摩诃婆罗多 · 章 14.97
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
14.97.1
एवमात्मोद्भवं सर्वं यगदुद्दिश्य केशवः ।
धर्मान्धर्मात्मजस्याथ पुण्यानकथयत्प्रभुः ॥ १४.९७.१ ॥
如此,毗湿奴(克里希纳)论及一切由自我而生者,向法之子(坚战)讲述了神圣的法义。
14.97.2
शृणु पाण्डव तत्वेन पवित्रं पापनाशनम् ।
कथ्यमानं मया पुण्यं धर्मशास्त्रफलं महत् ॥ १४.९७.२ ॥
般度之子啊,请如实听我说:我所讲述的,是神圣的、能消除罪恶的、有功德的,是法论典籍的巨大果报。
14.97.3
यः शृणोति शुचिर्भूत्वा एकचित्तस्तपोयुतः ।
स्वर्ग्यं यशस्यामायुष्यं धर्मं ज्ञेयं युधिष्ठिर ॥ १४.९७.३ ॥
若人清净,专一其心,具足苦行而听闻此法——耶输提罗啊,此法当知能赐天界、名声与长寿。
14.97.4
श्रद्दधानस्य तस्येह यत्पापं पूर्वसंचितम् ।
विनश्यत्याशु तत्सर्वं मद्भक्तस्य विशेषतः ॥ १४.९७.४ ॥
对于有信心者,其往昔所积之罪,皆迅速消灭——尤其是我的信徒。
14.97.5
एवं श्रुत्वा वचः पुण्यं सत्यं केशवभाषितम् ।
प्रहृष्टमनसो भूत्वा चिन्तयन्तोऽद्भुतं परम् ॥ १४.९७.५ ॥
听闻毗湿奴所说的这些有功德且真实的言辞,他们心生欢喜,开始思念那至上的奇妙之事。
14.97.6
देवब्रह्मर्षयः सर्वे गन्धर्वाप्सरसस्तथा ।
भूता यक्षग्रहाश्चैव गुह्यका भुजगास्तथा ॥ १४.९७.६ ॥
诸天、梵仙、一切乾闼婆与阿普莎罗,以及鬼魂、夜叉、星魔、隐藏者与蛇众。
14.97.7
वालखिल्या महात्मानो योगिनस्तत्वदर्शिनः ।
तथा भागवताश्चापि पञ्चकालमुपासकाः ॥ १४.९७.७ ॥
大心的瓦拉希利耶、见真谛的瑜伽行者,以及依五时之法崇拜的薄伽梵信徒。
14.97.8
कौतूहलसमाविष्टाः प्रहृष्टैन्द्रियमानसाः ।
श्रोतुकामाः परं धर्मं वैष्णवं धर्मशासनम्।
हृदि कर्तुं च तद्वाक्यं प्रणेमुः शिरसा नताः ॥ १४.९७.८ ॥
满怀好奇,感官与心意欢喜,渴望听闻至上的毗湿奴法教,并将其言语铭记于心,他们都低首俯身致礼。
14.97.9
ततस्तान्वासुदेवेन दृष्टान्दिव्येन चक्षुषा ।
विमुक्तपापानालोक्य प्रणम्य शिरसा हरिम्।
पप्रच्छ केशवं धर्मं धर्मपुत्रः प्रतापवान् ॥ १४.९७.९ ॥
瓦苏提婆以天眼见他们已脱离罪恶,于是威严的法王之子低首向哈里·凯沙VA致礼,向他询问法。
14.97.10
कीदृशी ब्राह्मणस्याथ क्षत्रियस्यापि कीदृशी ।
वैश्यस्य कीदृशी देव गतिः शूद्रस्य कीदृशी ॥ १४.९७.१० ॥
天神啊,婆罗门的归宿如何?刹帝利的归宿又如何?吠舍的归宿如何,首陀罗的归宿又如何?
