Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.89

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.89.1

एतस्मिन्नेव काले तु स राजा बभ्रुवाहनः ।
मातृभ्यां सहितो धीमान्कुरूनभ्याजगाम ह ॥ १४.८९.१ ॥

就在此时,智慧的国王巴布鲁跋诃那与他的两位母亲一同来到了俱卢族面前。

14.89.2

तत्र वृद्धान्यथावत्स कुरूनन्यांश्च पार्थिवान् ।
अभिवाद्य महाबाहुस्तैश्चापि प्रतिनन्दितः।
प्रविवेश पितामह्याः कुन्त्या भवनमुत्तमम् ॥ १४.८९.२ ॥

他在那里依礼向长辈、俱卢族人及其他国王致敬,他们也回礼欢迎他。随后这位臂力强大者走进了祖母贡蒂的殊胜居所。

14.89.3

स प्रविश्य महाबाहुः पाण्डवानां निवेशनम् ।
पितामहीमभ्यवन्दत्साम्ना परमवल्गुना ॥ १४.८९.३ ॥

这位臂力强大者进入般度子孙的居所,以最温和悦耳的话语向祖母行礼。

14.89.4

तथा चित्राङ्गदा देवी कौरवस्यात्मजाऽपि च ।
पृथां कृष्णां च सहिते विनयेनोपजग्मतुः।
सुभद्रां च यथान्यायं याश्चान्याः कुरुयोषितः ॥ १४.८९.४ ॥

同样,王后质多罗安陀陀(俱卢之女)与普利塔、克利什那一同谦恭地走近;须跋陀罗和其他俱卢族妇女也依礼而来。

14.89.5

ददौ कुन्ती ततस्ताभ्यां रत्नानि विविधानि च ।
द्रौपदी च सुभद्रा च याश्चाप्यन्या यदुस्त्रियः ॥ १४.८९.५ ॥

随后贡蒂赠予她们两人各种珠宝,德罗波蒂、须跋陀罗及其他雅度族妇女也都有所赠予。

14.89.6

ऊषतुस्तत्र ते देव्यौ महार्ङशयनासने ।
सुपूजिते स्वयं कुन्त्या पार्थस्य हितकाम्यया ॥ १४.८९.६ ॥

这两位如女神般的王后在那里住在极其珍贵的床榻与座位上,贡蒂亲自厚加礼遇,因她希望普利塔之子得到福祉。

14.89.7

स च राजा महातेजाः पूजितो बभ्रुवाहनः ।
धूतराष्ट्रं महीपालमुपतस्थे यताविधि ॥ १४.८९.७ ॥

那位威光赫赫的国王巴布鲁跋诃那受到尊敬后,依礼拜见了大地守护者持国王。

14.89.8

युधिष्टिरं च राजानं भीमदींश्चापि पाण्डवान् ।
उपागम्य महातेजा विनयेनाभ्यवादयत् ॥ १४.८९.८ ॥

他走近国王坚战与般度诸子,即怖军等人,这位威光赫赫者谦恭地向他们行礼。

14.89.9

स तैः प्रेम्या परिष्वक्तः पूजितश्च यथाविधि ।
धनं चास्मै ददुर्भूरि प्रीयमाणा महारथाः ॥ १४.८९.९ ॥

他被他们亲切拥抱,依礼受到尊敬;那些大车战士心中欢喜,赠予他大量财物。

14.89.10

तथैव च महीपालः कृष्णं चक्रगदाधरम् ।
प्रद्युम्न इव गोविन्दं विनयेनोपतस्थिवान् ॥ १४.८९.१० ॥

那位国王同样走向手持轮与杵的克里希纳,如同普罗陀摩那走向哥温达,谦恭地前来侍奉。

14.89.11

तस्मै कृष्णो ददौ राज्ञे महार्हमतिपूजितम् ।
रथं हेमपरिष्कारं दिव्याश्वयुजमुत्तमम् ॥ १४.८९.११ ॥

克里希纳赠予那位国王一辆极为珍贵、备受尊崇的上乘战车,饰以黄金,驾以神驹。

14.89.12

धर्मराजश्च भीमश्च फल्गुनश्च यमौ तथा ।
पृथक्पृथक् च ते चैनं मानार्थाभ्यामयोजयन् ॥ १४.८९.१२ ॥

法王(坚战)、怖军、阿周那以及双生子,各自分别给他赠予尊敬与礼物。

14.89.13

ततस्तृतीये दिवसे सत्यवत्यात्मजो मुनिः ।
युधिष्ठिरं समभ्येत्य वाग्मी वचनमब्रवीत् ॥ १४.८९.१३ ॥

随后第三日,萨提亚瓦蒂之子仙人走近坚战,善于言辞地说了这些话。

14.89.14

अद्यप्रभृति कौन्तेय यज्ञस्य समयो हि ते ।
मुहूर्तो यज्ञियः प्राप्तश्चोदयन्तीह याजकाः ॥ १४.८९.१४ ॥

