摩诃婆罗多 · 章 14.9
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.9.1
कच्चित्सुखं स्वपिषि त्वं बृहस्पते ।
कच्चिन्मनोज्ञाः परिचारकास्ते।
कच्चिद्देवानां सुखकामोसि विप्र ।
कच्चिद्देवास्त्वां परिपालयन्ति ॥ १४.९.१ ॥
布里哈斯帕蒂啊,你睡得安稳吗?你的侍从是否可爱?婆罗门啊,你是否愿意诸神安乐?诸神是否护佑你?
14.9.2
सुखं शये शयने देवराज ।
तथा मनोज्ञाः परिचारका मे।
तथा देवानां सुखकामोस्मि नित्यं ।
देवाश्च मां सुभृशं पालयन्ति ॥ १४.९.२ ॥
天神之王啊,我安然地躺在床上。我的侍从也同样可爱。我也始终愿诸神安乐,诸神也极力护佑我。
14.9.3
कुतो दुःखं मानसं देहजं वा ।
पाण्डुर्विवर्णश्च कुतस्त्वमद्य।
आचक्ष्व मे ब्राह्मण यावदेता-
न्निहन्मि सर्वांस्तव दुःखकर्तॄन् ॥ १४.९.३ ॥
今天你的苦恼从何而来,是心中之苦还是身体之苦?你为何面色苍白、神色憔悴?婆罗门啊,告诉我,好让我杀尽所有使你受苦之人。
14.9.4
मरुत्तमाहुर्मघवन्यक्ष्यमाणं ।
महायज्ञेनोत्तमदक्षिणेन।
संवर्तो याजयतीति मे श्रुतं ।
तदिच्छामि न स तं याजयेत् ॥ १४.९.४ ॥
摩ghavan啊,人们说末卢多即将举行一场以最丰厚祭礼进行的大祭祀。我听说桑瓦尔塔为他主持祭祀。我希望他不要为他主持祭祀。
14.9.5
सर्वान्कामाननुयातोसि विप्र ।
त्वं देवानां मन्त्रयसे पुरोधाः।
उभौ च ते जरामृत्यू व्यतीतौ ।
किं संवर्तस्तव कर्ताऽद्य विप्र ॥ १४.९.५ ॥
婆罗门啊,你已得到了一切所愿。作为诸神的家庭祭司,你为他们出谋划策。衰老与死亡都已从你身边过去。婆罗门啊,今天桑瓦尔塔能对你做什么呢?
14.9.6
देवैः सह त्वमसुरान्सम्प्रणुद्य ।
जिघांससे चाप्युत सानुबन्धान्।
यंयं समृद्धं पश्यसि तत्रतत्र ।
दुःखं सपत्नेषु समृद्धिभावः ॥ १४.९.६ ॥
你与诸神一起驱逐阿修罗,并想连同他们的追随者一起杀死他们。凡你看到繁荣之处,敌人之中便生出痛苦与繁荣之感。
14.9.7
अतोस्मि देवेन्द्र विवर्णरूपः ।
सपत्नो मे वर्धते तन्निशम्य।
सर्वोपायैर्मघवन्संनियच्छ ।
संवर्तं वा पार्थिवं वा मरुत्तम् ॥ १४.९.७ ॥
因此,诸神之主啊,我的容貌已变得苍白,因为听闻此事,我的对手便在增长。慷慨的因陀罗啊,请以一切方法制止娑婆陀或国王,诸摩录多中最杰出者。
14.9.8
एहि गच्छ प्रहितो जातवेदो ।
बृहस्पतिं परिदातुं मरुत्ते।
अयं वै त्वां याजयिता बृहस्पति-
स्तथाऽमरं चैव करिष्यतीति ॥ १४.९.८ ॥
来吧,去吧!知晓一切生灵的阿耆尼啊,由我派遣,去把布利哈斯帕蒂带到摩录多身边。此布利哈斯帕蒂必定为你主持祭祀,如此也将使你成为不死者。
14.9.9
अहं गच्छामि तव शक्राद्य दूतो ।
बृहस्पतिं परिदातुं मरुत्ते।
वाचं सत्यां पुरुहूतस्य कर्तुं ।
बृहस्पतेश्चापचितिं चिकीर्षुः ॥ १४.९.९ ॥
啸,释迦(Śakra)啊,今日我作为你的使者前往,把布利哈斯帕蒂带到摩录多身边,愿实现补鲁呼陀的真言,并向布利哈斯帕蒂致敬。
14.9.10
तः प्रायाद्धूमकेतुर्महात्मा ।
वनस्पतीन्वीरुधश्चावमृद्गन्।
कामाद्धिमान्ते परिवर्तमानः ।
काष्ठातिगो मातरिश्वेव नर्दन् ॥ १४.९.१० ॥
那以烟为旗的大心阿耆尼出发了,践踏树木与藤蔓,任意在积雪之间往来,越过诸方,如风神摩多利什梵一般咆哮。
14.9.11
