Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.1

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.1.1

नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत्
प्राप्य पैतामहं राज्यं मम पूर्वपितामहाः ।
कथमासन्महाराजे धृतराष्ट्रे महात्मनि ॥ १५.१.१ ॥

向那罗延、人中最上的那罗、天女萨拉斯瓦蒂与毗耶娑致敬之后,应当诵念《胜利》。我的先祖们获得祖传王国之后,在伟大的持国王、大德之人治下是怎样的?

15.1.2

स तु राजा हतामात्यो हतपुत्रो निराश्रयः ।
कथमासीद्धतैश्वर्यो गान्धारी च तपस्विनी ॥ १५.१.२ ॥

那位大臣被杀、儿子被杀、失去依靠的国王,失去权势之后,境况如何?苦修的甘陀利又如何?

15.1.3

कियन्तं चैव कालं ते मम पूर्वपितामहाः ।
स्थिता राज्ये महात्मानस्तन्मे व्याख्यातुमर्हसि ॥ १५.१.३ ॥

我的先祖,那些大德之人,在王国中统治了多久?你应当为我解说。

15.1.4

प्राप्य राज्यं महात्मानः पाण्डवा हतशत्रवः ।
धृतराष्ट्रं पुरस्कृत्य पृथिवीं पर्यपालयन् ॥ १५.१.४ ॥

大德的般度之子获得王国,敌人已被消灭,他们尊奉持国王在前,全面守护大地。

15.1.5

धृतराष्ट्रमुपातिष्ठद्विदुरः संजयस्तथा ।
वैश्यापुत्रश्च मेधावी युयुत्सुः कुरुसत्तम ॥ १५.१.५ ॥

维杜拉与桑阇耶侍奉持国王,同样地,吠舍之子、智慧的悠由特苏也侍奉,哦,俱卢之最。

15.1.6

पाण्डवाः सर्वकार्येषु पर्यपृच्चन्त तं नृपम् ।
चक्रुस्तेनाभ्यनुज्ञाता वर्षाणि दश पञ्च च ॥ १५.१.६ ॥

般度之子凡事都向那位国王请教,并在他的允许下施政十五年。

15.1.7

सदाऽभिगम्य ते वीराः पर्युपासन्त तं नृपम् ।
पादाभिवादनं कृत्वा धर्मिराजमते स्थिताः ॥ १५.१.७ ॥

这些英雄总是走近那位国王侍奉他;向他的双足行礼后,遵从法王的意见而立于一旁。

15.1.8

ते मूर्ध्नि समुपाघ्राताः सर्वकार्याणि चक्रिरे ।
कुन्तिभोजसुता चैव गान्धारीमन्ववर्तत ॥ १५.१.८ ॥

他们在他头顶受到亲吻后,完成了一切事务;而昆提布阇之女昆提则侍奉甘陀利。

15.1.9

द्रौपदी च सुभद्रा च याश्चान्याः पाण्डवस्त्रियः ।
समां वृत्तिमवर्तन्त तयोः श्वश्र्वोर्यथाविधि ॥ १५.१.९ ॥

德劳帕蒂、苏跋陀罗及其他般度族妇女,依照礼法,对那两位婆婆一视同仁。

15.1.10

शयनानि महार्हाणि वासांस्याभरणानि च ।
राजार्हाणि च सर्वाणि भक्ष्यभोज्यान्यनेकशः ॥ १५.१.१० ॥

极其珍贵的床榻、衣服和饰物,一切适合国王的物品,以及种种饮食。

15.1.11

युधिष्ठिरो महाराज धृतराष्ट्रेऽभ्युपाहरत् ।
तथैव कुन्ती गान्धार्यां गुरुवृत्तिमवर्तत ॥ १५.१.११ ॥

大王坚战将一切奉献给持国;同样,昆提对甘陀利以尊长应有的态度相待。

15.1.12

विदुरः संजयश्चैव युयुत्सुश्चैव कौरव ।
उपासते स्म तं वृद्धं हतपुत्रं जनाधिपम् ॥ १५.१.१२ ॥

哦,俱卢子孙!毗杜罗、桑闍耶与悠悠赤也侍奉那位年老、儿子已被杀死的国王。

15.1.13

श्यालो द्रोणस्य यश्चासीद्दयितो ब्राह्ममो महान् ।
स च तस्मिन्महेष्वासः कृपः समभवत्तदा ॥ १५.१.१३ ॥

德罗纳的内兄、他所爱的伟大婆罗门,那位大弓箭手克利巴当时便出现在那里。

15.1.14

व्यासश्च भगवान्नित्यमासांचक्रे नृपेण ह ।
कथाः कुर्वन्पुराणर्षिर्देवर्षिपितृरक्षसाम् ॥ १५.१.१४ ॥

