Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.81

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.81.1

प्रायोपविष्टे नृपतौ मणिपूरेश्वरे तदा ।
पितृशोकसमाविष्टे सह मात्रा परंतप ॥ १४.८१.१ ॥

那时,摩尼补罗之主被父亲的悲痛所笼罩,与母亲一同坐下绝食至死,哦,焚敌者。

14.81.2

उलूपी चिन्तयामास तदा संजीवनं मणिम् ।
स चोपातिष्ठत तदा पन्नगानां परायणम् ॥ १४.८१.२ ॥

于是乌卢比想到了使人复生的宝珠,那诸蛇的归所便显现在她面前。

14.81.3

तं गृहीत्वा तु कौरव्य नागराजपतेः सुता ।
मनःप्रह्लादनीं वाचं सैनिकानामथाब्रवीत् ॥ १४.८१.३ ॥

库鲁的后裔啊,蛇王之女取过宝珠,向士兵们说了令人心悦的话。

14.81.4

उत्तिष्ठ मा शुचः पुत्र नैव जिष्णुस्त्वया हतः ।
अजेयः पुरुषैरेष तथा देवैः सवासवैः ॥ १४.८१.४ ॥

起来吧,不要悲伤,孩子;你并没有杀死胜利者(阿周那)。他即使对人类,连同婆娑婆与诸神,也无法战胜。

14.81.5

मया तु मोहनी नाम मायैषा सम्प्रदर्शिता ।
प्रियार्थं पुरुषेन्द्रस्य पितुस्तेऽद्य यशस्विनः ॥ १४.८१.५ ॥

这名为“迷惑”的幻术是我施展的,为的是今日讨好你那光荣的父亲,人中之主。

14.81.6

जिज्ञासुर्ह्येष पुत्रस्य बलस्य तव कौरव ।
सङ्ग्रामे युद्ध्यतो राजन्नागतः परवीरहा ॥ १४.८१.६ ॥

库鲁的后裔啊,国王啊,他是为了想知道你儿子的力量而来的,那时你正在战场上交战,他是杀戮敌方英雄者。

14.81.7

तस्मादसि मया पुत्र युद्धाय परिचोदितः ।
मा पापमात्मनः पुत्र शङ्केथा ह्यण्वपि प्रभो ॥ १४.८१.७ ॥

因此,儿啊,我已激励你参战。主啊,关于你自己,不要有丝毫罪过的疑虑。

14.81.8

ऋषिरेष महानात्मा पुराणः शाश्वतोऽक्षरः ।
नैनं शक्तो हि सङ्ग्रामे जेतुं शक्रोऽपि पुत्रक ॥ १४.८१.८ ॥

这位大德的仙人古老、永恒、不灭。儿啊,即便因陀罗也无法在战斗中胜过他。

14.81.9

अयं तु मे मणिर्दिव्यः समानीतो विशांपते ।
मृतान्मृतान्पन्नगेन्द्रान्यो जीवयति नित्यदा ॥ १४.८१.९ ॥

此神圣之宝珠已被我取来,人主啊,它总能使死去的蛇王一次又一次复活。

14.81.10

एनमस्योरसि त्वं च स्थापयस्व पितुः प्रभो ।
संजीवितं तदा पार्थं स त्वं द्रष्टासि पाण्डवम् ॥ १४.८१.१० ॥

主啊,你也将它放在父亲的胸前吧。那时他便会复活,你将再见到般度之子Pārtha。

14.81.11

इत्युक्तः स्थापयामास तस्योरसि मणिं तदा ।
पार्थस्यामिततेजाः स पितुः स्नेहादपापकृत् ॥ १४.८१.११ ॥

听罢,那位光辉无量、无罪的人出于对父亲的爱,便将宝珠放在了Pārtha的胸前。

14.81.12

तस्मिन्न्यस्ते मणौ वीरो जिष्णुरुज्जीवितः प्रभुः ।
चिरसुप्त हवोत्तस्थौ मृष्टलोहितलोचनः ॥ १४.८१.१२ ॥

宝珠放在他身上时,那英雄、胜利的主人便复活了;如同久睡之人,他睁着赤红的双眼站了起来。

14.81.13

तमुत्थितं महात्मानं लब्धसंज्ञं मनस्विनम् ।
समीक्ष्य पितरं स्वस्थं ववन्दे बभ्रुवाहनः ॥ १४.८१.१३ ॥

巴布鲁婆诃那见大德、心智高明的父亲已站起、恢复知觉且安好,便向他行礼。

14.81.14

उत्थिते पुरुषव्याघ्रे पुनर्लक्ष्मीवति प्रभो ।
दिव्याः सुमनसः पुण्या ववृषे पाकशासनः ॥ १४.८१.१४ ॥

主啊,当那位如虎的人中之杰、光辉荣耀的英雄再次起身时,帕卡沙桑那(因陀罗)降下神圣而清净的花雨。

14.81.15

अनाहता दुन्दुभयो विनेदुर्मघनिःस्वनाः ।
साधुसाध्विति चाकाशे बभूव सुमहान्स्वनः ॥ १४.८१.१५ ॥

无人击打的鼓声如雷云般轰鸣,天空中响起一片巨大的喊声:“善哉,善哉!”

14.81.16

उत्थाय च महाबाहुः पर्याश्वस्तो धनंजयः ।
बभ्रुवाहनमालिङ्ग्य समाजिघ्रत मूर्धनि ॥ १४.८१.१६ ॥

大臂的达南遮耶站起,心意全然安慰,拥抱巴布鲁婆诃那,并嗅了嗅他的头顶。

14.81.17

ददर्श चापि दूरेऽस्य मातरं शोककर्शिताम् ।
उलूप्या सह तिष्ठन्तीं ततोऽपृच्छद्धनंजयः ॥ १४.८१.१७ ॥

他又在远处看见他的母亲与优卢比站在一起,因悲伤而憔悴;于是达南遮耶问道。

14.81.18

किमिदं लक्ष्यते सर्वं शोकविस्मयहर्षवत् ।
रणाजिरममित्रघ्न यदि जानासि शंस मे ॥ १४.८१.१८ ॥

啊,灭敌者,这战场上所见的一切——充满悲伤、惊奇与喜悦——究竟是怎么回事?若你知道,就告诉我。

14.81.19

जननी च किमर्थं ते रणभूमिमुपागता ।
नागेन्द्रदुहिता चेयमुलूपी किमिहागता ॥ १४.८१.१९ ॥

你的母亲为何来到这片战场?那位蛇王之女乌卢比为何也来到这里?

14.81.20

जानाम्यहमिदं युद्धं त्वया मद्वचनात्कृतम् ।
स्त्रीणामागमने हेतुमहमिच्छामि वेदितुम् ॥ १४.८१.२० ॥

我知道你是遵从我的话而进行这场战斗的。但我想知道这些女子前来的原因。

14.81.21

तमुवाच तथा पृष्टो मणिपूरपतिस्तदा ।
प्रसाद्य शिरसा विद्वानुलूपी पृच्छ्यतामिति ॥ १४.८१.२१ ॥

被这样询问后,曼尼普拉之主便对他说话。他低首恭敬地安抚了智慧的乌卢比,说道:“就问她吧。”