Vedyatra वेदयात्रा
検索

マハーバーラタ · 章 14.87

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

語の意味つきで読む

14.87.2

उपयाता नरव्याघ्रा य एते पृथिवीश्वराः ।
एतेषां क्रियतां पूजा पूजार्हा हि नराधिपाः ॥ १४.८७.२ ॥

ここに来たこれらの大地の主、人中の虎たちを敬うがよい。これら人の王たちは供養にふさわしいのだから。

14.87.3

इत्युक्तः स तथा चक्रे नरेन्द्रेण यशस्विना ।
भीमसेनो महातेजा यमाभ्यां सह पाण्डवः ॥ १४.८७.३ ॥

名高い王にこのように言われ、大いなる光輝のパーンドゥの子ビーマセーナは双子とともにそのとおりに行った。

14.87.4

अथाभ्यगच्छद्गोविन्दो वृष्णिभिः सह धर्मजम् ।
बलदेवं पुरस्कृत्य सर्वप्राणभूतां वरः ॥ १४.८७.४ ॥

そのとき、すべての生き物の中で最も優れたゴーヴィンダは、ヴリシュニ族とともに、バララーマを先に立てて法の子のもとへ来た。

14.87.5

युयुधानेन सहितः प्रद्युम्नेन गदेन च ।
निशठेनाथ सांबेन तथैव कृतवर्मणा ॥ १४.८७.५ ॥

ユユダーナ、プラデュムナ、ガダ、ニシャタ、サーンバ、そして同じくクリタヴァルマンを伴って。

14.87.6

तेषामपि परां पूजां चक्रे भीमो महारथः ।
विविशुस्ते च वेश्मानि रत्नवन्ति च सर्वशः ॥ १४.८७.६ ॥

大戦士ビーマもまた彼らに最高の供養をし、彼らは宝玉に満ちた館の数々へ入っていった。

14.87.7

युधिष्ठिरसमीपे तु कथान्ते मधुसूदनः ।
अर्जुनं कथयामास बहुसङ्ग्रामकर्शितम् ॥ १४.८७.७ ॥

ユディシュティラのそばで、話の終わりに、マドゥスーダナは多くの戦いで消耗したアルジュナに語りかけた。

14.87.8

स तं प्रपच्छ कौन्तेयः पुनःपुनररिंदमम् ।
धर्मजः शक्रजं जिष्णुं समाचष्ट जगत्पतिः ॥ १४.८७.८ ॥

クンティーの息子は、敵を制する者に何度も尋ね、世界の主は法神の子ユディシュティラに、インドラの子であり勝利者であるアルジュナのことを語った。

14.87.9

आगमद्द्वारकावासी समाप्तः पुरुषो नृप ।
योऽद्राक्षीत्पाण्डवश्रेष्ठ बहुसङ्ग्रामकर्शितम् ॥ १४.८७.९ ॥

王よ、ドヴァーラカーの住人が来た。彼は任務を終え、幾多の戦いで衰弱したパーンダヴァの最良の者を見ていた。

14.87.10

समीपे च महाबाहुमाचष्ट च मम प्रभो ।
कुरु कार्याणि कौन्तेय हयमेधार्थसिद्धये ॥ १४.८७.१० ॥

そして近くで、その大腕の者は私に言った。「主よ、クンティーの子よ、馬祀の成就のために務めを果たせ。」

14.87.11

इत्युक्तः प्रत्युवाचैनं धर्मराजो युधिष्ठिरः ।
दिष्ट्या स कुशली जिष्णुरुपायाति च माधव ॥ १४.८७.११ ॥

そう言われて、法王ユディシュティラは答えた。「マーダヴァよ、幸いにもジシュヌは無事に帰還しつつある。」

14.87.12

यदिदं संदिदेशास्मिन्पाण्डवानां बलाग्रणीः ।
तदाख्यातमिहेच्छामि भवता यदुनन्दन ॥ १४.८७.१२ ॥

この件でパーンダヴァの軍の長が命じたことを、ヤドゥの喜びよ、ここで告げてほしい。

14.87.13

इत्युक्तो धर्मराजेन वृष्ण्यन्धकपतिस्तदा ।
प्रोवाचेदं वचो वाग्मी धर्मात्मानं युधिष्ठिरम् ॥ १४.८७.१३ ॥

法王にそう問われて、ヴリシュニとアンダカの主は、雄弁に、法を重んじる心のユディシュティラにこの言葉を述べた。

14.87.14

इदमाह महाराज पार्थवाक्यं नरेश्वरः ।
वाच्यो युधिष्ठिरः कृष्ण काले वाक्यमिदं मम ॥ १४.८७.१४ ॥

大王よ、人の主はパールタの言葉をこう述べた。「クリシュナよ、適切な時にユディシュティラにこの私の言葉を伝えよ。」

14.87.15

आगमिष्यन्ति राजानः सर्वे वै कौरवर्षभ ।
प्राप्तानां महतां पूजा कार्या ह्येतत्क्षमं हि नः ॥ १४.८७.१५ ॥

クル族の雄牛よ、すべての王が来るだろう。到着した尊い方々は敬うべきである。それが我らにふさわしい。

14.87.16

इत्येतद्वचनाद्राजा विज्ञाप्यो मम मानद ।
तथा चात्ययिकं न स्याद्यदर्घाहरणेऽभवत् ॥ १४.८७.१६ ॥

尊敬を与える者よ、この言葉に従い、私に代わって王に告げよ。 arghyaの供与で起きたことが急を要するものとならぬように。

14.87.17

कर्तुमर्हति तद्राजा भवांश्चाप्यनुमन्यताम् ।
राजद्वेषान्न नश्येयुरिमा राजन्पुनः प्रजाः ॥ १४.८७.१७ ॥

王はそれを行うべきであり、あなたも同意すべきである。王たちの敵意によってこの民が再び滅びないように。

14.87.18

इदमन्यच्च कौन्तेय वचः स पुरुषोऽब्रवीत् ।
धनंजयस्य नृपते तन्मे निगदतः शृणु ॥ १४.८७.१८ ॥

クンティーの子よ、その人はさらに別の言葉を述べた。人の主よ、ダナンジャヤの言葉を私が語るので聞きなさい。

14.87.19

उपयास्यति यज्ञं नो मणलूरपतिर्नृपः ।
पुत्रो मम महातेजा दयितो बभ्रुवाहनः ॥ १४.८७.१९ ॥

マニャルの王が我らの祭祀に来るだろう。私の息子、大いなる輝きを持ち、私の愛するバブルヴァーハナである。

14.87.20

तं भवान्मदपेक्षार्थं विधिवत्प्रतिपूजयेत् ।
स तु भक्तोऽनुरक्तश्च मम नित्यमिति प्रभो ॥ १४.८७.२० ॥

私のために、あなたは彼を作法どおりに丁重にもてなすべきです。彼は常に私に献身し、愛着しているのです、主よ。

14.87.21

इत्येतद्वचनं श्रुत्वा धर्मराजो युधिष्ठिरः ।
अभिनन्द्यास्य तद्वाक्यमिदं वचनमब्रवीत् ॥ १४.८७.२१ ॥

この言葉を聞いて、法の王ユディシュティラは彼の言葉を称賛し、このように言った。