尊贵的毗耶娑也常常陪伴国王,讲述古代仙人关于天界仙人、祖先与罗刹的故事。

15.1.15

धर्मयुक्तानि कार्याणि व्यवहारान्वितानि च ।
धृतराष्ट्राभ्यनुज्ञातो विदुरस्तान्यकारयत् ॥ १५.१.१५ ॥

合乎法义之事与诉讼事务,维杜拉在持国的许可下使之得以施行。

15.1.16

सामन्तेभ्यः प्रियाण्यस्य कार्याणि सुबहून्यपि ।
प्राप्यन्तेऽर्थेः सुलघुभिः सुनयाद्विदुरस्य वै ॥ १५.१.१६ ॥

即便从诸侯处所求之许多他所看重之事,也因维杜拉的良好策略,以极为简便的方法便能得到。

15.1.17

अकरोद्बन्धमोक्षं च वध्यानां मोक्षणं तथा ।
न च धर्मसुतो राजा कदाचित्किञ्चिदब्रवीत् ॥ १५.१.१७ ॥

他既为人解开枷锁,也赦免了应被处死者;然而法之子的国王却从未说过什么。

15.1.18

विहारयात्रासु पुनः कुरुराजो युधिष्ठिरः ।
सर्वान्कामानुपस्थाप्य धृतराष्ट्रे न्यवेदयत् ॥ १५.१.१८ ॥

在游乐出行时,库鲁王尤帝士提尔备齐一切所愿,再禀告持国。

15.1.19

आरालिकाः सूपकारा रागषाडविकास्तथा ।
उपातिष्ठन्त राजानं धृतराष्ट्रं यथापुरम् ॥ १५.१.१९ ॥

厨师、制作汤羹者以及调制饮品与甜点者,也如往常一样侍奉国王持国。

15.1.20

वासांसि च महार्हाणि माल्यानि विविधानि च ।
उपाजह्रुर्यथाकालं धृतराष्ट्रस्य पाण्डवाः ॥ १५.१.२० ॥

般度之子们适时地为持国献上贵重的衣物与各式花环。

15.1.21

मैरेयमधुमांसानि पानकानि लघूनि च ।
चित्रान्भक्ष्यविकारांश्च चक्रुस्तस्य यथा पुरा ॥ १५.१.२१ ॥

他们像从前一样为他准备了麦雷耶酒、蜂蜜、肉类、清淡饮料以及各式菜肴。

15.1.22

ये चापि पृथिवीपालाः समाजग्मुस्ततस्ततः ।
उपातिष्ठन्त ते सर्वे कौरवेन्द्रं यथापुरा ॥ १५.१.२२ ॥

各地聚集而来的诸位地上守护者——众王,也都如往常一样侍奉俱卢之主。

15.1.23

कुन्ती च द्रौपदी चैव सात्वती च यशस्विनी ।
उलूपी नागकन्या च देवी चित्राङ्गदा तथा ॥ १५.१.२३ ॥

贡蒂、德罗波蒂、荣耀的萨特瓦蒂、龙女乌卢毗,以及王后奇昌伽达也同样侍奉他。

15.1.24

धृष्टकेतोश्च भगिनी जरासन्धसुता तथा ।
एताश्चान्याश्च बह्व्यो वै योषितः पुरुषर्षभ।
किंकराः पर्युपातिष्ठन्सर्वाः सुबलजां तथा ॥ १५.१.२४ ॥

德里斯塔克图之妹与札拉桑达之女,还有这些及其他众多女子,人中之牛啊,都作为侍女四面侍奉;苏跋罗之女也是如此。

15.1.25

यथा पुत्रवियुक्तोऽयं न किञ्चिद्दुःखमाप्नुयात् ।
इति तानन्वशाद्भातॄन्नित्यमेव युधिष्ठिरः ॥ १५.१.२५ ॥

为使这位失去儿子的人不再遭受任何痛苦,坚战总是这样教导他的兄弟们。

15.1.26

एवं ते धर्मराजस्य श्रुत्वा वचनमर्थवत् ।
सविशेषमवर्तन्ति भीममेकं तदा विना ॥ १५.१.२६ ॥

他们听了法王有意义的话语后,那时便都特别恭敬地对待彼此,唯独不包括毗摩。

15.1.27

न हि तत्तस्य वीरस्य हृदयादपसर्पति ।
धृतराष्ट्रस्य दुर्बुद्ध्या यद्वृत्तं द्यूतमण्डले ॥ १५.१.२७ ॥

般度的摩诃罗陀对弈场上,由于持国的恶念所发生的事,始终不离这位英雄的心。