摩诃婆罗多 · 章 15.2
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.2.1
एवं सम्पूजितो राजा पाण्डवैरंबिकासुतः ।
विजहार यथापूर्वमृषिभिः पर्युपस्थितः ॥ १५.२.१ ॥
般度五子如此尊敬他,安比迦之子国王持国便如从前一般,在仙人环绕中生活。
15.2.2
ब्रह्मदेयाग्रहारांश्च प्रददौ स कुरूद्वहः ।
तच्च कुन्तीसुतो राजा सर्वमेवान्वमोदत ॥ १५.२.२ ॥
这位库鲁之最将梵施土地与婆罗门村庄赠予婆罗门,而贡蒂之子国王则对此全部表示赞同。
15.2.3
आनृशंस्यपरो राजा प्रीयमाणो युधिष्ठिरः ।
उवाच स तदा भ्रातॄनमात्यांश्च महीपतिः।
मया चैव भवद्भिश्च मान्य एष नराधिपः ॥ १५.२.३ ॥
怀着慈悲、心中欢喜的国王坚战,此时对兄弟与大臣说道:"这位人主应当受到我和你们所有人的尊敬。"
15.2.4
निदेशे धृतराष्ट्रस्य यस्तिष्ठति स मे सुहृत् ।
विपरीतश्च मे शत्रुर्नियम्यश्च भवेन्नरः ॥ १५.२.४ ॥
服从持国之命的人是我的朋友;与我对立的人是我的敌人,应当加以约束。
15.2.5
परिवृत्तेषु चाहःसु पुत्राणां श्राद्धकर्मणि ।
ददौ च राजा वित्तानि यावदस्य चिकीर्षितम् ॥ १५.२.५ ॥
在为诸子举行的祭祀亡灵之礼的日子过去之后,国王布施了他所打算的全部财富。
15.2.6
ततः स राजा कौरव्यो धृतराष्ट्रो महामनाः ।
ब्राह्मणेभ्यो यथार्हेभ्यो ददौ वित्तान्यनेकशः ॥ १५.२.६ ॥
于是,这位库鲁后裔、心胸宽厚的国王持国,以多种方式将财富施予应受供养的婆罗门。
15.2.7
धर्मिराजश्च भीमश्च सव्यसाची यमावपि ।
तत्सर्वमन्ववर्तन्त धृतराष्ट्रव्यपेक्षया ॥ १५.२.७ ॥
法王(坚战)、怖军、左手神箭(阿周那)以及双生子,也都出于对持国的敬重而遵从这一切。
15.2.8
कथं नु राजा वृद्धः स पुत्रपौत्रवधार्दितः ।
शोकमस्मत्कृतं प्राप्यि न म्रियेतेति चिन्त्य ते ॥ १५.२.८ ॥
这位年迈的国王,因子孙被杀而痛苦,承受我们所造成的悲伤,怎能不死呢?如此思量,他们感到忧虑。
15.2.9
यावद्धि कुरुवीरस्य जीवत्पुत्रस्य वै सुखम् ।
तावत्सुखमवाप्नोति भोगांश्चैव व्यवस्थितान् ॥ १५.२.९ ॥
只要库卢英雄的在世之子尚在,他便享有幸福,并获得所定的享乐。
15.2.10
ततस्ते सहिताः पञ्च भ्रातरः पाण्डुनन्दनाः ।
तथाशीलाः समातस्थुर्धृतराष्ट्रस्य शासने ॥ १५.२.१० ॥
于是,般度的那五个儿子聚在一起,以这样的品行,听从持国的命令而待命。
15.2.11
धृतराष्ट्रश्च तान्सर्वान्विनीतान्नियमे स्थितान् ।
शिष्यवृत्तिं समापन्नान्गुरुवत्प्रत्यपद्यत ॥ १५.२.११ ॥
持国也接纳了他们所有人——他们谦逊、守持戒律、已行弟子之道——像对待老师一样。
15.2.12
गान्धारी चैव पुत्राणां विविधैः श्राद्धकर्मभिः ।
आनृण्यमगमत्कामान्विप्रेभ्यः प्रतिपाद्य सा ॥ १५.२.१२ ॥
甘陀利也为诸子举行了各种祭祀亡灵的仪式,并向婆罗门布施所愿的礼物,从而得以免除债务。
15.2.13
एवं धर्मभृतांश्रेष्ठो धर्मराजो युधिष्ठिरः ।
भ्रातृभिः सहितो धीमान्पूजयामासं तं नृपम् ॥ १५.२.१३ ॥
如此,持法者中最优秀的法王坚战,与诸兄弟一同尊敬了那位国王。
15.2.14
स राजा सुमहातेजा वृद्धः कुरुकुलोद्वहः ।
न ददर्श तदा किञ्चिदप्रियं पाण्डुनन्दने ॥ १५.२.१४ ॥
那位极具威光的年迈国王,即库鲁家族的支柱,当时在般度之子身上看不到任何不快之事。
15.2.15
वर्तमानेषु सद्वृत्तिं पाण्डवेषु महात्मसु ।
