Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.83

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.83.1

स तु वाजी समुद्रान्तां पर्येत्य वसुधामिमाम् ।
निवृत्तोऽभिमुखो राजन्येन वारणसाह्वयम् ॥ १४.८३.१ ॥

那匹马绕行了这片以大海为界的大地之后,大王啊,与刹帝利王子一同转身朝向婆罗那萨赫瓦耶而去。

14.83.2

अनुगच्छंश्च तुरगं निवृत्तोऽथ किरीटभृत् ।
यदृच्छया समापेदे पुरं राजगृहं तदा ॥ १४.८३.२ ॥

跟随着马匹,戴冠者(阿周那)折返,随后偶然来到了拥有王宫的城市。

14.83.3

तमभ्याशगतं दृष्ट्वा सहदेवात्मजः प्रभो ।
क्षत्रधर्मे स्थितो वीरः समरायाजुहाव ह ॥ १४.८३.३ ॥

主啊,见他走近,萨哈德瓦之子的英雄坚守刹帝利的本分,向他发出了战斗的挑战。

14.83.4

ततः पुरात्स निष्क्रम्य रथी धन्वी शरी तली ।
मेघसन्धिः पदातिं तं धनंजयमुपाद्रवत् ॥ १४.८३.४ ॥

于是,驾车的梅伽桑迪从城中出来,持弓、带箭、戴护手,向步行的达南遮耶扑去。

14.83.5

आसाद्य च महातेजा मेघसन्धिर्धनंजयम् ।
बालभावान्महाराज प्रोवाचेदं न कौशलात् ॥ १४.८३.५ ॥

大王啊,光辉盛大的梅伽桑迪走近达南遮耶,因年少轻狂而非出于技巧,说出了这番话。

14.83.6

किमयं चार्यते वाजी स्इत्रीमध्य इव भारत ।
हयमेनं हरिष्यामि प्रयतस्व विमोक्षणे ॥ १४.८३.६ ॥

婆罗多的后裔啊,这匹马为何像在女人中间一样被牵着走?我将夺走这匹马;你努力去救它吧。

14.83.7

अदत्तानुनयो युद्धे यदि त्वं पितृभिर्मम ।
करिष्यामि तवातिथ्यं प्रहर प्रहरामि च ॥ १४.८३.७ ॥

若你因我的祖先而在战斗中未得和解,我将以款待回报你。你出手吧,我也将出手。

14.83.8

इत्युक्तः प्रत्युवाचैनं प्रहसन्निव पाण्डवः ।
विघ्नकर्ता मया वार्य इति मे व्रतमाहितम् ॥ १४.८३.८ ॥

他这样说后,般度之子仿佛笑着回答道:“我的誓言已经定下:制造障碍者,我必须阻止。”

14.83.9

भ्रात्रा ज्येष्ठेन नृपते तवापि विदितं ध्रुवम् ।
प्रहरस्व यथाशक्ति न मन्युर्विद्यते मम ॥ १४.८३.९ ॥

国王啊,这一点你的长兄必定也告诉过你。尽你的力量出手吧;我心中没有怒气。

14.83.10

इत्युक्तः प्राहरत्पूर्वं पाण्डवं मगधेस्वरः ।
किरञ्शरसहस्राणि वर्षाणीव सहस्रदृक् ॥ १४.८३.१० ॥

摩揭陀之主这样被激怒后,先向般度之子发起攻击,如千眼之神(因陀罗)降雨一般,倾泻千万支箭。

14.83.11

ततो गाण्डीवभृच्छूरो गाण्डीवप्रहितैः शरैः ।
चकार मोघांस्तान्बाणान्सयत्नान्भरतर्षभ ॥ १४.८३.११ ॥

那时,执持甘狄拔弓的英雄以从甘狄拔弓射出的箭,费力地使那些箭落空,婆罗多族的雄牛啊。

14.83.12

स मोघं तस्य बाणौघं कृत्वा वानरकेतनः ।
शरात्मुमोच ज्वलितान्दीप्तास्यानिव पन्नगान् ॥ १४.८३.१२ ॥

猴旗之主使对方的箭雨落空,随即射出炽热的箭,如同张着燃烧之口的毒蛇。

14.83.13

ध्वजे पताकादण्डेषु रथे यन्त्रे हयेषु च ।
अन्येषु च रथाङ्गेषु न शरीरे न सारथौ ॥ १४.८३.१३ ॥

射在旗帜上、旗杆上、战车上、机械上、马上和其他车部件上,却不射在身体上,也不射在御者身上。

14.83.14

संरक्ष्यमाणः पार्थेन शरीरे सव्यसाचिना ।
मन्यमानः स्ववीर्यं तन्मागधः प्राहिणोच्छरान् ॥ १४.८३.१४ ॥

摩揭陀王以为那是自己的勇力,尽管身体被萨维亚萨钦(阿周那)所护卫,仍射出了箭。

14.83.15

ततो गाण्डीवधन्वा तु मागधेन भृशाहतः ।
बभौ वसन्तसमये पलासः पुष्पितो यथा ॥ १४.८३.१५ ॥

那时,持甘狄瓦弓者被摩揭陀王重创,光彩如春天开花的波罗奢树一般。

14.83.16

अवध्यमानः सोऽभ्यघ्नन्मागधः पाण्डवर्षभम् ।
तेन तस्थौ स कौरव्य लोकवीरस्य दर्शने ॥ १४.८३.१६ ॥

