Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.92

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.92.1

हन्त वः कथयिष्यामि दानस्य फलमुत्तमम् ।
न्यायलब्धस्य सूक्ष्मस्य विप्रदत्तस्य यद्द्विजाः ॥ १४.९२.१ ॥

现在我将告诉你们布施的最高果报:以正当所得之物,细致地施予婆罗门,诸位再生者。

14.92.2

धर्मक्षेत्रे कुरुक्षेत्रे धर्मज्ञैर्बहुभिर्वृते ।
उञ्छवृत्तिर्द्विजः कश्चित्कापोतिरभवत्पुरा ॥ १४.९२.२ ॥

在法之田、俱卢之野,周围环绕着许多通晓正法的人,往昔有一位再生者,以拾穗为生,成了鸽子式的修行者。

14.92.3

सभार्यः सहपुत्रेण सस्नुषस्तपसि स्थितः ।
बभूव शुक्लवृत्तः स धर्मात्मा नियतेन्द्रियः ॥ १४.९२.३ ॥

他与妻子、儿子和儿媳一同安住于苦行之中;他行为清净,心怀正法,诸根受到制约。

14.92.4

षष्ठे काले सदा विप्रो भुङ्क्ते तैः सह संवृतः ॥ १४.९२.४ ॥

在第六时,那位婆罗门总是与他们一起、被他们围绕着进食。

14.92.5

षष्ठे काले कदाचित्तु तस्याहारो न विद्यते ।
भुङ्क्तेऽन्यस्मिन्कदाचित्स षष्ठे काले द्विजोत्तमः ॥ १४.९२.५ ॥

然而在第六时,有时他找不到食物;那位最优秀的再生者有时在别的时候进食。

14.92.6

कपोतधर्मिणस्तस्य दुर्भिक्षे सति दारुणे ।
नाविद्यत तदा विप्राः संचयस्तन्निबोधत ॥ १४.९२.६ ॥

当鸽子式修行者遭遇可怕的饥荒时,那时找不到任何储存之物;诸位婆罗门,请明白此事。

14.92.7

क्षीणाषैदिसमावापो द्रव्यहीनोऽभवत्तदा ।
कालेकालेऽस्य सम्प्राप्ते नैव विद्येत भोजनम् ॥ १४.९२.७ ॥

他的存粮耗尽,变得一无所有。每到进食的时候,他都找不到食物。

14.92.8

क्षुधापरिगताः सर्वे प्रातिष्ठन्त तदा तु ते ।
उञ्छं तदा शुक्लपक्षे मध्यं तपति भास्करे ॥ १४.९२.८ ॥

他们都饥饿难耐,便动身出发。在白半月,正午太阳炽烈时,他们去拾取散落的谷粒(uñcha,拾穗)。

14.92.9

उष्णार्तश्च क्षुधार्तश्च विप्रस्तपसि संस्थितः ।
उञ्छमप्राप्तवानेव ब्राह्मणः क्षुच्छ्रमान्वितः ॥ १४.९२.९ ॥

这位婆罗门饱受炎热和饥饿之苦,仍坚守苦行。他连散落的谷穗也没有得到;这位因饥饿和劳累而疲惫的婆罗门,两手空空。

14.92.10

स तथैव क्षुधाविष्टः सार्धं परिजनेन ह ।
क्षपयामास तं कालं कृच्छ्रप्राणो द्विजोत्तमः ॥ १४.९२.१० ॥

他被饥饿所困,与家人一起以同样的方式度过那段时光。这位最优秀的再生者艰难地维持着生命。

14.92.11

अथ षष्ठे गते काले यवप्रस्थमुपार्जयन् ।
यवप्रस्थं तु तं सक्तूनकुर्वन्त तपस्विनः ॥ १४.९२.११ ॥

之后,过了第六个时段,他们收集了一斗(yava-prastha)大麦,苦行者用这斗大麦做成了萨图(大麦粉)。

14.92.12

कृतजप्याह्निकास्ते तु हुत्वा चाग्निं यथाविधि ।
कुडवंकुडवं सर्वे व्यभजन्त तपस्विनः ॥ १४.९२.१२ ॥

诵经与日常仪式完毕,依规则向火供奉之后,所有苦行者将其分配,每人一枚库达瓦(kuḍava)。

14.92.13

अथागच्छद्द्विजः कश्चिदतिथिर्भुञ्जतां तदा ।
ते तं दृष्ट्वाऽतिथिं प्राप्तं प्रहृष्टमनसोऽभवन् ॥ १४.९२.१३ ॥