14.97.11
कथं बध्येत पाशेन ब्राह्मणस्तु यमालये ।
क्षत्रियो वाथ वैश्यो वा शूद्रो वा बध्यते कथम्।
एतत्कर्मफलं ब्रूहि लोकनाथ नमोस्तु ते ॥ १४.९७.११ ॥
在阎摩之界,婆罗门、刹帝利、吠舍或首陀罗如何被罗索缚住?请告诉我这业的果报,世界之主啊,向您致敬。
14.97.12
पृष्टोऽथ केशवो ह्येवं धर्मपुत्रेण धीमता ।
उवाच संसारगतिं चातुर्वर्ण्यस्य कर्मजाम् ॥ १४.९७.१२ ॥
智慧的法子如此发问后,克沙瓦讲述了由四种姓之业所生的轮回之途。
14.97.13
शृणु वर्णक्रमेणैव धर्मं धर्मभृतां वर ।
नास्ति किंचिन्नरश्रेष्ठ ब्राह्मणस्य तु दुष्कृतम् ॥ १४.९७.१३ ॥
法持者中最优者,请按种姓次第听闻法。人中最优者,婆罗门并无任何恶业。
14.97.14
शिखांयज्ञोपवीता ये सन्ध्यां ये चाप्युपासते ।
यैश्च पूर्णाहुतिः प्राप्ता विधिवज्जुह्वते च ये ॥ १४.९७.१४ ॥
佩戴发髻与圣线、行晨昏礼、已完成圆满供养并依规定献祭者。
14.97.15
वैश्वदेवं च ये चक्रुः पूजयन्त्यतिथींश्च ये ।
नित्यं स्वाध्यायशीलाश्च जपयज्ञपराश्च ये ॥ १४.९७.१५ ॥
行毗湿婆提婆供养、礼敬客人、常勤诵习吠陀、专心于念诵之祭者。
14.97.16
सायंप्रातर्हुताशाश्च शूद्रभोजनवर्जिताः ।
डंभानृतविमुक्ताश्च स्वदारनिरताश्च ये।
पञ्चयज्ञपरा ये च येऽग्निहोत्रमुपासते ॥ १४.९७.१६ ॥
晨昏向火献供、戒食首陀罗之食、远离虚伪与妄语、专一于自己的妻子、精进于五大祭祀并行阿耆尼赫特拉者。
14.97.17
दहन्ति दुष्कृतं येषां हूयमानास्त्रयोऽग्नयः ।
नष्टदुष्कृतकर्माणो ब्रह्मलोकं व्रजन्ति ते ॥ १४.९७.१७ ॥
投入供物的三种火焚尽其人的恶业;恶业灭尽者便往梵天之界。
14.97.18
ब्रह्मलोके पुनः कामं गन्धर्वैर्ब्रह्मगायकैः ।
उद्गीयमानाः प्रयतैः पूज्यमानाः स्वयंभुवा।
ब्रह्मिलोके प्रमोदन्ते यावदाभूतसंप्लुवम् ॥ १४.९७.१८ ॥
在梵天之界,他们随心所欲地再次欢娱,受唱诵梵歌的乾达婆歌颂,受苦修者赞颂,受自生者尊崇,直至众生毁灭之时。
14.97.19
क्षत्रियोपि स्थितो राज्ये स्वधर्मपरिपालकः ।
सम्यक्प्रजाः पालयिता षड्भागनिरतः सदा ॥ १४.९७.१९ ॥
立于王国之中、守护自身本分的刹帝利,应善加护佑臣民,并常以取六分之一为务。
14.97.20
यज्ञदानरतो धीरः स्वदारनिरतः सदा ।
शास्त्रानुसारी तत्वज्ञः प्रजाकार्यपरायणः ॥ १४.९७.२० ॥
坚毅,热衷祭祀与布施,常守其妻,遵循经典,通晓真理,专注于民事。
14.97.21
विप्रेभ्यः कामदो नित्यं भृत्यानां भरणे रतः ।
सत्यसन्धः शुचिर्नित्यं लोभडंभविवर्जितः।
क्षत्रियोप्युत्तमां याति गतिं देवनिषेविताम् ॥ १४.९७.२१ ॥
常满足婆罗门之所愿,专注于养育仆从,守诺,恒常清净,无贪无伪。如此刹帝利亦得诸天所奉的至上之道。