贡蒂之子啊,从今天起,你祭祀的时机确已来临;适合祭祀的吉时已到,此地的祭司正在催促你。

14.89.15

अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् ।
बहुत्वात्काञ्चनस्यास्य ख्यातो बहुसुवर्णकः ॥ १४.८९.१५ ॥

王中之王啊,你的这场祭礼名为阿希那,有多种变化;因金子众多,它以“多金”之名著称。

14.89.16

एवमत्र महाराज दक्षिणाभिर्गुणीकुर ।
श्रीस्त्वां व्रजतु ते राजन्ब्राह्मणा ह्यत्र कारणम् ॥ १४.८९.१६ ॥

如此,大王,以布施使之圆满;愿吉祥降临于你,大王,因为此处以婆罗门为根本。

14.89.17

त्रीनश्वमेधानत्र त्वं सम्प्राप्य बहुदक्षिणान् ।
ज्ञातिवध्याकृतं पापं प्रहास्यति नराधिप ॥ १४.८९.१७ ॥

在此举行三次附有丰厚布施的马祭之后,人主啊,你将舍弃因杀害亲族而生的罪过。

14.89.18

पवित्रं परमं चैतत्पावनानां च पावनम् ।
यदश्वमेधावभृथं प्राप्स्यसे कुरुनन्दन ॥ १४.८९.१८ ॥

这是最为清净、清净之中最为清净的——你将获得的马祭终了沐浴,俱卢之喜。

14.89.19

इत्युक्तः स तु तेजस्वी व्यासेनामितबुद्धिना ।
दीक्षां विवेश धर्मात्मा वाजिमेधाप्तये ततः ॥ १४.८९.१९ ॥

无量智慧的毗耶娑如此告诫后,那位光辉而正直的国王便进入灌顶之礼,以求成就马祠。

14.89.20

ततो यज्ञं महाबाहुर्वाजिमेधं महाक्रतुम् ।
बह्वन्नदक्षिणं राजा सर्वकामगुणान्वितम् ॥ १४.८९.२० ॥

于是那位大臂之王举行了大祭,即马祠,其中食物与布施丰盛,具备一切所愿的功德。

14.89.21

तत्र वेदविदो राजंश्चक्रुः कर्माणि याजकाः ।
परिक्रामन्ति शास्त्रज्ञा यतावद्द्विजसत्तमाः ॥ १४.८९.२१ ॥

大王啊,那里精通吠陀与经典的主祭婆罗门,即诸再生者中最优秀的人,如法地来回主持各种仪式。

14.89.22

न तेषां स्खलितं किञ्चिदासीदपहुतं तथा ।
क्रमयुक्तं च युक्तं च चक्रुस्तत्र द्विजर्षभाः ॥ १४.८९.२२ ॥

他们之中没有任何差错,也没有错误的献祭;在那里,诸再生者中的优秀者依次且如法地行仪。

14.89.23

कृत्वा प्रवर्ग्यं धर्मज्ञा यथावद्द्विजसत्तमाः ।
चक्रस्ते विधिवद्राजंस्तथैवाभिषवं द्विजाः ॥ १४.८९.२३ ॥

诸再生者中知法的优秀者如法完成了前献礼,大王啊,然后同样依照规定榨取了苏摩。

14.89.24

अभिषूय ततो राजन्सोमं सोमपसत्तमाः ।
सवनान्यानुपूर्व्येण चक्रुः सास्त्रानुसारिणः ॥ १४.८९.२४ ॥

大王啊,随后,饮苏摩者中的优秀者榨取苏摩,依照经典,按次序完成了诸次祭礼。

14.89.25

न तत्र कृपणः कश्चिन्न दरिद्रो बभूव ह ।
क्षुधितो दुःखितो वाऽपि प्राकृतो वाऽपि मानवः ॥ १४.८९.२५ ॥

那里没有吝啬的人,也没有贫穷的人;没有饥饿的、悲伤的,甚至没有普通的人。

14.89.26

भोजनं भोजनार्थिभ्यो दापयामास शत्रुहा ।
भीमसेनो महातेजाः सततं राजशासनात् ॥ १४.८९.२६ ॥

灭敌的大光辉者毗摩森那,依国王之命,不断地让求食者得到食物。

14.89.27

संस्तरे कुशलाश्चापि सर्वकार्याणि याजकाः ।
दिवसेदिवसे चक्रुर्यथाशास्त्रानुदर्शात् ॥ १४.८९.२७ ॥

精通祭坛布置的祭司们,每日依照经典的规定完成一切仪式。

14.89.28

नाषडङ्गविदत्रासीत्सदस्यस्तस्य धीमतः ।
नाव्रतो नानुपाध्यायो न च वादाविचक्षणः ॥ १४.८९.२८ ॥

在这位智者的集会中,没有不通六吠陀支的人,没有不持戒的人,没有无师的人,也没有不善辩论的人。

14.89.29

ततो यूपोच्छ्रये प्राप्ते षड् बैल्वान्भरतर्षभ ।
खादिरान्बिल्वसमितांस्तावतः सर्ववर्णिनः ॥ १४.८९.२९ ॥

