Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.88

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.88.1

श्रुतं प्रियमिदं कृष्ण यत्त्वमर्हसि भाषितुम् ।
तन्मेऽमृतरसं पुण्यं मनो ह्लादयति प्रभो ॥ १४.८८.१ ॥

克里希那啊,我听到了你所应说的这些悦耳之言。它们如甘露般神圣,主啊,使我的心充满喜悦。

14.88.2

बहूनि किल युद्धानि विजयस्य नराधिपैः ।
पुनरासन्हृषीकेश तत्रतत्रेति न श्रुतम् ॥ १४.८८.२ ॥

啊,希理史鸡舍,诸王为了胜利曾进行过许多战争,然而此处彼处,从未听闻过如此之事。

14.88.3

किंनिमित्तं स नित्यं हि पार्थः सुखविवर्जितः ।
अतीव विजयो धीमानिति मे दूयते मनः ॥ १४.८८.३ ॥

那位极其胜利而又睿智的般度之子,因何缘故总是缺乏快乐?这使我的心感到痛苦。

14.88.4

संचिन्तयामि कौन्तेयं रहो जिष्णुं जनार्दन ।
अतीव दुःखभागी स सततं पाण्डुनन्दनः ॥ १४.८८.४ ॥

啊,遮那陀那,独处时我思念那位贡提之子、胜利者。那位般度之子总是承受着极大的苦难。

14.88.5

किंनु तस्य शरीरेऽस्ति सर्वलक्षणपूजिते ।
अनिष्टं लक्षणं कृष्ण येन दुःखान्युपाश्नुते ॥ १४.८८.५ ॥

啊,克里希那,他的身体本应因一切吉祥之相而受尊崇,那么其中有何不吉之相,使他承受痛苦?

14.88.6

अतीवासुखभोगी स सततं कुन्तिनन्दनः ।
न हि पश्यामि बीभत्सोर्निन्द्यं गात्रेषु किंचन।
श्रोतव्यं चेन्मयैतद्वै तन्मे व्याख्यातुमर्हसि ॥ १४.८८.६ ॥

那位贡提之子总是极少享受快乐。我在毗跋蹉的肢体上看不到任何应受指责之处。如果我应当听闻此事,你理应为我解释。

14.88.7

इत्युक्तः स हृषीकेशो ध्यात्वा सुमहदन्तरम् ।
राजानं भोजराजन्यवर्धनो विष्णुरब्रवीत् ॥ १४.८८.७ ॥

被如此询问后,Hṛṣīkeśa 沉思良久,增益婆闍与刹帝利的毗湿奴对国王说道。

14.88.8

न ह्यस्य नृपते किञ्चिदनिष्टमुपलक्षये ।
ऋते पुरुषसिंहस्य पिण्डिकेऽस्याधिके यतः ॥ १४.८८.८ ॥

国王啊,在这位人中狮子身上,我看不出任何缺陷,只是他的两块piṇḍikā过多。

14.88.9

स ताभ्यां पुरुषव्याघ्रो नित्यमध्वसु वर्तते ।
न चान्यदनुपश्यामि येनासौ दुःखभाजनम् ॥ १४.८८.९ ॥

这位人中虎始终与那二人在路途中忙碌,我看不出还有什么能使他成为痛苦的承受者。

14.88.10

इत्युक्तः पुरुषश्रेष्ठस्तदा कृष्णेन धीमता ।
प्रोवाच वृष्णिशार्दूलमेवमेतदिति प्रभो ॥ १४.८८.१० ॥

智慧的克里希那如此说后,人中至尊对Vṛṣṇi的虎王说道:"主啊,确实如此。"

14.88.11

कृष्णा तु द्रौप्दी कृष्णं तिर्यक्सासूयमैक्षत ।
प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा।
प्रख्युः सखा हृषीकेशः साक्षादिव धनंजयः ॥ १४.८८.११ ॥

然而黑女德罗波蒂怀着嫉妒斜视克里希那,杀死羯悉因者也接受了她的那份情意。朋友希利什迦已名声显赫,宛如财富征服者本人。

14.88.12

तत्र भीमादयस्ते तु करवो याजकाश्च ये ।
रेमुः श्रुत्वा विचित्रां तां धनंजयकथां शुभाम् ॥ १४.८८.१२ ॥