आश्वर्यमद्ययामि रूपिणं वह्निमागतम् ।
आसनं सलिलं पाद्यं गां चोपानय वै मुने ॥ १४.९.११ ॥
今日我见到奇迹:火神以可见之形降临。哦,圣者,请奉上座位、清水、洗足水和一头牛。
14.9.12
आसनं सलिलं पाद््रतिनन्दामि तेऽनघ ।
इन्द्रेण तु समादिष्टं विद्धि मां दूतमागतम् ॥ १४.९.१२ ॥
无罪者啊,我欣然接受你奉上的座位、清水和洗足水。请知道,我是受因陀罗派遣而来的使者。
14.9.13
कच्चिच्छ्सुखी च ।
कच्चिच्चास्मान्प्रीयते धूमकेतो।
कच्चिद्देवा अस्य वशे यथाव-
त्प्रब्रूहि त्वं मम कार्त्स्न्येन देव ॥ १४.९.१३ ॥
他安好吗?他对我们是否满意,哦,烟旗者?诸神是否如常处于他的掌控之下?哦,神啊,请完整地告诉我。
14.9.14
शक्रो भृशं सुसुखी पार्थरातिं चेच्छत्यजरां वै त्वया सः ।
देवाश्च सर्वे वशगास्तस्य राज-
न्संदेशं त्वं शृणु मे देवराज्ञः ॥ १४.९.१४ ॥
因陀罗非常喜悦,他希望借你之力使普利塔之子的王国永不衰败。诸神皆在他的掌控之中。哦,国王,请听天神之王的话。
14.9.15
यदर्थं मां प्राहिणोत्त्वत्सकाशं ।
बृहस्पतिं परिदातुं मरुत्ते।
अयं गुरुर्याजयतां नृप त्वां ।
मर्त्यं सन्तममरं त्वां करोतु ॥ १४.९.१५ ॥
他派我来见你的目的是:代表摩录多们将布利哈斯帕蒂赠予你。愿这位导师使你行祭祀,哦,国王,并使你这凡人成为不死者。
14.9.16
संवर्तोऽयं याजयिता द्विजो मां ।
बृहस्पतेरञ्जलिरेष तस्य।
न चैवासौ याजयित्वा महेन्द्रं ।
मर्त्यं सन्तं याजयन्नद्य शोभेत् ॥ १४.९.१६ ॥
这位桑瓦尔塔是为我主持祭祀的婆罗门;这是对布利哈斯帕蒂的敬礼。曾为因陀罗主持祭祀的人,今日若为一个凡人主持祭祀,便不相称。
14.9.17
ये वै लोका देवलोके महान्तः ।
सम्प्राप्स्यसे तान्देवराजप्रसादात्।
त्वां चेदसौ याजयेद्वै बृहस्पति-
र्नूनं स्वर्गं त्वं जयेः कीर्तियुक्तः ॥ १४.९.१७ ॥
天界的那些伟大世界,你将借天王的恩惠而得到。若布利哈斯帕蒂为你主持祭祀,你必定能以荣耀赢得天堂。
14.9.18
तथा लोका मानुषा ये च दिव्याः ।
प्रजापतेश्चापि ये वै महान्तः।
तेते जिता देवराज्यं च कृत्स्नं ।
बृहस्पतिर्याजयेच्चेन्नरेन्द्र ॥ १४.९.१८ ॥
同样,人间诸界、天界诸世界、生主的伟大世界,以及整个天王之国,都将被征服,哦人王,若布利哈斯帕蒂为你主持祭祀。
14.9.19
मा स्मैव त्वं पुनरागाः कथंचि-
द्बृहस्पतिं परिदातुं मरुत्ते।
मा त्वां धक्ष्ये चक्षुषा दारुणेन ।
संक्रुद्धोऽहं पावक त्वं निबोधः ॥ १४.९.१९ ॥
你绝不可再来,设法从马鲁塔手中夺走布利哈斯帕蒂。我怒极之时,将以可怕的目光烧毁你;哦火神,你要知道这一点。
14.9.20
ततो देवानगमद्धूमकेतु-
दीहाद्भीतो व्यथितोऽश्वत्थपर्णवत्।
तं वै दृष्ट्वा प्राह शक्रो महात्मा ।
बृहस्पतेः सन्निधौ हव्यवाहम् ॥ १४.९.२० ॥
于是烟旗(火神)惊恐战栗,如同菩提树叶,前往诸神处。大德释迦见到他,在brihaspati面前对持供者(火)说道。
14.9.21
यस्त्वं गतः प्रहितो जातवेदो ।
बृहस्पतिं परिदातुं मरुत्ते।
तत्किं प्राह स नृपो यक्ष्यमाणः ।
कच्चिद्वचः प्रतिगृह्णाति तच्च। ॥ १४.९.२१ ॥
哦,耶陀毗陀(火神),你被派去将brihaspati交给摩噜多。那位将要行祭的国王说了什么?他是否接受了你的话?
