Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.11

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.11.1

एवमुक्तास्तु ते तेन पौरजानपदा जनाः ।
वृद्धेन राज्ञा कौरव्य नष्टसंज्ञा इवाभवन् ॥ १५.११.१ ॥

俱卢的后裔啊,老王如此说后,城乡的民众仿佛失去了知觉。

15.11.2

तूष्णींभूतांस्ततस्तांस्तु वाष्पकण्ठान्महीपतिः ।
धृतराष्ट्रो महीपालः पुनरेवाभ्यभाषत ॥ १५.११.२ ॥

于是,对那些沉默无语、哽咽落泪的人,大地的守护者持国王再次开口说道。

15.11.3

वृद्धं च हतपुत्रं च धर्मपत्न्या सहानया ।
विलपन्तं बहुविधं कृपणं चैव सत्तमाः ॥ १५.११.३ ॥

诸位善人中的最优者啊,那位年迈丧子的国王与他的贤妻一同,以种种方式悲叹,令人怜悯。

15.11.4

पित्रा स्वयमनुज्ञातं कृष्णद्वैपायनेन वै ।
वनवासाय धर्मज्ञा धर्मजेन नृपेण ह ॥ १५.११.४ ॥

诸位通晓法义者啊,父亲黑仙人亲自允许了林居,那位由法所生的国王也允许了。

15.11.5

सोहं पुनःपुनर्याचे शिरसाऽवनतोऽनघाः ।
गान्धार्या सहितं तन्मां समनुज्ञातुमर्हथ ॥ १५.११.५ ॥

诸位无罪者啊,我低头一再恳求,希望你们允许我与甘陀利一同离去。

15.11.6

तच्छ्रुत्वा कुरुराजस्य वाक्यानि करुणानि ते ।
रुरुदुः सर्वशो राजन्समेताः कुरुजाङ्गलाः ॥ १५.११.६ ॥

国王啊,听到俱卢王那些悲悯的话语,聚集的俱卢与江伽罗人四面都哭了起来。

15.11.7

उत्तरीयैः करैश्चापि संछाद्य वदनानि ते ।
रुरुदुः शोकसंतप्ता मुहूर्तं पितृमातृवत् ॥ १५.११.७ ॥

他们以上衣和双手遮住面孔,被悲痛折磨,一时像哭父母一样痛哭起来。

15.11.8

हृदयैः शून्यभूतैस्ते धृतराष्ट्रप्रवासजम् ।
दुःखं संधारयन्तो हि नष्टसंज्ञा हवाभवन् ॥ १५.११.८ ॥

心已空虚,承受着因持国王离去而生的悲痛,他们果真仿佛失去了知觉。

15.11.9

ते विनीय तमायासं धृतराष्ट्रवियोगजम् ।
शनैः शनैस्तदाऽन्योन्यमब्रुवन्स्वमतान्युत ॥ १५.११.९ ॥

他们消除了因与持国王分离而生的那份忧苦,便渐渐地彼此陈述各自的意见。

15.11.10

ततः सञ्चिन्त्य ते सर्वे वाक्यान्यथ समासतः ।
एकस्मिन्ब्राह्मणे कार्यमावेस्योचुर्नराधिपम् ॥ १५.११.१० ॥

于是他们众人简略地思量了言语,将此事托付给一位婆罗门,然后对人主说道。

15.11.11

ततः स्वाचरणो विप्रः सम्मतोऽर्थविशारदः ।
सम्भाव्यो बह्वृचो राजन्वक्तुं समुपचक्रमे ॥ १५.११.११ ॥

于是那位品行端正、为众人所敬重、精通事理、通晓众多颂歌的婆罗门,大王,开始说话了。

15.11.12

अनुमान्य महाराजं सदः समनुभाष्य च ।
विप्रः प्रगल्भो मेधावी स राजानमुवाच ह ॥ १५.११.१२ ॥

他向大王请示,又对会众致辞之后,那位勇敢而有智慧的婆罗门便对国王说道。

15.11.13

राजन्वाक्यं जनस्यास्य मयि सर्वं समर्पितम् ।
वक्ष्यामि तदहं वीर तज्जुषस्व नपाधिप ॥ १५.११.१३ ॥

大王啊,这民众的所有言语都已托付于我。英雄啊,我将说出;诸王之主啊,请接受吧。

15.11.14

यथा वदसि राजेन्द्र सर्वमेतत्तथा विभो ।
नात्र मिथ्या वचः किञ्चित्सुहृत्त्वं नः परस्परम् ॥ १५.११.१४ ॥