प्रीतिमानभवद्राजा धृतराष्ट्रोंऽबिकासुतिः ॥ १५.२.१५ ॥
伟大的般度五子行为端正,安比卡之子国王持国因此心生欢喜。
15.2.16
सौबलेयी च गान्धारी पुत्रशोकमपास्य तम् ।
सदैव प्रीतिमत्यासीत्तनयेषु निजेष्विव ॥ १५.२.१६ ॥
苏跋罗之女甘陀利也舍弃了丧子之痛,始终对他们怀有慈爱,如同对待自己的亲生儿子一般。
15.2.17
प्रियाण्येव तु कौरव्यो नाप्रियाणि कुरूद्वहः ।
वैचित्रवीर्य नृपतौ समाचरत सर्वदा ॥ १५.२.१७ ॥
那位库鲁之支柱的考拉瓦,对毗其怛罗毗利耶之子国王始终只做令其欢喜之事,从未做过不悦之事。
15.2.18
यद्यद्ब्रूते च किञ्चित्स धृतराष्ट्रो जनाधिपः ।
गुरु वा लघु वा कार्यं गान्धारी च तपस्विनी ॥ १५.२.१८ ॥
无论人主持国所说何事,无论是重大还是细小的差事,苦行女甘陀利也都会去完成。
15.2.19
तं स राजा महाराज पाण्डवानां धुरंधरः ।
पूजयित्वा वचस्तत्तदकार्षीत्परवीरहा ॥ १५.२.१९ ॥
大王啊,那位作为般度之子支柱的国王,敬重他的每一句话并依言而行;他是敌方英雄的杀戮者。
15.2.20
तेन तस्याभवत्प्रीतो वृत्तेन स नराधिपः ।
अन्वतप्यत संस्मृत्य पुत्रं तं मन्दचेतसम् ॥ १५.२.२० ॥
国王因他的品行而欣喜,却又回想起那愚钝的儿子而悔恨。
15.2.21
सदा च प्रातरुत्थाय कृतजप्यः शुचिर्नृपः ।
आशास्ते पाण्डुपुत्राणां समरेष्वपराजयम् ॥ १५.२.२१ ॥
国王总是在黎明起身,诵念咒语并洁净自身,为般度之子祈愿在战场上不败。
15.2.22
ब्राह्मणान्स्वस्तिवाच्याथ हुत्वा चैव हुताशनम् ।
आयूंषि पाण्डुपुत्राणामाशंसत नराधिपः ॥ १५.२.२२ ॥
随后,国王请婆罗门诵读吉祥祝词,并向火中献祭,为般度之子祈愿长寿。
15.2.23
न तां प्रीतिं परामाप पुत्रेभ्यः स तदा पुरा ।
यां प्रीतिं पाण्डुपुत्रेभ्यः सदाऽवाप नराधिपः। ॥ १५.२.२३ ॥
从前,国王从自己的儿子那里从未得到那种至上的喜悦,而他总是从般度之子那里得到。
15.2.24
ब्राह्मणानां यथा वृत्तः क्षत्रियाणां यथाविधः ।
तथा विट्शूद्रसङ्घानामभवत्स प्रियस्तदा ॥ १५.२.२४ ॥
他对婆罗门的品行,以及依法对刹帝利的待遇如何,那时他对吠舍与首陀罗的各群体也同样成为了可亲之人。
15.2.25
यच्च किञ्चित्तदा पापं धृतराष्ट्रसुतैः कृतम् ।
अकृत्वा हृदि तत्पापं तं नृपं सोन्ववर्तत ॥ १५.२.२५ ॥
他不把当时持国之子所作的任何恶行放在心上,仍然顺从那位国王。
15.2.26
यः कश्चिदपि यत्किञ्चित्प्रमादादंबिकासुते ।
कुरुते द्वेष्यतामेति स कौन्तेयस्य धीमतः ॥ १५.२.२६ ॥
凡因疏忽而对安比迦之子做了什么的人,便会成为智慧的贡蒂之子所憎恨的对象。
15.2.27
न राज्ञो धृतराष्ट्रस्य न च दुर्योधनस्य वै ।
उवाच दुष्कृतं कश्चिद्युधिष्ठिरभयान्नरः ॥ १५.२.२७ ॥
关于国王持国或难敌,无人因惧怕坚战而说出他们的恶行。
15.2.28
धृत्या तुष्टो नरेन्द्रः स गान्धारी विदुरस्तथा ।
अजातशत्रोर्वृत्तेन न तु भीमस्य पार्थिवः ॥ १५.२.२८ ॥
那位人主因坚忍而满意;甘陀利与维杜罗亦因阿阇多设咄罗的品行而满意,但那位国王对毗摩却不满意。
15.2.29
अन्ववर्तत भीमोपि निश्चितो धर्मजं नृपम् ।
धृतराष्ट्रं च सम्प्रेक्ष्य सदा भवति दुर्मनाः ॥ १५.२.२९ ॥
毗摩也坚决地追随法所生的国王;但每当看见持国,他的心中总是不悦。
15.2.30
राजानमनुवर्तन्त धर्मपुत्रममित्रहा ।
अन्ववर्तत संक्रुद्धो हृदयेन पराङ्मुखः ॥ १५.२.३० ॥
杀敌者追随法之子的国王;他愤怒,心却背离,仍然跟随。