那时,一位婆罗门客人来到正在进食的人们之中。他们见到到来的客人,心中都欢喜起来。

14.92.14

तेऽभिवाद्य सुखप्रश्नं पृष्ट्वा तमतिथिं तदा ।
विशुद्धमनसो दान्ताः श्रद्धादमसमन्विताः ॥ १४.९२.१४ ॥

他们向那位客人行礼,询问他的安康。心地纯净、克制自持、具足信与克己的他们,此时便(敬待他)。

14.92.15

अनसूया गतक्रोधाः साधवो वीतमत्सराः ।
त्यक्तमानमदक्रोधा धर्मज्ञा द्विजसत्तमाः ॥ १४.९२.१५ ॥

他们无嫉妒,已舍怒气,为善人,无妒忌;已舍弃傲慢、骄狂与愤怒。他们是通晓法的最优秀的再生族。

14.92.16

सब्रह्यचर्यं गोत्रं ते तस्य ख्यात्वा परस्परम् ।
कुटीं प्रवेशयामासुः क्षुधार्तमतिथिं तदा ॥ १४.९२.१६ ॥

他们互相得知那位客人同学的身份与种姓,便把饥饿所困的客人请进了茅屋。

14.92.17

इदमर्घ्यं च पाद्यं च बृसी चेयं तवानघ ।
शुचयः सक्तवश्चेमे नियमोपार्जिताः प्रभो।
प्रतिगृह्णीष्व भद्रं ते मया दत्ता द्विजर्षभ ॥ १४.९२.१७ ॥

无罪者啊,这是给你的敬水与洗足水,这也是给你的吉祥草坐席。主啊,这些以律戒所得的清净麦粉也在此;请接受。愿你吉祥,再生族中最尊贵者,请接受我所奉献的这些。

14.92.18

इत्युक्तः प्रतिगृह्याथ सक्तूनां कुडवं द्विजः ।
भक्षयामास राजेन्द्र न च तुष्टिं जगाम सः ॥ १४.९२.१८ ॥

那位婆罗门听了这话,便接受了一卡瓦(kuḍava)麦粉吃了下去,王中之王啊;然而他并未得到满足。

14.92.19

स उञ्छवृत्तिस्तं प्रेक्ष्य क्षुधापरिगतं द्विजम् ।
आहारं चिन्तयामास कथं तुष्टो भवेदिति ॥ १४.९२.१९ ॥

那位以拾穗为生的人,看见那被饥饿所困的婆罗门,便思量食物:他怎样才能得到满足?

14.92.20

तस्य भार्याऽब्रवीद्वाक्यं मद्भागो दीयतामिति ।
गच्छत्वेष यथाकामं परितुष्टो द्विजोत्तमः ॥ १४.९२.२० ॥

他的妻子说:「把我的那份给他吧。愿这位最好的婆罗门随意离去,心满意足。」

14.92.21

इति ब्रुवन्तीं तां साध्वीं भार्यां स द्विजसत्तमः ।
क्षउधापरिगतां ज्ञात्वा तान्सक्तून्नाभ्यनन्दत ॥ १४.९२.२१ ॥

这位最好的婆罗门知道他那贤惠的妻子这样说,又知道她被饥饿所困,便对那些大麦粉并不欢喜。

14.92.22

आत्मानुमानतो विद्वान्स तु विप्रर्षभस्तदा ।
जानन्वृद्धां क्षुधार्तां च श्रान्तां ग्लानां तपस्विनीम्।
त्वगस्थिभूता वेपन्तीं ततो भार्यामुवाच ह ॥ १४.९२.२२ ॥

于是那位博学的婆罗门中的雄牛,以自己推想,知道妻子年老、饥饿所苦、疲惫、憔悴而苦修,如今只剩皮包骨头并且发抖,便对她说道。

14.92.23

अपि कीटपतङ्गानां मृगाणां चैव शोभने ।
स्त्रियो रक्ष्याश्च पोष्पाश्च न त्वेवं वक्तुमर्हसि ॥ १४.९२.२३ ॥

光彩照人的妻子啊,即使是昆虫、飞蛾和鹿,雌性也须加以保护和供养。你不该这样说。

14.92.24

अनुकंप्यो नरः पत्न्या पुष्टो रक्षित एव च ।
प्रपतेद्यशसो दीप्तात्स च लोकान्न चाप्नुयात् ॥ १४.९२.२४ ॥