诸王之主啊,正如您所说,一切都是如此,大能者啊。这里没有一句虚假之言;我们彼此的友谊也是如此。

15.11.15

न जात्वस्य च वंशस्य राज्ञां कश्चित्कदाचन ।
राजाऽऽसीद्यः प्रजापालः प्रजानामप्रियोऽभवत् ॥ १५.११.१५ ॥

这一王统中的诸王,从未有哪位作为民众保护者的君主,竟成为民众所不喜爱的。

15.11.16

पितृवन्मातृवच्चैव भवन्तः पालयन्ति नः ।
न च दुर्योधनः किञ्चिदयुक्तं कृतवान्नृपः ॥ १५.११.१६ ॥

诸位如父如母般守护我们;而国王难敌也未曾做过任何不当之事。

15.11.17

प्रियाणि कुर्वन्सर्वेषामनुवृत्त्यर्थमुद्यतः ।
यथा ब्रवीति धर्मात्मा मुनिः सत्यवतीसुतः।
तथा कुरु महाराज स हि नः परमो गुरुः ॥ १५.११.१७ ॥

为了使所有人欢喜、与众和顺,大王啊,请照正法之人、萨提亚瓦蒂之子仙人所说的去做;他是我们最尊的导师。

15.11.18

त्यक्ता वयं तु भवता दुःखशोकपरायणाः ।
भविष्यामश्चिरं राजन्भवद्गुणशतैर्हृताः ॥ १५.११.१८ ॥

然而,被你抛弃之后,我们将长久沉溺于忧愁与悲伤之中,大王啊,我们曾被你的百种美德所吸引。

15.11.19

यथा शन्तनुना गुप्ता राज्ञा चित्राङ्गदेन च ।
भीष्मवीर्योपगूढेन पित्रा तव च पार्थिव।
भवद्बुद्धियुजा चैवि पाण्डुना पृथिवीक्षिता ॥ १५.११.१९ ॥

正如我们曾受到檀努、国王旗身、以毗湿摩之勇力为依托的你的父亲,以及与你的智慧相连的般度,大地之主的保护一样。

15.11.20

तथा दुर्योधनेनापि राज्ञा सुपरिपालिताः ।
न स्वल्पमपि पुत्रस्ते व्यलीकं कृतवान्नृप। ॥ १५.११.२० ॥

同样,国王难敌也很好地保护了我们;王啊,你的儿子对我们没有犯下丝毫的过错。

15.11.21

पितरीव सुविश्वस्तास्तस्मिन्नपि नराधिपे ।
वयसा स्म यथा सम्यग्भवतो विदितं तथा ॥ १५.११.२१ ॥

我们也像信赖父亲一样完全信任那位人主,这一点你是清楚的。

15.11.22

तथा वर्षसहस्राणि कुन्तीपुत्रेण धीमता ।
पाल्यमाना धृतिमता सुखं विन्दामहे नृप ॥ १५.११.२२ ॥

同样,千年之久,我们受到智慧而坚毅的贡提之子的保护,安享幸福,王啊。

15.11.23

राजर्षीणां पुराणानां भवतां पुण्यकर्मणाम् ।
कुरुसंवरणादीनां भरतस्य च धीमतः ॥ १५.११.२३ ॥

古代的王仙、你们行善的先祖、俱卢、三婆罗那等人,以及智慧的婆罗多的行迹。

15.11.24

वृत्तं समनुयात्येष धर्मात्मा भूरिदक्षिणः ।
नात्र वाच्यं महाराज सुसूक्ष्ममपि विद्यते ॥ १५.११.२४ ॥

这位法魂、布施丰厚的人,正遵循着他们的行为;大王,此处没有什么需要说的,哪怕是极细微之事也没有。

15.11.25

उषिताः स्म सुखं नित्यं भवता परिपालिताः ।
सुसूक्ष्मं च व्यलीकं ते सपुत्रस्य न विद्यते ॥ १५.११.२५ ॥

我们一直在你的庇护下安乐地生活;你与你的儿子们身上,连一丝一毫对我们的过失也没有。

15.11.26

यत्तु ज्ञातिविमर्देऽस्मिन्नात्थ दुर्योधनं प्रति ।
भन्तमनुनेष्यामि तत्रापि कुरुनन्दन ॥ १५.११.२६ ॥

库鲁之喜,关于你在这场亲族毁灭中所提到的难敌,那位虔诚者,我也会安抚他。

15.11.27

न तद्दुर्योधनकृतं न च तद्भवता कृतम् ।
न कर्णसौबलाभ्यां च कुरवो यत्क्षयं गताः ॥ १५.११.२७ ॥

