Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 14.93

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

14.93.1

यज्ञे सक्ता नृपतयस्तपःसका महर्षयः ।
शान्तिव्यवस्थिता विप्राः शमे दम इति प्रभो ॥ १४.९३.१ ॥

主啊,诸王专注于祭祀,大仙专注于苦行,婆罗门则安住于寂静与克制之中。

14.93.2

तस्माद्यज्ञफलैस्तुल्यं न किञ्चिदिह दृश्यते ।
इति मे वर्तते बुद्धिस्तथा चैतदसंशयम् ॥ १४.९३.२ ॥

因此,此处不见有任何可与祭祀之果相比的事物;这是我的想法,此事毫无疑问。

14.93.3

यज्ञैरिष्ट्वा तु बहवो राजानो द्विजसत्तमाः ।
इह कीर्ति परां प्राप्य प्रेत्य स्वर्गमितो गताः ॥ १४.९३.३ ॥

诸位再生族中的至上者啊,许多国王以祭祀崇拜神灵,在此获得无上的名声,死后从此升往天界。

14.93.4

देवराजः सहस्राक्षः क्रतुभिर्भूरिदक्षिणैः ।
देवराज्यं महातेजाःक प्राप्तवानखिलं विभुः ॥ १४.९३.४ ॥

千眼的天王因特士,以丰厚布施的祭祀,成为大威光者且具有力量,获得了整个天界的王权。

14.93.5

अतो युधिष्ठिरो राजा भीमार्जुनपुरःसरः ।
सदृशो देवराजेन समृद्ध्या विक्रमेण च ॥ १४.९३.५ ॥

因此,由怖军与阿周那率领的国王坚战,在繁荣与勇武上与天王相等。

14.93.6

अथ कस्मात्स नकुलो गर्हयामास तं क्रतुम् ।
अश्वमेधं महायज्ञं राज्ञस्तस्य महात्मनः ॥ १४.९३.६ ॥

那么,无种为何非议那位高尚君王的马祭大祭?

14.93.7

यज्ञस्य विधिमग्र्यं वै फलं चापि नराधिप ।
गदतः शृणु मे राजन्यथावदिह भारत ॥ १४.९३.७ ॥

国王啊,我将如实讲述祭祀的最高仪轨及其果报;婆罗多之子啊,请在此听我说。

14.93.8

पुरा शक्रस्य यजतः सर्व ऊचुर्महर्षयः ।
ऋत्विक्षु कर्मव्यग्रेषु वितते यज्ञकर्मणि ॥ १४.९३.८ ॥

往昔,帝释天举行祭祀,祭祀之事铺陈广大,祭司们各自忙于其职,诸大仙人都说道。

14.93.9

हूयमाने तथा वह्नौ होत्रा गुणसमन्विते ।
देवष्वाहूयमानेषु स्थितेषु परमर्षिषु ॥ १४.९३.९ ॥

火中正在献祭,具德的呼唤祭司在行礼,诸神正被召请,最高的仙人们站立在旁。

14.93.10

सुप्रतीतैस्तथा विप्रैः स्वागमैः सुस्वरैर्नृप ।
अश्रान्तैश्चापि लघुभिरध्वर्युवृषभैस्तथा ॥ १४.९३.१० ॥

国王啊,有欢喜的婆罗门,各依其传承,声音美妙,不知疲倦而敏捷,还有最优秀的阿ध्वर्यु祭司。

14.93.11

आलम्भसमये तस्मिन्गृहीतेषु पशुष्वथ ।
महर्षयो महाराज बभूवुः कृपयाऽन्विताः ॥ १४.९३.११ ॥

那时,祭祀绑缚之时牲畜已被捉住,大王啊,诸大仙人心中充满了怜悯。

14.93.12

ततो दीनान्पशून्दृष्ट्वा ऋषयस्ते तपोधनाः ।
ऊचुः शक्रं समागम्य नायं यज्ञविधिः शुभः ॥ १४.९३.१२ ॥

于是,见到那些可怜的牲畜,以苦行为财富的诸仙人走近因陀罗,说道:此祭祀之仪轨并不吉祥。

14.93.13

अपरिज्ञानमेतत्ते महान्तं धर्ममिच्छतः ।
सन्ति यज्ञे बहुगुणा विधिदृष्टाः पुरंदर ॥ १४.९३.१३ ॥