14.97.22
तत्र दिव्याप्सरोभिस्तु गन्धर्वैश्च विशेषतः ।
सेव्यमानो महातेजाः क्रीडते शक्रपूजितः ॥ १४.९७.२२ ॥
彼处为天界阿普萨拉斯及乾达婆所侍奉,大光明,受因陀罗尊崇,他游戏其中。
14.97.23
चतुर्थगानि वै त्रिंशत्क्रीडित्वा तत्र देववत् ।
इह मानुष्यलोके तु चतुर्वेदी द्विजो भवेत् ॥ १४.९७.२३ ॥
彼处如神般嬉戏三十个四分之一劫,然后在此人间成为通晓四吠陀的再生婆罗门。
14.97.24
कृषिगोपालनिरतो धर्मानवेषणतत्परः ।
दानधर्मेपि निरतो विप्रशुश्रूषकस्तथा ॥ १४.९७.२४ ॥
从事农耕与牧牛,专注寻求法义,也热衷于布施之法,同样侍奉婆罗门。
14.97.25
सत्यसन्धः शुचिर्नित्यं लोभडंभविवर्जितः ।
ऋजुः स्वदारनिरतो हिंसाद्रोहविवर्जितः ॥ १४.९७.२५ ॥
坚守真实,常怀清净,远离贪婪与虚伪,正直,专一于自己的妻子,远离暴力与背叛。
14.97.26
वणिग्धर्मान्नमुञ्चन्वै देवब्राह्मणपूजकः ।
वैश्यः स्वर्गतिमाप्नोति पूज्यमानोप्सरोगणैः ॥ १४.९७.२६ ॥
不舍商贾之法、敬奉天神与婆罗门的吠舍,被众阿普萨拉斯所供奉,得生天界。
14.97.27
चतुर्युगानि वै त्रिंशत्क्रीडित्वा दश पञ्च च ।
इह मानुष्यलोके च राजा भवति वीर्यवान् ॥ १४.९७.२७ ॥
在天界嬉戏三十与十五个大时代之后,他便在这人间成为有威力的国王。
14.97.28
सुवर्णकोट्यः पञ्चाशद्रत्नानां च शतं तथा ।
हस्त्यश्वरश्वसंयुक्तो महाभोगांश्च सेवते ॥ १४.९७.२८ ॥
拥有五十亿金币、百件珍宝,以及象、马、车,享受极大的福乐。
14.97.29
त्रयाणामपि वर्णानां शुश्रूषानिरतः सदा ।
विशेषतस्तु विप्राणां दासवद्यस्तु तिष्टति ॥ १४.९७.२९ ॥
始终侍奉三种种姓,尤其像仆人一样侍奉婆罗门者。
14.97.30
अयाचितप्रदाता च सत्यशौचसमन्वितः ।
गुरुदेवार्चनरतः परदारविवर्जितः ॥ १४.९७.३० ॥
不待乞求而施舍,具有真实与清净,喜好敬奉师长与诸神,远离他人之妻。
14.97.31
परपीडामकृत्वैव भत्यवर्गं बिभर्ति यः ।
शूद्रोपि स्वर्गमाप्नोति जीवानामभयप्रदः ॥ १४.९७.३१ ॥
不伤害他人而供养仆从,并赐予众生无畏者,即使是首陀罗也能升入天界。
14.97.32
स स्वर्गकलोके क्रीडित्वा वर्षकोटिं महातपाः ।
इह मानुषलोके तु वैश्यो धनपतिर्भवेत् ॥ १४.९७.३२ ॥
这位大苦行者在天界享乐千万年之后,在人间转生为富有的吠舍,成为财富之主。
14.97.33
एवं धर्मात्परं नास्ति महत्संसारमोक्षणम् ।
न च धर्मात्पर किंचित्पापकर्मव्यपोहनम् ॥ १४.९७.३३ ॥
因此,没有比法更高的东西能使人从大轮回的束缚中解脱,也没有比法更高的东西能消除罪恶之业。
14.97.34
तस्माद्धर्मः सदा कार्यो मानुष्यं प्राप्य दुर्लभम् ।