被妻子供养和保护的男人,也值得怜悯;他会从光辉的名声上坠落,也得不到诸天界。

14.92.25

धर्मकामार्थकार्याणि शुश्रूषाकुलसंततिः ।
दारेष्वदीनो धर्मस्च पितॄणामात्मनस्तथा ॥ १४.९२.२५ ॥

法、欲与利的职责;充满侍奉的子嗣;在妻子面前不卑屈;同样,对祖先与自身也当尽法。

14.92.26

न वेत्ति कर्मतो भार्यारक्षणे योऽक्षमः पुमान् ।
अयशो महदाप्नोति नारकांश्चैव गच्छति ॥ १४.९२.२६ ॥

若男子不知如何以行动保护妻子,且无能为力,便会招致大辱,并堕入地狱。

14.92.27

इत्युक्ता सा ततः प्राह धर्मार्थौ नौ समौ द्विज ।
सक्तुप्रस्थचतुर्भागं गृहाणेमं प्रसीद मे ॥ १४.९२.२७ ॥

她听后便说:哦,再生者,法与利对我们二人是相同的;请收下这一普罗斯塔的四分之一炒麦粉,对我施以恩惠。

14.92.28

सत्यं रतिश्च धर्मश्च स्वर्गश्च गुणनिर्जितः ।
स्त्रीणां पतिसमाधीनं काङ्क्षितं च द्विजर्षभ ॥ १४.९२.२८ ॥

真实、喜悦、法与天界,由德行所得;对女子而言,它们依赖于丈夫,也正是她们所求,哦,再生者中的最优者。

14.92.29

ऋतुर्मातु पितुर्बीजं दैवतं परमं पतिः ।
भर्तुः प्रसादान्नारीणां रतिपुत्रफलं तथा ॥ १४.९२.२९ ॥

经期属于母亲,种子属于父亲,丈夫是至高的神明;女子因丈夫的恩惠而得欢乐与子嗣之果。

14.92.30

पालनाद्धि पतिस्त्वं मे भर्ताऽसि भरणाच्च मे ।
पुत्रप्रदानाद्वरदस्तस्मात्सक्तून्प्रयच्छ मे ॥ १४.९२.३० ॥

因你保护我,你便是我的丈夫;因你扶养我,你便是我的夫主;因你赐予子嗣,你便是赐福者。因此,请把炒麦粉给我。

14.92.31

जरापरिगतो वृद्धः क्षुधार्तो दुर्बलो भृशम् ।
उपवासपरिश्रान्तो यदा त्वमपि कर्शितः ॥ १४.९२.३१ ॥

你年老衰弱,饥饿折磨,极为虚弱,因绝食而疲惫,你也已经消瘦了。

14.92.32

इत्युक्तः स तया सक्तून्प्रगृह्येदं वचोऽब्रवीत् ।
द्विजि सक्तूनिमान्भूयः प्रतिगृह्णीष्व सत्तम ॥ १४.९२.३२ ॥

她这样说了,他便拿起麦粉,说了这番话:“婆罗门啊,请再接受这些麦粉吧,善人中的最优者。”

14.92.33

स तान्प्रगृह्य भुक्त्वा च न तुष्टिमगमद्द्विजः ।
तमुञ्छवृत्तिरालक्ष्य ततश्चिन्तापरोऽभवत् ॥ १४.९२.३३ ॥

他拿起并吃了它们,但那婆罗门仍不满足;看出他是靠拾穗为生的人,他便陷入了忧虑。

14.92.34

सक्तूनिमान्प्रगृह्य त्वं देहि विप्राय सत्तम ।
इत्येव सुकृतं मन्ये तस्मादेतत्करोम्यहम् ॥ १४.९२.३४ ॥

善人中的最优者啊,请拿起这些麦粉交给婆罗门。我认为这是善行,所以我这样做。

14.92.35

भवान्हि परिपाल्यो मे सर्वदैव प्रयत्नतः ।
साधूनां काङ्क्षितं यस्मात्पितुर्वृद्धस्य पालनम् ॥ १४.९२.३५ ॥

您应当始终由我精心照料,因为善人所愿的,正是赡养年迈的父亲。

14.92.36

पुत्रार्थो विहितो ह्येष वार्धके परिपालनम् ।
श्रुतिरेषा हि विप्रर्षे त्रिषु लोकेषु शाश्वती ॥ १४.९२.३६ ॥