补罗摩陀罗啊,你这渴求大法的人,这是你的无知;依仪轨所行的祭祀中有许多功德。

14.93.14

धर्मोपघातकस्त्वेष समारंभस्तव प्रभो ।
नायं धर्मकृतो यज्ञो न हिंसा धर्म उच्यते ॥ १४.९३.१४ ॥

主啊,你这举动破坏法;此祭祀并非行法之事,伤害生命不称为法。

14.93.15

आगमेनैव ते यज्ञं कुर्वन्तु यदि चेच्छसि ।
विधिदृष्टेन यज्ञेन धर्मस्ते सुमहान्भवेत् ॥ १४.९३.१५ ॥

若你愿意,就让他们依经典为你举行祭祀;依仪轨所行的祭祀,将使你的法极为广大。

14.93.16

यज्ञं बीजैः सहस्राक्ष त्रिवर्षपरमोषितेः ।
एष धर्मो महाञ्शक्र चिन्तयानोसि गम्यते ॥ १४.९३.१६ ॥

千眼啊,用储存不超过三年的种子行祭祀;这便是大法,帝释啊,你思虑之时它便被人所得。

14.93.17

शतक्रतुस्तु तद्वाक्यमृषिभिस्तत्त्वदर्शिभिः ।
उक्तं न प्रतिजग्राह मानमोहवशं गतः ॥ १४.९३.१७ ॥

然而百祭之主因陀罗,没有接受那些见真实者的仙人所说的话;他已陷入骄慢与迷妄之中。

14.93.18

तेषां विवादः सुमहाञ्शक्रयज्ञे तपस्विनाम् ।
जङ्गमैः स्थावरैर्वाऽपि यष्टव्यमिति भारत ॥ १४.९३.१८ ॥

婆罗多啊,在帝释的祭祀中,那些苦行者之间发生了极大的争论:应以动物还是以不动之物来祭祀。

14.93.19

ते तु खिन्ना विवादेन ऋषयस्तत्त्वदर्शिनः ।
अभिसंधाय शक्रेण पप्रच्छुर्नृपतिं वसुम् ॥ १४.९३.१९ ॥

那些见真理的仙人,因争论而疲惫,与帝释商定后,向国王和修(Vasu)发问。

14.93.20

धर्मसंशयमापन्नान्सत्यं ब्रूहि महामते ।
महाभाग कथं यज्ञेष्वागमो नृपसत्तम।
यष्टव्यं पशुभिर्मेध्यैरथो बीजैरजैरिति ॥ १४.९३.२० ॥

智慧者啊,请对陷入法之疑惑的我们说真话。大福者,诸王之最,祭祀中的传统是什么——应以洁净的牲畜、以谷种,还是以未生的山羊来献祭?

14.93.21

तच्छ्रुत्वा तु वसुस्तेषामविचार्य बलाबलम् ।
यथोपनीतैर्यष्टव्यमिति प्रोवाच पार्थिवः ॥ १४.९३.२१ ॥

闻言,国王和修不加考量他们论点的强弱,便说:应以所奉上之物来献祭。

14.93.22

एवमुक्त्वा स नृपतिः प्रविवेश रसातलम् ।
उक्त्वेह वितथं राजंश्चेदीनामीश्वरः प्रभुः ॥ १४.९३.२२ ॥

说罢,那位国王便进入了地下世界罗萨塔拉。国王啊,他在此说了虚妄之言,强大的遮底王主便降入其中。

14.93.23

तस्मान्नि वाच्यं ह्येकेन बहुज्ञेनापि संशये ।
प्रजापतिमपाहाय स्वयंभुवमृते प्रभुम् ॥ १४.९३.२३ ॥

因此,在疑惑中,即使一人博学多识,也不应独自发言——除了自生的主宰生主。

14.93.24

तेन दत्तानि दानानि पापेनाशुद्धबुद्धिना ।
तानि सर्वाण्यनादृत्य नश्यन्ति विपुलान्यपि ॥ १४.९३.२४ ॥