摩揭陀王虽不会被杀,却击中了般度族中的雄牛;因此,俱卢后裔啊,他得以站在世界英雄面前。

14.83.17

सव्यसाची तु संक्रुद्धो विकृष्य बलवद्धनुः ।
हयांश्चकार निर्जीवान्सारथेश्च शिरोऽहरत् ॥ १४.८३.१७ ॥

然而萨维亚萨钦怒不可遏,拉开他强大的弓,使马匹毙命,并斩下了御者的头颅。

14.83.18

धनुश्चास्य महच्चित्रं क्षुरेण प्रचकर्त ह ।
हस्तावापं पताकां च ध्वजं चास्यन्यपातयत् ॥ १४.८३.१८ ॥

他以利刃般的箭切断了对方巨大而奇妙的弓,又打落了他的握把、旗帜和旗杆。

14.83.19

स राजा व्यथितो व्यश्वो विधनुर्हतसारथिः ।
गदामादाय कौन्तेयमभिद्रद्राव वेगवान् ॥ १४.८३.१९ ॥

那位国王痛苦不堪,失去马匹、弓和御者,手持铁锤,迅速冲向贡蒂之子。

14.83.20

तस्यापतत एवाशु गदां हेमपरिष्कृताम् ।
शरैश्चकर्त बहुधा बहुभिर्गृध्रवाजितैः ॥ १४.८३.२० ॥

当他迅速冲来时,阿周那用许多装有秃鹫羽的箭,将那根镶金的铁锤砍成许多碎块。

14.83.21

सा गदा शकलीभूता विशीर्णिमणिबन्धना ।
व्याली विमुच्यमानेन पपात धरणीतले ॥ १४.८३.२१ ॥

那根铁锤碎裂成块,镶嵌宝石的箍带也散落,如同被释放的毒蛇一般坠落在地上。

14.83.22

विरथं विधनुष्कं च गदया परिवर्जितम् ।
नैच्छत्ताडयितुं धीमानर्जुनः समराग्रणीः ॥ १४.८३.२२ ॥

智慧的阿周那,乃战阵之首,不愿击打那已失去战车、弓与铁锤的人。

14.83.23

तत एनं विमनसं क्षत्रधर्मे व्यवस्थितम् ।
सान्त्वपूर्वमिदं वाक्यमब्रवीत्कपिकेतनः ॥ १४.८३.२३ ॥

于是,旗帜上有猴子的阿周那,以温和的言语对他说道——他虽沮丧,却坚守刹帝利之法。

14.83.24

पर्याप्तः क्षत्रधर्मोऽयं दर्शितः पुत्र गम्यताम् ।
बह्वेतत्समरे कर्म तव बालस्य पार्थिव ॥ १४.८३.२४ ॥

"孩子,武士之法已经充分展示了,现在去吧。国王啊,你在战斗中的这一功绩虽然你还年少,已经很大了。"

14.83.25

युधिष्ठिरस्य संदेशो न हन्तव्या नृपा इति ।
तेन जीवसि राजंस्त्वमपराद्धोऽपि मे रणे ॥ १४.८३.२५ ॥

坚战的命令是不可杀害国王。因此,国王啊,你虽在战斗中冒犯了我,仍然活着。

14.83.26

इति मत्वा तदाऽऽत्मानं प्रत्यादिष्टं स्म मागधः ।
तथ्यमित्यभिगम्यैनं प्राञ्जलिः प्रत्यपूजयत् ॥ १४.८३.२६ ॥

摩揭陀王想到自己已被赦免,说“确实如此”,走近他,合掌回敬以礼。

14.83.27

परिजितोस्मि भद्रं ते नाहं योद्धुमिहोत्सहे ।
यद्यत्कृत्यं मया तेऽद्य तद्ब्रूहि कृतमेव तु ॥ १४.८३.२७ ॥

我已战败,愿你吉祥。我不敢在此作战。请告诉我今天应为你做什么,就当已经做好了。

14.83.28

तमर्जुनः समाश्वास्य पुनरेवेदमब्रवीत् ।
आगन्तव्यं परां चैत्रीमश्वमेधे नृपस्य नः ॥ १४.८३.२८ ॥

阿周那安慰他,又说:“你务必于吉月前来参加我们国王的马祭。”

14.83.29

इत्युक्तः स तथेत्युक्त्वा पूजयमास तं हयम् ।
फल्गुनं च युधिश्रेष्ठं विदिवत्सहदेवजः ॥ १४.८३.२९ ॥

听罢,他说“就照你说的办”,并礼敬那匹马;萨诃提婆之子依礼尊敬了法尔古那与坚战家族中最优秀者。

14.83.30

ततो यथेष्टमगमत्पुनरेव स कौरवः ।
ततः समुद्रतीरेण वङ्गान्पुण्ड्रान्सकेरलान् ॥ १४.८३.३० ॥

于是那位俱卢族人又随其意愿而行,然后沿海岸前往文伽、普恩德罗与喀拉拉诸国。

14.83.31

तत्रतत्र च भूरीणि म्लेच्छसैन्यान्यनेकशः ।
विजिग्ये धनुषा राजन्गाण्डीवेन धनंजयः ॥ १४.८३.३१ ॥

大王啊,四处之间,持甘狄拔神弓的财胜(阿周那)击败了众多蛮夷军队。