Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.19

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.19.1

कुन्त्यास्तु वचनं श्रुत्वा पाण्डवा राजसत्तम ।
व्रीडिताः संन्यवर्तन्त पाञ्चाल्या सह भारत ॥ १५.१९.१ ॥

般度之子听了贡蒂的话,羞愧地,王中之最,婆罗多啊,与般遮罗女一同返回了。

15.19.2

ततः शब्दो महानेव सर्वेषामभवत्तदा ।
अन्तःपुराणां रुदतां दृष्ट्वा कुन्तीं तथा गताम् ॥ १५.१९.२ ॥

那时,后宫的所有妇女见贡蒂如此离去,都痛哭起来,喧嚷之声大作。

15.19.3

प्रदक्षिणमथावृत्त्य राजानं पाण्डवास्तदा ।
अभिवाद्य न्यवर्तन्त पृथां तामनिवर्त्य वै ॥ १५.१९.३ ॥

随后,般度之子向右绕行国王,恭敬地问候他,然后返回,未能使普里塔返回。

15.19.4

ततोऽब्रवीन्महातेजा धृतराष्ट्रोंऽबिकासुतः ।
गान्धारीं विदुरं चैव समाभाष्यावगृह्य च ॥ १५.१९.४ ॥

于是,光辉伟大的安比迦之子持国,与甘陀利和毗杜罗交谈并拥抱他们后说道。

15.19.5

युधिष्ठिरस्य जननी देवी साधु निवर्त्यताम् ।
यथा युधिष्ठिरः प्राह तत्सर्वं सत्यमेव हि ॥ १५.१९.५ ॥

愿尊贵的坚战之母适当地返回;坚战所说的一切确实都是真实的。

15.19.6

पुत्रैश्वर्यं महदिदमपास्य च महाफलम् ।
काऽनुगच्छेद्वनं दुर्गं पुत्रानुत्सृज्य मूढवत् ॥ १५.१९.६ ॥

哪个女人会放弃这巨大的权势和儿子这样的大福,抛弃儿子,像愚人一样追随进入这险恶的森林?

15.19.7

राज्यस्थया तपस्तप्तुं कर्तुं दानव्रतं महत् ।
अनया शक्यमेवाद्य श्रूयतां च वचो मम ॥ १५.१९.७ ॥

身居王国之中,今日她便可行苦行、立下大施之誓。请听我的话。

15.19.8

गान्धारि परितुष्टोस्मि वध्वाः शुश्रूषणेन वै ।
तस्मात्त्वमेनां धर्मज्ञे समनुज्ञातुमर्हसि ॥ १५.१९.८ ॥

甘陀利啊,我对儿媳的侍奉确实十分满意。因此,知法的你应当准许她。

15.19.9

इत्युक्ता सौबलेयी तु राज्ञा कुन्तीमुवाच ह ।
तत्सर्वं राजवचनं स्वं च वाक्यं विशेषवत् ॥ १५.१९.९ ॥

国王如此说后,苏跋罗之女(甘陀利)便对贡蒂说话。国王的那一番话以及她自己的话,都含有特别的意义。

15.19.10

न च सा वनवासाय देवी कृतमतिं तदा ।
शक्नोत्युपावर्तयितुं कुन्तीं धर्मपरां सतीम् ॥ १५.१९.१० ॥

那位女神当时已决意入林修行,因此无法使一心守法的贞洁贡蒂转回。

15.19.11

तस्यास्तां तु स्थितिं ज्ञात्वा व्यवसायं कुरुस्त्रियः ।
निवृत्तांश्च कुरुश्रेष्ठान्दृष्ट्वा प्ररुरुदुस्तदा ॥ १५.१९.११ ॥

库鲁的女人们得知她的坚定决心,又见库鲁族中的英杰们已经返回,便放声痛哭起来。

15.19.12

उपावृत्तेषु पार्थेषु सर्वास्वेव वधूषु च ।
ययौ राजा महाप्राज्ञो धृतराष्ट्रो वनं तदा ॥ १५.१९.१२ ॥

般度之子与所有儿媳都已返回后,大智慧的国王持国便前往森林。

15.19.13

पाण्डवाश्चातिदीनास्ते दुःखशोकपरायणाः ।
यानैः स्त्रीसहिताः सर्वे पुरं प्रविविशुस्तदा ॥ १५.१९.१३ ॥