那个罪人、心智不净之人所施的布施——无论多么丰厚,皆被轻视而消亡。

14.93.25

तस्याधर्मप्रवृत्तस्य हिंसकस्य दुरात्मनः ।
दानेन कीर्तिर्भवति न प्रेत्येह च दुर्मतेः ॥ १४.९३.२५ ॥

行非法、残暴、恶心而愚昧者,即使布施,也得不到名声,无论今世还是来世。

14.93.26

अन्यायोपगतं द्रव्यमभीक्ष्णं यो ह्यपण्डितः ।
धर्माभिकाङ्क्षी त्यजति न स धर्मफलं लभेत् ॥ १४.९३.२६ ॥

无智者虽然渴望法,却屡次舍弃以非法所得的财物,他不会得到法的果报。

14.93.27

धर्मवैतंसिको यस्तु पापात्मा पुरुषाधमः ।
ददाति दानं विप्रेभ्यो लोकविश्वासकारणम् ॥ १४.९३.२७ ॥

那假装行法、心怀罪恶、人中最卑劣之人,向婆罗门布施,是为了赢得世人的信任。

14.93.28

पापेन कर्मणा विप्रो धनं प्राप्य निरङ्कुशः ।
रागमोहान्वितः सोन्ते कलुषां गतिमश्नुते ॥ १४.९३.२८ ॥

婆罗门以罪恶之业获得财富,变得放纵而充满贪爱与迷妄,最终将走向污秽的归宿。

14.93.29

अपि संचयबुद्धिर्हि लोभमोहवशं गतः ।
यज्ञं करोति भूतानि पापेनाशुद्धबुद्धिना ॥ १४.९३.२९ ॥

即使心怀积聚、受贪欲与迷妄支配的人,也会举行祭祀;众生以罪恶与不净的心念如此行事。

14.93.30

एवं लब्ध्वा धनं मोहाद्यो हि दद्याद्यजेत वा ।
न तस्य स फलं प्रेत्य भुंक्ते पापधनागमात् ॥ १४.९३.३० ॥

如此得到财富,因迷妄而布施或祭祀的人,死后不能享受其果报,因为财富来自罪恶。

14.93.31

उञ्छं मूलं फलं शाकमुदपात्रं तपोधनाः ।
दानं विभवतो दत्त्वा नराः स्वर्यान्ति धार्मिकाः ॥ १४.९३.३१ ॥

拾穗之粮、树根、果实、菜蔬与水器,诸苦行富有者啊!人们依其财力布施之后,行法之人便升往天界。

14.93.32

एष धर्मो महायोगो दानं भूतदया तथा ।
ब्रह्मचर्यं तथा सत्यमनुक्रोशो धृतिः क्षमा ॥ १४.९३.३२ ॥

此乃法,大瑜伽:布施、怜悯众生、梵行、真实、慈悲、坚定与忍辱。

14.93.33

सनातनस्य धर्मस्य फलमेतत्सनातनम् ।
श्रूयन्ते हि पुरावृत्ता विश्वामित्रादयो नृपाः ॥ १४.९३.३३ ॥

此乃永恒之法的永恒果报。古老传说中听闻,毗首密多罗等诸王皆以此得成。

14.93.34

विश्वामित्रोसितश्चैवं जनसश्च महीपतिः ।
कक्षसेनार्ष्टिसेनौ च सिन्धुद्वीपश्च पार्थिवः ॥ १४.९३.३४ ॥

毗首密多罗、阿私多,以及地主阁那娑,迦叉婆那、阿利瑟吒婆那,还有国王信度洲。

14.93.35

एते चान्ये च बहवः सिद्धिं परमिकां गताः ।
नृपाः सत्यैश्च दानैश्च न्यायलब्धैस्तपोधनाः ॥ १४.९३.३५ ॥

这些人以及其他众多国王,以苦行为财富,凭借真实与以正当所得而施舍,达到了至高的成就。

14.93.36

ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा ये चाश्रितास्तपः ।
दानधर्माग्निना शुद्धास्ते स्वर्गं यान्ति भारत ॥ १४.९३.३६ ॥

婆罗门、刹帝利、吠舍,以及依托苦行的首陀罗,以布施与法之火而得净化,便升往天界,婆罗多啊。