正为此目的,才设立了儿子:在老年时保护父亲。婆罗门中的圣者啊,这是三界中永恒的吠陀教导。

14.92.37

प्राणाधारणमात्रेण शक्यं कर्तुं तपस्त्वया ।
प्राणो हि परमो धर्मः स्थितो देहेषु देहिनाम् ॥ १४.९२.३७ ॥

只要维持生命,你便能修行苦行;因为气息即生命,是至高的法,安住于有身众生的身体之中。

14.92.38

अपि वर्षसहस्री त्वं बाल एव मतो मम ।
उत्पाद्य पुत्रं हि पिता कृतकृत्यो भवेत्सुतात् ॥ १४.९२.३८ ॥

即使你已一千岁,在我眼中你仍是孩童。父亲生育了儿子,便因儿子而事业圆满。

14.92.39

बालानां क्षुद्बलवती जानाम्येतदहं प्रभो ।
वृद्धोऽहं धारयिष्यामि त्वं बली भव पुत्रक ॥ १४.९२.३९ ॥

主啊,我知道孩童的饥饿最为强烈。我已年老,我会自己维持;儿子,你要强壮起来。

14.92.40

जीर्णेन वयसा पुत्र न मां क्षुद्बाधतेऽपि च ।
दीर्घकालं तपस्तप्तं न मे मरणतो भयम् ॥ १४.९२.४० ॥

儿子,年老之身连饥饿也不困扰我。我长久修行苦行,对死亡并无畏惧。

14.92.41

अपत्यमस्मि ते पुंसस्त्राणात्पुत्र इति स्मृतः ।
आत्मा पुत्रः स्मृतस्तस्मात्त्राह्यात्मानमिहात्मना ॥ १४.९२.४१ ॥

我是你的后代。因保护人,故称为子。自我被认为是儿子;因此在此世间,人应当以自己救护自己。

14.92.42

रूपेण सदृशस्त्वं मे शीलेन च दमेन च ।
परीक्षितश्च बहुधा सक्तूनादद्मि ते सुत ॥ १४.९२.४२ ॥

你的容貌与我相似,品性与自制也相同。我已多方考验过你;儿子,我将为你而进食炒面。

14.92.43

इत्युक्त्वाऽऽदाय तान्सक्तून्प्रीतात्मा द्विजसत्तमः ।
प्रहसन्निव विप्राय स तस्मै प्रददौ तदा ॥ १४.९२.४३ ॥

说罢,心怀喜悦的最优秀的再生者取过那些麦粉,仿佛含笑一般,当即将它们交给了那位婆罗门。

14.92.44

भुक्त्वा तानपि सक्तून्स नैव तुष्टो बभूव ह ।
उच्छवृत्तिस्तु धर्मात्मा व्रीडामनुजगाम ह ॥ १४.९२.४४ ॥

即便吃了那些麦粉,他也未感满足;而以拾穗为生的那位法魂,却被羞愧所笼罩。

14.92.45

तं वै वधूः स्थिता साध्वी ब्राह्मणिप्रियकाम्यया ।
सक्तूनादाय संहृष्टा श्वशुरं वाक्यमब्रवीत् ॥ १४.९२.४५ ॥

于是,贤淑的儿媳为了讨婆罗门的欢心,欣然拿着麦粉站立,对公公说了这些话。

14.92.46

संतानात्तव संतानं मम विप्र भविष्यति ।
सक्तूनिमानतिथये गृहीत्वा सम्प्रयच्छ मे ॥ १४.९२.४६ ॥

你的子嗣将成为我的子嗣。婆罗门啊,请取这些麦粉,为客人交给我吧。

14.92.47

तव प्रसादान्निर्वृत्ता मम लोकाः किलाक्षयाः ।
पुत्रेण तानवाप्नोति यत्र गत्वा न शोचति ॥ १४.९२.४७ ॥

靠你的恩典,我的不灭世界确实已经获得。人借由儿子得到那些世界,到了那里便不再悲伤。

14.92.48

धर्माद्या हि यथा त्रेता वह्नित्रेता तथैव च ।
तथैव पुत्रपौत्राणां स्वर्गस्त्रेता किलाक्षयः ॥ १४.९२.४८ ॥

