摩诃婆罗多 · 章 15.10
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.10.1
शान्तनुः पालयामास यथावद्वसुधामिमाम् ।
तथा विचित्रवीर्यश्च भीष्मेण परिपालितः।
पालयामास नस्तातो विदितं वो न संशयः ॥ १५.१०.१ ॥
Śāntanu 如法地统治并守护这片大地,Vicitravīrya 在 Bhīṣma 的庇护下同样治理。我们的父亲也治理过;这是你们所知的,毫无疑问。
15.10.2
यथा च पाण्डुर्भाता मे दयितो भवतामभूत् ।
स चापि पालयामास यथावत्तच्च वेत्थ ह ॥ १५.१०.२ ॥
我的兄弟般杜深受你们爱戴,他也如法治理;这你们确实知道。
15.10.3
अनन्तरं हि पितरमनुज्ञातो युधिष्ठिरः ।
नात्र किञ्चिन्मृषा जातु भाषतेति मतिर्मम ॥ १५.१०.३ ॥
得到父亲允许之后,Yudhiṣṭhira 便接管了(王国)。依我看,在这件事上他从不说假话。
15.10.4
मया च भवतां सम्यक् शुश्रूषा या कृताऽनघाः ।
असम्यग्वा महाभागास्तत्क्षन्तव्यमतन्द्रितैः ॥ १५.१०.४ ॥
无罪的诸位,大福之人啊!我对你们所做的侍奉,无论是否得当,都请你们用心予以原谅。
15.10.5
यदा दुर्योधनेनेदं भुक्तं राज्यमकण्टकम् ।
अपि तत्र न वो मन्दो दुर्बुद्धिरपराद्धवान् ॥ १५.१०.५ ॥
当杜尔约达那享有这无荆棘的王国时,那愚昧、心术不正的人也并未对你们有任何过错。
15.10.6
तस्यापराधाद्दुर्बुद्धेरभिमानान्महीक्षिताम् ।
विमर्दः सुमहानासीदनयात्स्वकृतादथ।
घातिताः कौरवेयाश्च पृथिवी च विनाशिता ॥ १५.१०.६ ॥
由于那心术不正者的过错,由于傲慢,由于他自己所造成的不义,诸王遭受了巨大的毁灭。俱卢族的后裔被杀,大地也遭毁坏。
15.10.7
तन्मया साधु वाऽपीदं यदि वाऽसाधु वै कृतम् ।
तद्वो हृदि न कर्तव्यं मया बद्धोऽयमञ्जलिः ॥ १५.१०.७ ॥
我所做的,无论好坏,你们不要放在心上;我双手合十在此。
15.10.8
वृद्धोऽयं हतपुत्रोऽयं दुःखितोऽयं नराधिपः ।
पूर्वराज्ञां च पुत्रोऽयमिति कृत्वाऽनुजानथ ॥ १५.१०.८ ॥
此人年老,其子已死,此人人主悲痛;想到他是往昔诸王之子,请允许他。
15.10.9
इयं च कृपणा वृद्धा हतपुत्रा तपस्विनी ।
गान्धारी पुत्रशोकार्ता तुल्यं याचति वो मया ॥ १५.१०.९ ॥
这位可怜的老妇,苦行者甘陀利,丧子之痛缠身,与我一同向你们同样地恳求。
15.10.10
हतपुत्राविमौ वृद्धौ विदित्वा दुःखितौ तथा ।
अनुजानीत भद्रं वो व्रजाव शरणं च वः ॥ १५.१०.१० ॥
知道这两位丧子的老人悲痛,请允许我们离去,愿你们吉祥。我们走了,我们投靠你们。
15.10.11
अयं च कौरवो राजा कुन्तीपुत्रो युधिष्ठिरः ।
सर्वैर्भवद्भिर्द्रव्यः समेषु विषमेषु च।
न जातु विषमं चैव गमिष्यति कदाचन ॥ १५.१०.११ ॥
这位考拉瓦王是贡蒂之子坚战;你们所有人都应在顺境与逆境中敬重他,他绝不会走上不义之路。
15.10.12
चत्वारः सचिवा यस्य भ्रातरो विपुलौजसः ।
लोककपालसमा ह्येते सर्वधर्मार्थदर्शिनः ॥ १५.१०.१२ ॥
他有四位谋臣和威力强大的兄弟;这些人如同护世之神,洞悉一切法与利。
15.10.13
चतुर्णां लोकपालानां मध्ये विपरिवर्तते ।
ब्रह्मेव भगवानेष सर्वभूतजगत्पतिः ॥ १५.१०.१३ ॥
他在四位世界守护者之中往来,如同尊贵的梵天,一切众生与世界的主宰。
15.10.14
एवमेव महाबाहुर्भीमार्जुनयमैर्वृतः ।
युधिष्ठिरो महातेजा भवतः पालयिष्यति ॥ १५.१०.१४ ॥
同样,臂膀有力、威光赫赫的坚战,被怖军、阿周那与双生子环绕,将会保护你们。
15.10.15
अवश्यमेव वक्तव्यमिति कृत्वा ब्रवीमि वः ।
एष न्यासो मया दत्तः सर्वेषां वो युधिष्ठिरः।
भवन्तोऽस्य च वीरस्य न्यासभूताः कृता मया ॥ १५.१०.१५ ॥
我认为必须说出,因此告诉你们:这位坚战是我托付给你们所有人的,而你们也成了这位英雄的托付之物。
15.10.16
यदेव तैः कृतं किञ्चिद्व्यलीकं वः सुतैर्मम ।
यदन्येनि मदीयेन तदनुज्ञातुमर्हथ ॥ १५.१०.१६ ॥
我的儿子们对你们所做的任何小过错,以及我的人对他人所做的,你们都应当予以宽恕。
15.10.17
भवद्भिर्न हि मे मन्युः कृतपूर्वः कथञ्चन ।
अत्यन्तगुरुभक्तानामेषोऽञ्जलिरिदं नमः ॥ १५.१०.१७ ॥
我对你们从未有过任何愤怒。对于极其敬重长辈的你们,这合掌礼、这敬礼,献给你们。
15.10.18
तेषामस्थिरबुद्धीनां लुब्धानां कामचारिणाम् ।
कृते याचेऽद्य वः सर्वान्गान्धारीसहितोऽनघाः ॥ १५.१०.१८ ॥
为了那些心志不定、贪婪且随心妄为的人,今日我与甘陀利一同恳求你们所有人,无罪的诸位啊。
15.10.19
इत्युक्तांस्तेन ते सर्वे पौरजानपदा जनाः ।
नोचुर्बाष्पकलाः किञ्चिद्वीक्षांचक्रुः परस्परम् ॥ १५.१०.१९ ॥
他如此说完,所有城市居民和乡村百姓都泪哽在喉,什么也没说,只是彼此相望。