न हि धर्मानुरक्तानां लोके किंचन दुर्लभम् ॥ १४.९७.३४ ॥
因此,既得难得的人身,应当常行法;因为对法有所倾心的人,世间没有什么是难得的。
14.97.35
स्वयंभुविहितो धर्मो यो यस्येह नरेश्वर ।
स तेन क्षपयेत्पापं सम्यगाचरितेन च ॥ १४.९७.३५ ॥
人主啊,自存者在此为每个人所规定的法,人应当如法修行,以此消除自己的罪过。
14.97.36
सहजं यद्भदेत्कर्म न तत्त्याज्यं हि केनचित् ।
स एव तस्य धर्मो हि तेन सिद्धिं स गच्छति ॥ १४.९७.३६ ॥
天生之业不可被任何人舍弃。那便是他的法,他由此而得成就(悉地)。
14.97.37
विगुणोपि स्वधर्मस्तु पापकर्म व्यपोहति ।
एवमेव तु धर्मोपि क्षीयते पापवर्धनात् ॥ १४.९७.३७ ॥
即便自身的法履行得不完美,也能驱除罪恶之业。同样,法也会因罪恶的增长而衰减。
14.97.38
भगवन्देवदेवेश श्रोतुं कौतूहलं हि मे ।
शुभस्याप्यशुभस्यापि क्षयवृद्धी यथाक्रमम् ॥ १४.९७.३८ ॥
尊者啊,诸神之主,我非常渴望听闻善与恶的衰减与增长是如何依次发生的。
14.97.39
शृणु पार्थिव तत्सर्वं धर्मसूक्ष्मं सनातनम् ।
दुर्विज्ञेयतमं नित्यं यत्र मग्ना महाजनाः ॥ १४.९७.३९ ॥
国王啊,请听全部:那微妙而永恒的法,最难理解,伟大的人们常常沉浸其中。
14.97.40
यथैव शीतमुदकमुष्णेन बहुना वृतम् ।
भवेत्तु तत्क्षणादुष्णं शीतत्वं च विनश्यति ॥ १४.९७.४० ॥
正如冷水被大量的热所包围,便在那一刻变热,其寒冷也随之消失。
14.97.41
यथोष्णं वा भवेदल्पं शीतेन बहुना वृतम् ।
शीतलं च भवेत्सर्वमुष्णत्वं च विनश्यति ॥ १४.९७.४१ ॥
又如少许温热之物被大量寒冷所包围,便全部变冷,其热也随之消失。
14.97.42
एवं च यद्भवेद्भूरि सुकृतं वाऽपि दुष्कृतम् ।
तदल्पं क्षपयेच्छीघ्रं नात्र कार्या विचारणा ॥ १४.९७.४२ ॥
如此,无论善行或恶行多大,其微小部分也能迅速消除它;此事无需犹豫。
14.97.43
समत्वे सति राजेन्द्र तयोः सुकृतपापयोः ।
गूहितस्य भवेद्वृद्धिः कीर्तितस्य भवेत्क्षयः ॥ १४.९७.४३ ॥
王中之王啊,当善行与罪恶相等时,被隐藏的会增长,被宣布的会衰减。
14.97.44
ख्यापनेनानुतापेन प्रायः पापं विनश्यति ।
तथा कृतस्तु राजेन्द्र धर्मो नश्यति मानद ॥ १४.९७.४४ ॥
通过坦白与悔恨,罪恶大多能消除;但王中之王啊,赐人荣誉者啊,若以同样的方式行事,法便会毁灭。
14.97.45
तावुभौ गूहितौ सम्यग्वृद्धिं यातो न संशयः ।
तस्मात्सर्वप्रयत्नेन न पापं गूहयेद्बुधः ॥ १४.९७.४५ ॥
这两者若被很好地隐藏,必定增长,毫无疑问。因此智者不应竭尽全力隐瞒罪恶。
14.97.46
तस्मादेतत्प्रयत्नेनि कीर्तयेत्क्षयकारणात् ।
तस्मात्संकीर्तयेत्पापं नित्यं धर्मं च गूहयेत् ॥ १४.९७.४६ ॥
因此应当努力宣说此事,以求消除;所以应当经常宣布罪恶,经常隐藏法。