Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.91

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.91.1

पितामहस्य मे यज्ञे धर्मराजस्य धीमतः ।
यदाश्चर्यमभूत्किञ्चित्तद्भवान्वक्तुमर्हति ॥ १४.९१.१ ॥

逐杀夜耶说:在我祖父、智慧的法王的祭祀中,发生了某种奇迹;您应当讲述它。

14.91.2

श्रूयतां राजशार्दूल महदाश्चर्यमुत्तमम् ।
अश्वमेधे महायज्ञे निवृत्ते यदभूत्प्रभो ॥ १४.९१.२ ॥

毗舍衍那说:王中之虎啊,请听,在大马祭圆满结束时发生了一件伟大而殊胜的奇事,主上。

14.91.3

तर्पितेषु द्विजाग्र्येषु ज्ञातिसम्बन्धिबन्धुषु ।
दीनान्धकृपणे वाऽपि तदा भरतसत्तम ॥ १४.९१.३ ॥

毗舍衍那说:婆罗多中最优秀者啊,那时,最杰出的婆罗门、亲族、姻亲和友人都得到了满足,贫者、盲人和乞讨者也是如此。

14.91.4

घुष्यमाणे महादाने दिक्षु सर्वासु भारत ।
पतत्सु पुष्पवर्षेषु धर्मराजस्य मूर्धनि ॥ १४.९१.४ ॥

毗舍衍那说:婆罗多啊,当大布施在四面八方被宣告时,花雨正落在法王的头上。

14.91.5

बिलान्निस्सृत्य नकुलो रुक्मपार्श्वस्तदाऽनघः ।
वज्राशनिसमं नादममुञ्चद्वसुधाधिप ॥ १४.९१.५ ॥

毗舍衍那说:大地之主啊,那时,从洞穴中出来的金色侧腹、无罪的獴发出了如霹雳和闪电般的吼声。

14.91.6

सकृदुत्सृज्य तन्नादं त्रासयानो मृगद्विजान् ।
मानुपं वचनं प्राह पुष्पोपरिशयो महान् ॥ १४.९१.६ ॥

毗舍衍那说:那獴只发出一次那种声音,惊吓鹿和鸟类之后,躺在花上的那位伟大者便以人的言语说话了。

14.91.7

सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो नराधिपाः ।
उच्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ १४.९१.७ ॥

诸位人主啊,你们的这场祭祀,不及那位以拾穗为生、住在俱卢之野的慷慨之人所施的一斗炒面。

14.91.8

तस्य तद्वचनं श्रुत्वा नकुलस्य विशांपते ।
विस्मयं परमं जग्मुः सर्वे ते ब्राह्मणर्षभाः ॥ १४.९१.८ ॥

人主啊,那些婆罗门中的俊杰听了那位无遗的话,都感到极大的惊异。

14.91.9

ततः समेत्य नकुलं पर्यपृच्छन्त ते द्विजाः ।
कुतस्त्वं समनुप्राप्तो यज्ञं साधुसमागमम् ॥ १४.९१.९ ॥

于是那些再生者聚拢在那位无遗身边,问道:「你是从哪里来到这场祭祀、这善人的集会的?」

14.91.10

किं बलं परमं तुभ्यं श्रुतं किं परायणम् ।
कथं भवन्तं विद्याम यो नो यज्ञं विगर्हसे ॥ १४.९१.१० ॥

你的至上之力是什么?你学过什么?你所依恃的是什么?你诋毁我们的祭祀,我们该如何认识你?