般度之子们极为悲苦,沉浸于忧伤与哀痛之中,于是他们与妇女们一同乘车进入了城中。

15.19.14

तदहृष्टमनानन्दं गतोत्सवमिवाभवत् ।
नगरं हास्तिनपुरं सस्त्रीवृद्धकुमारकम् ॥ १५.१९.१४ ॥

那时,连同妇女、老人和孩童在内的哈斯蒂纳普拉城,仿佛失去了欢乐,也没有了节庆。

15.19.15

सर्वे चासन्निरुत्साहाः पाण्डवा जातमन्यवः ।
कुन्त्या हीनाः सुदुःखार्ता वत्सा इव विनाकृताः ॥ १५.१९.१५ ॥

般度五子皆无斗志,满怀愤怒与悲伤;失去了贡蒂,极为哀痛,如同与母牛分离的小牛。

15.19.16

धृतराष्ट्रस्तु तेनाह्ना गत्वा सुमहदन्तरम् ।
ततो भागीरथीतीरे निवासमकरोत्प्रभुः ॥ १५.१९.१६ ॥

然而,持国王那天走了很远的路程,随后便在婆吉罗陀河岸边安居下来。

15.19.17

प्रादुष्कृता यथान्यायमग्नयो वेदपारगैः ।
व्यराजन्त द्विजश्रेष्ठैस्तत्रतत्र तपोवने।
प्रादुष्कृताग्निरभवत्स च वृद्धो नराधिपः ॥ १५.१९.१७ ॥

由精通吠陀的最优秀再生族依规则点燃的圣火,在那苦行林中处处光辉闪耀;那位年迈的国王也成了点燃圣火的人。

15.19.18

स राजाऽग्नीन्पर्युपास्य हुत्वा च विधिवत्तदा ।
सन्ध्यागतं सहस्रांशुमुपातिष्ठत भारत ॥ १५.१९.१८ ॥

那位国王礼敬诸火,依规则行供奉,随后在黄昏时分,婆罗多啊,礼拜了千光的太阳。

15.19.19

विदुरः संजयश्चैव राज्ञः शय्यां कुशैस्ततः ।
चक्रतुः कुरुवीरस्य गान्धार्याश्चाविदूरतः ॥ १५.१९.१९ ॥

毗都罗与桑闍耶随即用吉祥草铺设了俱卢英雄的床榻,离甘陀利不远。

15.19.20

गान्धार्याः सन्निकर्षे तु निषसाद कुशे सुखम् ।
युधिष्ठिरस्य जननी कुन्ती साधुव्रते स्थिता ॥ १५.१९.२० ॥

在甘陀利身旁,坚守善誓的坚都是坚战之母,安稳地坐在吉祥草上。

15.19.21

तेषां संश्रवणे चापि निषेदुर्विदुरादयः ।
याजकाश्च यथोद्देशं द्विजा ये चानुयायिनः ॥ १५.१९.२१ ॥

在他们附近坐着毗都罗等人;主持祭祀的祭司和随从的婆罗门也各自按位次坐下。

15.19.22

प्राधीतद्विजमुख्या सा संप्रज्वलितपावका ।
बभूव तेषां रजनी ब्राह्मीव प्रीतिवर्धिनी ॥ १५.१९.२२ ॥

那夜,婆罗门首领诵读经文,火焰熊熊燃烧,对他们而言如同梵天之夜,增益喜乐。

15.19.23

ततो रात्र्यां व्यतीतायां कृतपूर्वाह्णिकक्रियाः ।
हुत्वाऽग्निं विधिवत्सर्वे प्रययुस्ते यथाक्रमम्।
उदङ्मुखा निरीक्षन्त उपवासपरायणाः ॥ १५.१९.२३ ॥

夜尽之后,他们完成晨间仪轨,依礼在火中献祭,然后依次出发,面朝北方,凝视前方,专心持斋。

15.19.24

स तेषामतिदुःखोऽभून्निवासः प्रथमेऽहनि ।
शोचतां वदतां चापि पौरजानपदैर्जनैः ॥ १५.१९.२४ ॥

第一天,他们的停留极为痛苦,城中与乡间的百姓都在哀哭、议论。