那里的毗摩等人,以及执事与祭司们,听到那段奇妙吉祥的财富征服者的故事,都欢喜不已。

14.88.13

तेषां कथयतामेव पुरुषोऽर्जुनसंकथाः ।
उपायाद्वचनाद्दूतो विजयस्य महात्मनः ॥ १४.८८.१३ ॥

他们正谈论阿周那时,一位使者奉伟大的毗阇耶之命到来。

14.88.14

सोभिगम्य कुरुश्रेष्ठं नमस्कृत्य च बुद्धिमान् ।
उपायातं नरव्याघ्रं फल्गुनं प्रत्यवेदयत् ॥ १४.८८.१४ ॥

那位聪明的使者来到俱卢最优秀者面前,致敬后禀报人中猛虎法尔古那正在前来。

14.88.15

तच्छ्रुत्वा नृपतिस्तस्य हर्षबाष्पाकुलेक्षणः ।
प्रियाख्याननिमित्तं वै ददौ बहुधनं तदा ॥ १४.८८.१५ ॥

国王闻之,双目因喜悦之泪而模糊,为了这喜讯,当即赏赐了大量财物。

14.88.16

ततो द्वितीये दिवसे महाञ्शब्दो व्यवर्धत ।
आगच्छति नरव्याघ्रे कौरवाणां धुरंधरे ॥ १४.८८.१६ ॥

随后第二天,当人中猛虎、俱卢族的柱石将至时,一片巨大的喧声响起。

14.88.17

ततो रेणुः समुद्भुतो विबभौ तस्य वाजिनः ।
अभितो वर्तमानस्य यथोच्चैःश्रवसस्तथा ॥ १४.८८.१७ ॥

那时,他的马匹扬起的尘土四处弥漫、闪耀,正如乌遮耶西罗婆缓行时周围的尘土一般。

14.88.18

तत्र हर्षकरीर्वाचो नराणां शुश्रुवेऽर्जुनः ।
दिष्ट्याऽसि पार्थ कुशली धन्यो राजा युधिष्ठिरः ॥ १४.८८.१८ ॥

那里听到人们令人欢喜的话语:“阿周那,幸运的是你安然无恙,普利塔之子!国王坚战有福了。”

14.88.19

कोन्योहि पृथिवीं कृत्स्नां जित्वाहि युधि पार्थिवान् ।
चारयित्वा हयश्रेष्ठमुपागच्छेदृतेऽर्जुनात् ॥ १४.८८.१९ ॥

除阿周那之外,还有谁能征服整个大地、在战场上击败诸王,并牵着最好的马来到这里?

14.88.20

ये व्यतीता महात्मानो राजानः सगरादयः ।
तेषामपीदृशं कर्म न कदाचन शुश्रुम ॥ १४.८८.२० ॥

已逝去的大德诸王,如萨加罗等人,我们从未听说他们有过如此的功业。

14.88.21

नैतदन्ये करिष्यन्ति भविष्या वसुधाधिपाः ।
यत्त्वं कुरुकुलश्रेष्ठ दुष्करं कृतवानसि ॥ १४.८८.२१ ॥

未来的其他地上之主不会做这件事;库鲁族的最优者啊,你做了一件艰难的事。

14.88.22

इत्येवं वदतां तेषां पुंसां कर्णसुखा गिरः ।
शृण्वन्विवेश धर्मात्मा फल्गुनो यज्ञसंस्तरम् ॥ १४.८८.२२ ॥

那些人说着这些悦耳的话,正直的法尔古那一边听着,一边走进了祭坛场地。

14.88.23

ततो राजा सहामात्यः कृष्णश्च यदुनन्दनः ।
धृतराष्ट्रं पुरस्कृत्य तं प्रत्युद्ययतुस्तदा ॥ १४.८८.२३ ॥

于是,国王与大臣们,以及雅度之喜的黑天,让持国王走在前面,前往迎接他。

14.88.24

सोऽभिवाद्य पितुः पादौ धर्मराजस्य धीमतः ।
भीमादींश्चापि संपूज्य पर्यष्वजत केशवम् ॥ १४.८८.२४ ॥

他向父亲和智慧的法王的双足致敬,又礼敬了比玛等人,并拥抱了柯沙瓦。

14.88.25

तैः समेत्यार्चितस्तांश्च प्रत्यर्च्याथ यथाविधि ।
विशश्राम महाबाहुस्तीरं लब्ध्वेव पारगः ॥ १४.८८.२५ ॥

与他们相会,受到他们的敬重,又依照规矩回敬他们,这位大臂者便安歇下来,如同渡过河流、到达彼岸之人。