正如从法生出三火一样,子孙的天界也是三重的,实在是不灭的。

14.92.49

पितॄणात्तारयति पुत्र इत्यनुशुश्रुम ।
पुत्रपौत्रैश्च नियतं सादुलोकानुपाश्नुते ॥ १४.९२.४९ ॥

我们传闻:儿子能拯救祖先。通过子孙,他必定能到达祖先的世界。

14.92.50

वातातपविशीर्णाङ्गीं त्वां विवर्णां निरीक्ष्य वै ।
कर्शितां सुव्रताचारे क्षुधाविह्वलचेतसम् ॥ १४.९२.५० ॥

见你肢体被风与日晒枯萎,面色苍白消瘦,你啊,持守善愿、行为端正之人,心神因饥饿而昏乱。

14.92.51

कथं सक्तून्ग्रहीष्यामि भूत्वा धर्मोपघातकः ।
कल्याणवृत्ते कल्याणि नैव त्वं वक्तुमर्हसि ॥ १४.९२.५१ ॥

我若成为破坏法度之人,怎能接受炒面?善行的你啊,吉祥的你,你不应说这样的话。

14.92.52

षष्ठे काले व्रतवतीं शौचशीलतपोन्विताम् ।
कृच्छ्रवृत्तिं निराहारां द्रक्ष्यामि त्वां कथं शुभे ॥ १४.९२.५२ ॥

在第六时辰持守誓愿、具备清净、德行与苦行的你,过着艰苦的生活,断食不食,啊吉祥的你,我怎能看见你这样?

14.92.53

बाला क्षुधार्ता नारी च रक्ष्या त्वं सततं मया ।
उपवासपरिश्रान्ता त्वं हि बान्धवनन्दिनी ॥ १४.९२.५३ ॥

你是少女,又因饥饿而受苦,身为女子,我应当始终保护你。你因禁食而疲惫,却是亲族的喜乐。

14.92.54

गुरोर्मम गुरुस्त्वं वै यतो दैवतदैवतम् ।
देवातिदेवस्तस्मात्त्वं सक्तूनादत्स्व मे प्रभो ॥ १४.९२.५४ ॥

你是我老师的老师,因为你是神中之神。因此,主啊,请接受我的炒面。

14.92.55

देहः प्राणश्च धर्मश्च शुश्रूषार्थमिदं गुरोः ।
तव विप्र प्रसादेन लोकान्प्राप्स्यामहे शुभान् ॥ १४.९२.५५ ॥

此身、此命与此法,皆为侍奉尊师而设。婆罗门啊,蒙您恩典,我们将得到吉祥的诸界。

14.92.56

अवेक्ष्या इति कृत्वाऽहं दृढभक्तेति वा द्विज ।
चिन्त्या ममेयमिति वा सक्तूनादानुमर्हसि ॥ १४.९२.५६ ॥

或以我为坚定的信徒,或以此为我的侍奉,婆罗门啊,您应当接受这炒面。

14.92.57

अनेन नित्यं साध्वी त्वं शीलवृत्तेन शोभसे ।
या त्वं धर्मव्रतोपेता गुरुवृत्तिमवेक्षसे ॥ १४.९२.५७ ॥

你以此德行常显贤德之光,持守法之誓愿,专心侍奉尊长。

14.92.58

तस्मात्सक्तून्ग्रहीष्यामि वधु नार्हसि वञ्चनाम् ।
गणयित्वा महाभागे त्वां हि धर्मभृतां वरे ॥ १४.९२.५८ ॥

因此我将接受这炒面;媳妇啊,你不该欺骗。大福之人啊,你被视为持法者中最优秀的。

14.92.59

इत्युक्त्वा तानुपादाय सक्तून्प्रादाद्द्विजातये ।
ततस्तुष्टोऽभवद्विप्रस्तस्य साधोर्महात्मनः ॥ १४.९२.५९ ॥

说完,她取来炒面交给这位婆罗门;于是这位婆罗门对这位善良的大德之人心生欢喜。

14.92.60

प्रीतात्मा स तु तं वाक्यमिदमाह द्विजर्षभम् ।
वाग्मी तदा द्विजश्रेष्टो धर्मः पुरुषविग्रहः ॥ १४.९२.६० ॥

法神化身为人,心怀欢喜,善于言辞,对那位婆罗门中的雄牛、再生者中最优秀者说出了这些话。

14.92.61

शुद्धेनि तव दानेन न्यायोपात्तेन धर्मतः ।
यथाशक्ति विसृष्टेन प्रीतोस्मि द्विजसत्तम ॥ १४.९२.६१ ॥