14.9.22
न ते वाचं रोचयते मरुत्तो ।
बृहस्पतेरञ्जलिं प्राहिणोत्सः।
संवर्तो मां याजयितेत्युवाच ।
पुनः पुनः स मया याच्यमानः ॥ १४.९.२२ ॥
摩噜多不喜欢你的话。他向brihaspati送去合掌礼,说摂婆多将为他主持祭祀。虽然我屡次请求,他仍是这样说。
14.9.23
उवाचेदं मानुषा ये च दिव्या ।
प्रजापतेर्ये च लोका महान्तः।
तांश्चेल्लभेयं संविदं तेन कृत्वा ।
तथापि नेच्छेयमिति प्रतीतः ॥ १४.९.२३ ॥
他说道:即使我获得人类、天神的世界,以及生主(Prajāpati)的伟大世界,并与之订立约定,我仍然不会希望那样。
14.9.24
पुनर्गत्वा पार्थिवं त्वं समेत्य ।
वाक्यं मदीयं प्रापय स्वार्थयुक्तम्।
पुनर्यद्युक्तो न करिष्यते वच-
स्त्वत्तो वज्रं सम्प्रहर्तास्मि तस्मै ॥ १४.९.२४ ॥
你再去,见到那位国王,把我这句符合我意图的话转告给他。若他仍不听从,我将通过你向他投掷金刚杵。
14.9.25
गन्धर्वराड्यात्वयं तत्र दूतो ।
बिभेम्यहं वासव तत्र गन्तुम्।
संरब्धो मामब्रवीत्तीक्ष्णरोषः ।
संवर्तो वाक्यं चरितब्रह्मचर्यः ॥ १४.९.२५ ॥
婆娑婆啊,乾闼婆王作为使者前往那里;我害怕去那里。怀着强烈愤怒、持守梵行的僧伐多对我说了这句话。
14.9.26
यद्यागच्छेः पुनरेवं कथंचि-
द्बृहस्पतिं परिदातुं मरुत्ते।
दहेयं त्वां चक्षुषा दारुणेन ।
संक्रुद्ध इत्येतदवैहि शक्र ॥ १४.९.२६ ॥
若你再以任何方式前来放弃布里哈斯帕蒂,摩噜多之主,我将以我凶猛的目光焚烧你。须知,帝释啊:我已愤怒。
14.9.27
त्वमेवान्यान्दहसे जातवेदो ।
न हि त्वदन्यो विद्यते भस्मकर्ता।
त्वत्संस्पर्शात्सर्वलोको बिभेति ।
अश्रद्धेयं वदसे हव्यवाह ॥ १४.९.२७ ॥
耶陀吠陀啊,唯你焚烧他物;除你之外,没有能化为灰烬者。一切世界因你的触碰而恐惧。献供的携带者啊,你说的是令人难以置信之语。
14.9.28
दिवं देवेन्द्र पृथिवीं च सर्वां ।
संवेष्टयेस्त्वं स्वबलेनैव शक्र।
एवंविधस्येह सतस्तवासौ ।
कथं वृत्रस्त्रिदिवं प्राग्जहार ॥ १४.९.२८ ॥
天神之主啊,你凭自身之力便能包裹天空与整个大地,帝释啊。像你这样的存在,弗栗多过去是如何夺走三界的?