14.91.11

अविलुप्यागमं कृत्स्नं विविधैर्यज्ञियैः कृतम् ।
यथागमं यथान्यायं कर्तव्यं च तथा कृतम् ॥ १४.९१.११ ॥

依照经典,不遗漏任何一项,以种种祭祀之仪完整地举行;凡按经典与正理所当行之事,皆已行了。

14.91.12

पूजार्हाः पूजिताश्चात्र विधिवच्छास्त्रदर्शात् ।
मन्त्राहुतिहुतश्चाग्निर्दत्तं देयममत्सरम् ॥ १४.९१.१२ ॥

在此,值得尊敬的人依照经典的训示而如法受到尊奉;火神以咒语之供品受到供养;应当施予的,则毫无嫉妒地施予了。

14.91.13

तुष्टा द्विजातयश्चात्र दानैर्बहुविधैरपि ।
क्षत्रियाश्चि सुयुद्धेन श्राद्धैश्चापि पितामहाः ॥ १४.९१.१३ ॥

此处,再生者因种种布施而欢喜,刹帝利因善战而欢喜,祖先因祭祀(施食)而欢喜。

14.91.14

पालनेन विशस्तुष्टाः कामैस्तुष्टा वरस्त्रियः ।
अनुक्रोशैस्तता शूद्रा दानशेषैः पृथग्जनाः ॥ १४.९१.१४ ॥

吠舍因受保护而欢喜,上等女子因愿望得满而欢喜,首陀罗因慈悲而欢喜,其余众人因布施的余物而欢喜。

14.91.15

ज्ञातिसम्बन्धिनस्तुष्टाः शौचेन च नृपस्य नः ।
देवा हविर्भिः पुण्यैस्च रक्षणैः शरणागताः ॥ १४.९१.१५ ॥

我们王者的清净使亲族欢喜;归依而来的诸神因清净的供物、功德之行和护持而欢喜。

14.91.16

यदत्र तथ्यं तद्ब्रूहि सत्यंसत्यं द्विजातिषु ।
यथाश्रुतं यथादृष्टं पृष्टो ब्राह्मणकाम्यया ॥ १४.९१.१६ ॥

请如实说出此处的真相——在再生者之间,唯真是真;依所闻与所见,应婆罗门之请而问。

14.91.17

श्रद्धेयवाक्यः प्राज्ञस्त्वं दिव्यं रूपं बिभर्षि च ।
समागतश्च विप्रैस्त्वं तद्भवान्वक्तुमर्हति ॥ १४.९१.१७ ॥

你的言语可信,你有智慧,具足神圣的形体,又与婆罗门们相聚;因此,应由你来说。

14.91.18

इति पृष्टो द्विजैस्तैः स प्रहसन्नकुलोऽब्रवीत् ।
नैषा मृषामया वाणी प्रोक्ता दर्पेण वा द्विजाः ॥ १४.९१.१८ ॥

诸再生者如此问讯,那古罗笑着回答:诸位再生者,此言并非虚妄所成,也非出于傲慢而说。

14.91.19

यन्मयोक्तमिदं वाक्यं युष्माभिश्चाप्युपश्रुतम् ।
सक्तुप्रस्थेन वो नायं यज्ञस्तुल्यो द्विजर्षभाः ॥ १४.९१.१९ ॥

我所说的这番话,你们也听到了:以一普拉斯塔炒面所行的此祭,不能与你们相比,诸位婆罗门中的雄牛啊。

14.91.20

इत्यवश्यं मयैतद्वो वक्तव्यं द्विजसत्तमाः ।
शृणुताव्यग्रमनसः शंसतो मे यथातथम् ॥ १४.९१.२० ॥

因此我必须向你们讲述此事,诸位婆罗门中的至尊。请以专注之心听我,我将如实讲述所发生的一切。

14.91.21

अनुभूतं च दृष्टं च यन्मयाऽद्भुतमुत्तमम् ।
उञ्छवृत्तेर्वदान्यस्य कुरुक्षेत्रनिवासिनः ॥ १४.९१.२१ ॥

我亲身经历并亲眼所见的那件奇妙而殊胜之事,关于一位以拾穗为生、慷慨、居住在俱卢之野的人。

14.91.22

स्वर्गं येन द्विजाः प्राप्तः सभार्यः ससुतस्नुषः ।
यथा चार्धं शरीरस्य ममेदं काञ्चनीकृतम् ॥ १४.९१.२२ ॥

诸位婆罗门啊,他由此与妻子、儿子和儿媳一同升入天界;而我的身体这一半也因此变成了黄金。