你以正当途径获得、依法并尽力所施的清净布施,令我欢喜,哦,婆罗门中最优秀者。

14.92.62

अहो दानं घुष्यते ते स्वर्गे स्वर्गनिवासिभिः ।
गगनात्पुष्पवर्षं च पश्येदं पतितं भुवि ॥ १४.९२.६२ ॥

啊!天界的居民正在颂扬你的布施。请看这从天而降、落于大地的花雨。

14.92.63

सुरर्षिदेवगन्धर्वा ये च देवपुरःसराः ।
स्तुवन्तो देवदूताश्च स्थिता दानेन विस्मिताः ॥ १४.९२.६३ ॥

诸天神、仙人、乾闼婆,以及诸神中的首领和天神使者,都因你的布施而惊叹,站立赞颂你。

14.92.64

ब्रह्मर्षयो विमानस्था ब्रह्मलोकचरश्च ये ।
काङ्क्षन्ते दर्शनं तुभ्यं दिवं व्रज द्विजर्षभ ॥ १४.९२.६४ ॥

站在天车上的梵仙,以及行走于梵天界的人,都渴望见到你。哦,婆罗门中的雄牛,请升往天界。

14.92.65

पितृलोकगताः सर्वे तारिताः पितरस्त्वया ।
अनागताश्च बहवः सुबहूनि युगान्युत ॥ १४.९२.६५ ॥

凡已往生祖界的祖先皆因你而得度,尚未到来的众多祖先亦然,并且历经极多的时代。

14.92.66

ब्रह्मचर्येण दानेन यज्ञेनि तपसा तथा ।
अगह्वरेण धर्मेण तस्माद्गच्च दिवं द्विज ॥ १४.९२.६६ ॥

凭梵行、布施、祭祀、苦行,以及深邃难测的法,因此,哦,再生者,请升往天界。

14.92.67

श्रद्धया परया यरत्वं तपश्चरसि सुव्रत ।
तस्माद्देवास्तवानेन प्रीता ब्राह्मणसत्तम ॥ १४.९२.६७ ॥

你以至高的信心修行苦行,善持誓愿者啊;因此,婆罗门中最优秀者啊,诸神因此而对你心生喜悦。

14.92.68

सर्वमेतद्धि यस्मात्ते दत्तं शुद्धेन चेतसा ।
कृच्छ्रकाले ततः स्वर्गो विजितः कर्मणा त्वया ॥ १४.९२.६८ ॥

因为你以清净之心施予了这一切,所以在困厄之时,你凭借自己的行为赢得了天界。

14.92.69

क्षुधा निर्णुदति प्रज्ञां धर्मबुद्धिं व्यपोहति ।
क्षुधापरिगतज्ञानो धृतिं त्यजति चैव ह ॥ १४.९२.६९ ॥

饥饿驱散智慧,去除法的念想;为饥饿所困扰、知识受制的人,必然也会舍弃坚定。

14.92.70

बुभुक्षां जयते यस्तु स स्वर्गं जयते ध्रुवम् ।
यदा दानरुचिः स्याद्वै तदा धर्मो न सीदति ॥ १४.९२.७० ॥

能战胜饥饿的人必定赢得天界;心中喜好布施之时,法便不会衰败。

14.92.71

अनवेक्ष्य सुतस्नेहं कलत्रस्नेहमेव च ।
धर्ममेव गुरं ज्ञात्वा तृष्णा न गणिता त्वया ॥ १४.९२.७१ ॥

无视对儿子的恋慕与对妻子的恋慕,唯以法为至上之师,你不曾把贪欲放在心上。

14.92.72

द्रव्यागमो नृणां सूक्ष्मः पात्रे दानं ततः परम् ।
कालः परतरो दानाच्छ्रद्धा चैव ततः परा ॥ १४.९२.७२ ॥

对于世人,获取财富是微妙的;其次,把施舍给合适的受施者更为高尚;时机比施舍更重要,而信心则更为高尚。

14.92.73

स्वर्गद्वारं सुसूक्ष्मं हि नरैर्माहान्नि दृश्यते ।
सङ्गर्गलं लोभकीलं रागगुप्तं दुरासदम् ॥ १४.९२.७३ ॥