14.9.29
नगण्डिकाकारयोगं करेऽणुं ।
न चारिसोमं प्रपिबामि वह्ने।
न क्षीणशक्तौ प्रहारामि वज्रं ।
को मे सुखाय प्रहरेत मर्त्यः ॥ १४.९.२९ ॥
火神啊,我不饮手中小小的甘狄迦混合物,也不饮敌人的苏摩;力量耗尽时我也不投掷金刚杵。什么凡人会为了我的快乐而攻击?
14.9.30
प्रव्रजयेयं कालकेयान्पृथिव्या-
मपाकर्षन्दानवानन्तरिक्षात्।
दिवः प्रह्लादमवसानमानयं ।
को मेऽसुखाय प्रहरेत मानवः ॥ १४.९.३० ॥
我把迦罗刻耶人从大地驱逐,把檀那婆从虚空中拉下,最终把钵罗诃陀从天界带来。哪个凡人会为了我的不幸而攻击?
14.9.31
यत्र शर्यातिं च्यवनो याजयिष्य-
न्सहाश्विभ्यां सोममगृह्णदेकः।
तं त्वं क्रुद्धः प्रत्यषेधीः पुरस्ता-
च्छर्यातियज्ञं स्म तं महेन्द्र ॥ १४.९.३१ ॥
当车耶那与双马童一同为舍耶底举行祭祀,却独自取了苏摩时,你,伟大的因陀罗啊,愤怒地预先阻止了他——也阻止了舍耶底的祭祀。
14.9.32
वज्रं गृहीत्वा च पुरन्दर त्वं ।
सम्प्राहार्षीश्च्यवनस्यातिघोरम्।
स ते विप्रः सह वज्रेणि बाहु-
मपागृह्णात्तपसा जातमन्युः ॥ १४.९.३२ ॥
破城者啊,你举起金刚杵,猛烈地击打车耶那。那位圣仙怒火中烧,凭借苦行之力抓住了你的手臂连同金刚杵。
14.9.33
ततो रोषात्सर्वतो घोररूपं ।
सपत्नं ते जनयामास भूयः।
मदं नाम्ना चासुरं विश्वरूपं ।
यं त्वं दृष्ट्वा चक्षुषी संन्यमीलः ॥ १४.९.३३ ॥
于是他愤怒地又为你生出一个四面皆可怖之形的对手,名叫摩陀,是名为毗湿波如相的阿修罗。你见到他,便闭上了双眼。
14.9.34
हनुरेका जगतीस्था तथैका ।
दिवं गता महतो दानवस्य।
सहस्रं दन्तानां शतयोजनानां ।
सुतीक्ष्णानां घोररूपं बभूव ॥ १४.९.३४ ॥
那大檀那伐的一颚立于大地,另一颚直达天界。他有一千颗极其锋利的牙齿,每颗长百由旬,形貌变得可怖。
14.9.35
वृत्ताः स्थूला रजतस्तम्भवर्णा ।
दंष्ट्राश्चतस्रो द्वे शते योजनानाम्।
स त्वां दन्तान्विदशन्नभ्यधाव-
ज्जिघांसया शूलमुद्यम्य घोरम् ॥ १४.९.३५ ॥
四根獠牙,圆而粗壮,色如银柱,长二百由旬。他想杀你,举起可怖的三叉戟,咬着牙向你冲来。
14.9.36
तं नापश्यस्त्वं तदा घोररूपं ।
सर्वे वै त्वां ददृशुर्दर्शनीयम्।
यस्माद्भीतः प्राञ्जलिस्त्वं महर्षि-
मागच्छेथाः शरणं दानवघ्न ॥ १४.९.३६ ॥
那时你没有看见那可怖之形;众人见到的是你可以被看见的样貌。啊,斩杀檀那伐者,你心怀恐惧,合掌前来向大仙寻求庇护。
14.9.37
क्षात्राद्बलाद्ब्रह्मबलं गरीयो ।
न ब्रह्मतः किञ्चिदन्यद्गरीयः।
सोहं जानन्ब्रह्मतेजो यथाव-
न्न संवर्त गन्तुमिच्छामि शक्र ॥ १४.९.३७ ॥
梵的力量胜过刹帝利的力量,梵之上再无更尊贵者。因此,帝释啊,我真正知晓梵的光辉,所以不愿前往僧伐多那里。