婆罗多族的雄牛啊,到了竖立祭柱的时候,便制作了六根毗尔瓦木祭柱,以及同样数量的卡迪罗木与毗尔瓦枝条的各色祭柱。

14.89.30

देवदारुमयौ द्वौ तु यूपौ कुरुपतेर्मखे ।
श्लेष्मातकमयं चैकं याजकाः समकल्पयन् ॥ १४.८९.३० ॥

在俱卢王的祭祀中,祭司们准备了两根提达罗木祭柱和一根粘液果木祭柱。

14.89.31

सर्वानेतान्यथाशास्त्रं याजकाः समकारयन् ।
शोभार्थं चापरान्यूपान्काञ्चनान्भरतर्षभ।
स भीमः कारयामास धर्मराजस्य शासनात् ॥ १४.८९.३१ ॥

祭司们依照经典制作了这一切;婆罗多的雄牛啊,他们还为装饰另制了其他金祭柱。这一切都是毗摩依法王的命令而完成的。

14.89.32

ते व्यराजन्त राजर्षे वासोभिरुपशोभिताः ।
महेन्द्रानुगता देवा यथा सप्तर्षिभिर्दिवि ॥ १४.८९.३२ ॥

王仙啊,它们披着衣饰熠熠生辉,恰如天上追随因陀罗的诸神与七仙人同在。

14.89.33

इष्टकाः काञ्चनीश्चात्र चयनार्तं कृता विभो ।
शुशुभे चयनं तच्च दक्षस्येव प्रजापतेः ॥ १४.८९.३३ ॥

威力者啊,这里为筑祭坛制作了金砖,那祭坛如生主达刹的祭坛般光辉闪耀。

14.89.34

चतुश्चित्यश्च तस्यासीदष्टादशकरात्मकः ।
स रुक्मपक्षो निचितस्त्रिकोणो गरुडाकृतिः ॥ १४.८९.३४ ॥

它有四层,高十八肘。以金翼建成,呈三角形,形如迦卢荼,被砌筑而成。

14.89.35

ततो नियुक्ताः पशवो यथाशास्त्रं मनीषिभिः ।
तं तं देवं समुद्दिश्य पक्षिणः पशवश्च ये ॥ १४.८९.३५ ॥

然后智者们依照经典指定牲畜;鸟类和兽类各自为某位神明而被指定。

14.89.36

ऋषभाः शास्त्रपठितास्तथा जलचराश्च ये ।
सर्वांस्तानभ्ययुञ्जंस्ते तत्राग्निचयकर्मणि ॥ १४.८९.३६ ॥

经典所规定的公牛,以及水中的生物——他们把这一切都安排在那里的火祭坛建造仪式之中。

14.89.37

यूपेषु नियता चासीत्पशूनां त्रिशती तथा ।
अश्वरत्नोत्तरा यज्ञे कौन्तेयस्य महात्मनः ॥ १४.८९.३७ ॥

三百头牲畜系于祭柱之上,其中以马——马中之宝——为首,此乃大德的贡蒂之子的祭祀。

14.89.38

स यज्ञः शुशुभे तस्य साक्षाद्देवर्षिसंकुलः ।
गन्धर्वगणसंकीर्णः शोभितोऽप्सरसां गणैः ॥ १४.८९.३८ ॥

那场祭祀光彩耀目,天神仙人亲临其中,乾闼婆众多聚集,阿普萨拉斯群众随之增色。

14.89.39

स किंपुरुषसंकीर्णः किंनरैश्चोपशोभितः ।
सिद्धविप्रनिवासैश्च समन्तादभिसंवृतः ॥ १४.८९.३९ ॥

那场祭祀充满紧那罗(人身马首者)、紧那罗(歌神)等神众,四周环绕着成就者与婆罗门的居所。

14.89.40

तस्मिन्सदसि नित्यास्तु व्यासशिष्या द्विजर्षभाः ।
सर्वशास्त्रप्रणेतारः कुशला यज्ञकर्मसु ॥ १४.८९.४० ॥

在那个集会中,常驻着毗耶娑的弟子、再生者中的俊杰、诸论典的作者,以及精通祭祀仪轨的人。

14.89.41

नारदश्च बभूवात्र तुंबुरुश्च महाद्युतिः ।
विश्वावसुश्चित्रसेनस्तथाऽन्ये गीतकोविदाः ॥ १४.८९.४१ ॥

此处有那罗陀与光辉灿烂的图布卢,还有毗首伐苏、旃那罗与其他精通歌唱的神众。

14.89.42

गन्धर्वा गीतकुशला नृत्येषु च विशारदाः ।
रमयन्ति स्म तान्विप्रान्यज्ञकर्मान्तरेषु वै ॥ १४.८९.४२ ॥

精通歌唱、擅长舞蹈的乾闼婆,在祭祀诸事的间隙,令那些婆罗门欢悦。