天堂之门极为细微,人们在大施食中可以看见它。它被执着的门闩锁住,被贪欲的钉子钉牢,被爱欲隐藏,难以到达。

14.92.74

तं तु पश्यन्ति पुरुषा जितदक्रोधा जितेन्द्रियाः ।
ब्राह्मणास्तपसा युक्ता यथाशक्ति प्रदायिनः ॥ १४.९२.७४ ॥

然而,能看见它的,是战胜愤怒、制服感官、修行苦行的婆罗门,以及依其能力施舍的人。

14.92.75

सहस्रशक्तिश्च शतं शतशक्तिर्दशापि च ।
दद्यादपश्च यः शक्त्या सर्वे तुल्यफलाः स्मृताः ॥ १४.९२.७५ ॥

拥有千份力量者、百份力量者、十份力量者,以及依其力量施予清水者,都被认为有同等的果报。

14.92.76

रन्तिदेवो हि नृपतिरपः प्रादादकिंचनः ।
शुद्धेन मनसा विप्र नाकपृष्ठं ततो गतः ॥ १४.९२.७६ ॥

婆罗门啊,国王蓝提提婆虽自己一无所有,却以清净之心施水,之后便升往天界之巅。

14.92.77

न धर्मः प्रीयते तात दानैर्दत्तैर्महाफलैः ।
न्यायलब्धैर्यथा सूक्ष्मैः श्रुद्धापूतैः स तुष्यति ॥ १४.९२.७७ ॥

孩子,法不会因布施之大果而欢喜;唯有以正当method所得、细微、以信心清净的布施,它才会满足。

14.92.78

गोप्रदानसहस्राणि द्विजेभ्योऽदान्नृगो नृपः ।
एकां दत्त्वा स पारक्यां नरकं समपद्यत ॥ १४.९२.७८ ॥

国王那伽布施给婆罗门成千上万头牛,然而他将一头属于他人的牛施舍出去,便堕入了地狱。

14.92.79

आत्ममांसप्रदानेन शिबोरौशीनरो नृपः ।
प्राप्य पुण्यकृताँल्लोकान्मोदत दिवि सुव्रतः ॥ १४.९२.७९ ॥

乌尸那罗之子尸毗王以自身之肉布施,得到有功德者之世界,以坚守誓愿之身在天上欢喜。

14.92.80

विभवेन नृणां पुण्यं यच्छत्त्या स्वार्जितं न तत् ।
न यज्ञैर्विविधैर्विप्र यथान्यायेन संचितैः ॥ १४.९२.८० ॥

人的功德不在于财富,也不在于以自身力量所得;婆罗门啊,也不在于依法积累的种种祭祀。

14.92.81

क्रोधाद्दानफलं हन्ति लोभात्स्वर्गं न गच्छति ।
न्यायवृत्तिर्हि तपसा दानवित्स्वर्गमश्नुते ॥ १४.९२.८१ ॥

愤怒毁坏布施的果报;因贪婪者不得升天。唯行事公正、以苦行知晓布施者,方能得到天界。

14.92.82

न राजसूयैर्बहुभिरिष्टा विपुलदक्षिणैः ।
न चाश्वमेधैर्बहुभिः फलं सममिदं तव ॥ १४.९२.८२ ॥

即便举行许多大量布施的王祭与许多马祭,也得不到那样的果报;你的这份果报并不与它们相等。

14.92.83

सक्तुप्रस्थेन विजितो ब्रह्मलोकस्त्वयाऽक्षयः ।
विरजो ब्रह्मसदनं गच्छ विप्र यतासुखम् ॥ १४.९२.८३ ॥

你以一普拉斯塔的大麦粉赢得了不朽的梵界。婆罗门啊,请安然前往无垢的梵天居所。

14.92.84

सर्वेषां वो द्विजश्रेष्ठ दिव्यं यानमुपस्थितम् ।
आरोहत यथाकामं धर्मोस्मि द्विज पश्य माम् ॥ १४.९२.८४ ॥

诸位婆罗门中的尊者啊,为你们所有人,神圣的车乘已经到来,随你们心意登上。婆罗门啊,请看我——我就是法。

14.92.85

बाधितो हि त्वया देहो लोके कीर्तिः स्थिरा च ते ।
सभार्यः सहपुत्रश्च सस्नुषश्च दिवं व्रज ॥ १४.९२.८५ ॥

你虽折磨了身体,但你在世间的名声永存。与妻子、儿子和儿媳一同升天去吧。

14.92.86

इत्युक्तवाक्ये धर्मे तु यानमारुद्य स द्विजः ।
सदारः ससुतश्चैव सस्नुषश्च दिवं गतः ॥ १४.९२.८६ ॥