库鲁族的覆灭,既不是难敌所为,也不是你所为,也不是迦尔纳和萨乌巴拉(沙恭尼)所为。

15.11.28

दैवं तत्तु विजानीमो यन्न शक्यं प्रबाधितुम् ।
दैवं पुरुषकारेणि न शक्यमपि बाधितुम् ॥ १५.११.२८ ॥

我们知道那不可抗拒的天命;即使以人力,也无法抗拒天命。

15.11.29

अक्षौहिण्यो महाराज दशाष्टौ च समागताः ।
अष्टादशाहेन हताः कुरुभिर्योधपुङ्गवैः ॥ १५.११.२९ ॥

大王啊,十八支阿刹诃尼军集合,在十八天内被库鲁族的勇士们斩杀殆尽。

15.11.30

भीष्मद्रोणकृपाद्यैश्च कर्णेन च महात्मना ।
युयुधानेन वीरेण धृष्टद्युम्नेन चाहवे ॥ १५.११.३० ॥

在战场上,被毗湿摩、德罗纳、克里巴等人,大德迦尔纳,英雄尤尤陀那,以及德里斯塔迪优姆纳所杀。

15.11.31

चतुर्भिः पाण्डुपुत्रैश्च भीमार्जुनयमैस्तथा ।
न च क्षयोऽयं नृपते क्रते दैवबलादभूत् ॥ १५.११.३१ ॥

此毁灭并非由般度的四个儿子,以及毗摩、阿周那与双胞胎所造成,大王;它是由天命之力而发生的。

15.11.32

अवश्यमेव सङ्ग्रामे क्षत्रियेण विशेषतः ।
कर्तव्यं निधनं काले मर्तव्यं क्षत्रबन्धुना ॥ १५.११.३२ ॥

在战场上,刹帝利必定要在其时辰迎接死亡,尤其如此;刹帝利同族之人也必定要死去。

15.11.33

तैरियं पुरुषव्याघ्रैर्विद्याबाहुबलान्वितैः ।
पृथिवी निहता सर्वा सहया सरथद्विपा ॥ १५.११.३३ ॥

这些人中的猛虎,具备学识、臂力与力量,将整个大地连同马匹、战车和象群一并击杀。

15.11.34

न स राज्ञां वधे सूनुः कारणं ते महात्मनाम् ।
न भवान्न च ते भृत्या न कर्णो न च सौबलः ॥ १५.११.३४ ॥

在杀害这些国王之事上,那个儿子——你的儿子——并非这些大德之人的原因;你不是,你的仆人不是,迦尔纳不是,萨乌巴拉(沙恭尼)也不是。

15.11.35

यद्विशस्ताः कुरुश्रेष्ठ राजानश्च सहस्रशः ।
सर्वं दैवकृतं विद्धि कोत्र किं वक्तुमर्हति ॥ १५.११.३५ ॥

因为成千上万的国王被杀,哦,库鲁中最优秀的人,要知道这一切都是天命所为;在这里谁能说些什么呢?

15.11.36

गुरुर्मतो भवानस्य कृत्स्नस्य जगतः प्रभुः ।
धर्मात्मानमतस्तुभ्यमनुजानीमहे सुतम् ॥ १५.११.३६ ॥

你被视为这整个世界的导师与主宰;因此,我们将这位正法之子交付于你。

15.11.37

लभतां वीरलोकं स ससहायो नराधिपः ।
द्विजाग्र्यैः समनुज्ञातस्त्रिदिवे मोदतां सुखम्। ॥ १५.११.३७ ॥

愿那位君王与其随从得至英雄之界;经诸位再生者中最尊者允许后,愿他在天界安乐欢喜。

15.11.38

प्राप्स्यते च भवान्पुण्यं धर्मे च सततं स्थितः ।
वेद धर्मं महाबाहो लौक्यं वैदिकमेव च ॥ १५.११.३८ ॥

你将获得福德,因为你常住于法中。啊,大臂者,你既知世俗之法,也知吠陀之法。

15.11.39

दृष्टापदानाश्चास्माभिः पाण्डवाः पुरुषर्षभाः ।
समर्थास्त्रिदिवस्यापि पालने किं पुनः क्षितेः ॥ १५.११.३९ ॥

我们亲见了般度子孙的功绩;那些人中之牛,尚能守护天界,何况大地。

15.11.40

अनुवर्त्स्यन्ति वा धीमन्समेषु विषमेषु च ।
प्रजाः कुरुकुलश्रेष्ठ पाण्डवाञ्शीलभूषणान् ॥ १५.११.४० ॥

