।
आनृशंसस्य पापस्य पितृहन्तू रणाजिरे ॥ १४.८०.२८ ॥
婆罗门们,今日在此,对我——这非残忍却有罪的、在战场上杀父之人——你们将规定什么赎罪之法?
14.80.29
दुश्चरा द्वादश समा हत्वा पितरमद्य वै ।
ममेह सुनृशंसस्य संवीतस्यास्य चर्मणा ॥ १४.८०.२९ ॥
对我这弑父之人,应定十二年的艰苦誓愿。此刻我这极其残忍之人,裹着他的皮。
14.80.30
शिरःकपाले चास्यैव भुञ्जतः पितुरद्य मे ।
प्रायश्चित्तं हि नास्त्यन्यद्धत्वाऽद्य पितरं मम ॥ १४.८०.३० ॥
在他的颅碗之中,吃着我父亲的头骨,今日对我而言别无赎罪之法,因为我杀了父亲。
14.80.31
पश्य नागोत्तमसुते भर्तारं निहतं मया ।
कृतं प्रियं मया तेऽद्य निहत्य समरेऽर्जुनम् ॥ १४.८०.३१ ॥
看啊,蛇王之最的女儿,我已杀了你的丈夫。今日我在战场上杀死阿周那,为你做了一件喜事。
14.80.32
सोऽहमद्य गमिष्यामि गतिं पितृनिषेविताम् ।
न शक्नोम्यात्मनाऽऽत्मानमहं दारयितुं शुभे ॥ १४.८०.३२ ॥
因此我今日将走向祖先所行之道。吉祥的女子啊,我无法自己剖开自己。
14.80.33
सा त्वं मयि मृते मातस्तथा गाण्डीवधन्वनि ।
भव प्रीतिमती देवि सत्येनात्मानमालभे ॥ १४.८०.३३ ॥
母亲啊,待我死后,持甘狄拔神弓的阿周那死后,你也要保持欢喜。女神啊,我以真理立誓。
14.80.34
इत्युक्त्वा स ततो राजा दुःखशोकसमाहतः ।
उपस्पृश्य महाराज दुःखाद्वचनमब्रवीत् ॥ १४.८०.३४ ॥
说完这些,那位被悲痛和忧伤击中的国王以水净身,大王啊,他带着悲伤说出了这些话。
14.80.35
शृण्वन्तु सर्वभूतानि स्थावराणि चराणि च ।
त्वं च मातर्यथा सत्यं ब्रवीमि भुजगोत्तमे ॥ १४.८०.३५ ॥
愿一切众生听闻,静止的与运动的都听闻;母亲啊,你也听着,最好的蛇女,我说的是真话。
14.80.36
यदि नोत्तिष्ठति जयः पिता मे नरसत्तमः ।
अस्मिन्नेव रणोद्देशे शोषयिष्ये कलेवरम् ॥ १४.८०.३६ ॥
若我的父亲,人中之最、胜者,不再站起,那么我就在这战场上让自己的身体枯萎。
14.80.37
नहि मे पितरं हत्वा निष्कृतिर्विद्यते क्वचित् ।
नरकं प्रतिपत्स्यामि ध्रुवं गुरुवधार्दितः ॥ १४.८०.३७ ॥
杀了我的父亲之后,我在任何地方都无法得到赎罪;因杀害尊长而痛苦,我必定将堕入地狱。
14.80.38
वीरं हि क्षत्रियं हत्वा गोशतेन प्रमुच्यते ।
पितरं तु निहत्यैवं दुर्लभा निष्कृतिर्मम ॥ १४.८०.३८ ॥
杀死英勇刹帝利者,以布施一百头牛即可解脱;但我杀了父亲,我的赎罪便如此难以获得。
14.80.39
एत एको महातेजाः पाण्डुपुत्रो धनंजयः ।
पिता च मम धर्मात्मा तस्य मे निष्कृतिः कुतः ॥ १४.८०.३९ ॥
此人唯一,乃大光辉的般度之子达那阳耶;而我那行法的父亲也是他。对于他,我的赎罪从何而来?
14.80.40
इत्येवमुक्त्वा नृपते धनंजयसुतो नृपः ।
उपस्पृश्याभवत्तूष्णीं प्रायोपेतो महामतिः ॥ १४.८०.४० ॥
说完这些,大王啊,达那阳耶之子那位国王以水净身后默然不语;大智者端坐,决意绝食至死。