法神说完这些话后,那婆罗门登上车,与妻子、儿子和儿媳一同升往天界。

14.92.87

तस्मिन्विपरे गते स्वर्गं ससुते सस्नुषे तदा ।
भार्याचतुर्थे धर्मज्ञे ततोऽहं निःसृतो बिलात् ॥ १४.९२.८७ ॥

哦,知法者啊,当那婆罗门与妻子、儿子、儿媳一同升天后,我便与妻子作为第四人,从洞穴中走了出来。

14.92.88

ततस्तु सक्तुगन्धेन क्लेदेन सलिलस्य च ।
दिव्यपुष्पविमर्दाच्च साधोर्दानलवैश्च तैः ॥ १४.९२.८८ ॥

于是,由于炒面的香气、水的湿润、天界花朵的碾压,还有,哦善人,那布施的碎屑。

14.92.89

विप्रस्य तपसा तस्य शिरो मे काञ्चनीकृतम् ।
तस्य सत्याभिसन्धस्य सक्तुदानेन चैव ह ॥ १४.९२.८९ ॥

由于那婆罗门的苦行,我的头变成了金色;也由于那位誓愿真实者的炒面布施。

14.92.90

शरीरार्धं च मे विप्राः शातकुंभमयं कृतम् ।
पश्यतेमं सुविपुलं तपसा तस्य धीमतः ॥ १४.९२.९० ॥

诸位婆罗门啊,我的半个身体也被化作了黄金。请看这极大的(黄金),这是那位智者苦行的成果。

14.92.91

कथमेवंविधं स्याद्वै पार्श्वमन्यदिति द्विजाः ।
तपोवनानि यज्ञांश्च हृष्टोऽभ्योमि पुनः पुनः। ॥ १४.९२.९१ ॥

诸位再生者啊,这样的另一侧怎会存在?我回想苦行林与祭祀,一再欢喜。

14.92.92

यज्ञं त्वहमिमं श्रुत्वा रुरुराजस्य धीमतः ।
आशया परया प्राप्तो न चाहं काञ्चनीकृतः ॥ १४.९२.९२ ॥

然而我听闻智慧的罗卢王的此祭,怀着极大的希望前来,却未被变成黄金。

14.92.93

ततो मयोक्तं तद्वाक्यं प्रहस्य ब्राह्मणर्षभाः ।
सक्तुप्रस्थेन यज्ञोऽयं संमितो नेति सर्वथा ॥ १४.९२.९३ ॥

于是,诸位婆罗门中的雄牛啊,我笑着说了这番话:此祭绝非以一普拉斯塔的炒面来衡量的。

14.92.94

सक्तुप्रस्थलवैस्तैर्हि तदाऽहं काञ्चनीकृतः ।
न हि यज्ञो महानेष सदृशस्तैर्मतो मम ॥ १४.९२.९४ ॥

那时,我并未因那些炒面的份量而化为黄金;这场大祭在我看来确实不能与之相比。

14.92.95

इत्युक्त्वा नकुलः सर्वान्यज्ञे द्विजवरांस्तदा ।
जगामादर्सनं तेषां विप्रास्ते च ययुर्गृहान् ॥ १४.९२.९५ ॥

说完这番话,那罗迦便在此祭中所有最好的再生者面前消失了;那些婆罗门也各自回家去了。

14.92.96

एतत्ते सर्वमाख्यातं मया परपुरंजय ।
यदाश्चर्यमभूत्तत्र वाचिमेधे महाक्रतौ ॥ १४.९२.९६ ॥

征服敌城的英雄啊,我已把那在伟大的马祭中所发生的奇迹,全部告诉你了。

14.92.97

न विस्मयस्ते नृपते यज्ञे कार्यः कथञ्चन ।
ऋषिकोटिसहस्राणि तपोभिर्ये दिवं गताः ॥ १४.९२.९७ ॥

君王啊,你在祭祀中绝不应感到惊异,因为成千上万的仙人已经通过苦行升入天界。

14.92.98

अद्रोहः सर्वभूतेषु संतोषः शीलमार्जवम् ।
तपो दमश्च सत्यं च प्रदानं चेति संमितम् ॥ १४.९२.९८ ॥

不害一切众生、知足、品行、正直、苦行、自制、真实与布施——这些被认为是标准。