啊,俱卢族中最优秀者,智者啊,无论顺境还是逆境,臣民都将追随以德行为饰的般度子孙。

15.11.41

ब्रह्मदेयाग्रहारांश्च पारिबर्हांश्च पार्थिवः ।
पूर्वराजातिसर्गांश्च पालयत्येव पाण्डवः ॥ १५.११.४१ ॥

般度王守护婆罗门地、学堂之地、王家之赠,以及先王所施的赏赐。

15.11.42

दीर्घदर्शीं मृदुर्दान्तः सदा वैश्रवणो यथा ।
अक्षुद्रसचिवश्चायं कुन्तीपुत्रो महामनाः ॥ १५.११.४२ ॥

这位昆蒂之子心胸广大、远见卓识、温和克己,常如毗沙罗摩(俱毗罗);他的大臣也都高尚。

15.11.43

अप्यमित्रे दयावांश्च शुचिश्च भरतर्षभः ।
ऋजु पश्यति मेधावी पुत्रवत्पाति नः सदा ॥ १५.११.४३ ॥

即使对敌人也慈悲而纯洁;婆罗多族的公牛、智者以正直之眼看待,总是像保护儿子一样护佑我们。

15.11.44

विप्रियं च जनस्यास्य संसर्गाद्धर्मजस्य वै ।
न करिष्यन्ति राजर्षे तथा भीमार्जुनादयः ॥ १५.११.४४ ॥

王中仙人啊,因与法之子相处,怖军、阿周那等人必定不会对此民众做任何不悦之事。

15.11.45

मन्दा मृदुषु कौरव्य तीक्ष्णेष्वाशीविषोपमाः ।
वीर्यवन्तो महात्मानः पौराणां च हिते रताः ॥ १५.११.४५ ॥

库鲁后裔啊,对温和者他们迟缓,对严厉者如毒蛇;有力的大德者乐于城民的福祉。

15.11.46

न कुन्ती न च पाञ्चाली न चोलूपी न सात्वती ।
अस्मिञ्जने करिष्यन्ति प्रतिकूलानि कर्हिचित् ॥ १५.११.४६ ॥

无论是昆提、般遮利、乌卢比,还是萨特瓦蒂,都绝不会对此民众做任何不利之事。

15.11.47

भवत्कृतमिमं स्नेहं युधिष्ठिरविवर्धितम् ।
न पृष्ठतः करिष्यन्ति पौरा जानपदा जनाः ॥ १५.११.४७ ॥

此情谊乃由你所成、由坚战所养,城民与乡民不会在背后败坏它。

15.11.48

अधर्मिष्ठानपि सतः कुन्तीपुत्रा महारथाः ।
मानवान्पालयिष्यन्ति भूत्वा धर्मपरायणाः ॥ १५.११.४८ ॥

昆提之子诸大车士,皆笃信法义,将护持众人,无论不义者还是善人。

15.11.49

स राजन्मानसं दुःखमपनीय युधिष्ठिरात् ।
कुरु कार्याणि धर्म्याणि नमस्ते पुरुषर्षभ ॥ १५.११.४९ ॥

大王啊,你既已消除坚战心中的忧苦,便去履行正法之职。向你致敬,人中之牛。

15.11.50

तस्य तद्वचनं धर्म्यमनुमान्य गुणोत्तरम् ।
साधुसाध्विति सर्वः स जनः प्रतिगृहीतवान् ॥ १५.११.५० ॥

众人赞同他这番合乎正法而极为高尚的话语,齐声说“善哉,善哉”,全都接受了。

15.11.51

धृतराष्ट्राश्च तद्वाक्यमभिपूज्य पुनःपुनः ।
विसर्जयामास तदा प्रकृतीस्तु शनैःशनैः ॥ १५.११.५१ ॥

般度王者,他一再赞许那番话后,便慢慢地遣散了众臣民。

15.11.52

स तैः सम्पूजितो राजा शिवेनावेक्षितस्तथा ।
प्राञ्जलिः पूजयामास तं जनं भरतर्षभ ॥ १५.११.५२ ॥

众人敬重他,他也以慈善的目光看着他们。这位王者合掌向那众人致敬,婆罗多中的雄牛啊。

15.11.53

ततो विवेश भवनं गान्धार्या सहितो निजम् ।
आगतायां च शर्वर्यां सुखं शेते नराधिपः ॥ १५.११.५३ ॥

随后他与甘陀利一同进入自己的宫殿;夜幕降临,这位人主安然入睡。