Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.20

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.20.1

ततो भागीरथीतीरे मेध्ये पुण्यजनोचिते ।
निवासमकरोद्राजा विदुरस्य मते स्थितः ॥ १५.२०.१ ॥

随后,在婆吉罗提河岸,一处洁净且适合善人居住的地方,国王定居下来,遵从维杜罗的建议。

15.20.2

तत्रैनं पर्युपातिष्ठन्ब्राह्मणा वनवासिनः ।
क्षत्रविट्शूद्रसङ्खाश्च बहवो भरतर्षभ ॥ १५.२०.२ ॥

那里,林居的婆罗门与许多刹帝利、吠舍、首陀罗环绕侍奉他,婆罗多族的雄牛啊。

15.20.3

स तैः परिवृतो राजा कथाभिः परिनन्द्य तान् ।
अनुजज्ञे स शिष्यान्वै विधिवत्प्रतिपूज्य च ॥ १५.२०.३ ॥

国王被他们环绕,以谈话使他们欢喜,依规矩敬重他们,然后让自己的弟子离去。

15.20.4

सायाह्ने स महीपालस्ततो गङ्गामुपेत्य च ।
चकार विधिवच्छौचं गान्धारी च यशस्विनी ॥ १५.२०.४ ॥

傍晚,国王来到恒河,依规矩行清净礼;荣耀的甘陀利也如此行。

15.20.5

ते चैवान्ये पृथक् सर्वे तीर्थेष्वाप्लुत्य भारत ।
चक्रुः सर्वाः क्रियास्तत्र पुरुषा विदुरादयः ॥ १५.२०.५ ॥

婆罗多啊,他们与其他人分别在圣渡口沐浴,在那里,维杜罗等男子都完成了一切仪式。

15.20.6

कृतशौचं ततो वृद्धं श्वशुरं कुन्तिभोजजा ।
गान्धारीं च पृथा राजन्गङ्गातीर्थमुपानयत् ॥ १५.२०.६ ॥

随后,昆提跋闍之女普利塔与甘陀利,啊国王,把已完成清净礼的年迈公公带到恒河圣渡口。

15.20.7

राज्ञस्तु याजकैस्तत्र कृतो वेदीपरिस्तरः ।
जुहाव तत्र वह्निं स नृपतिः सत्यसङ्गरः ॥ १५.२०.७ ॥

祭司们在那里为国王铺设祭坛,守信的国王便在火中献上祭品。

15.20.8

ततो भागीरथीतीरात्कुरुक्षेत्रं जगाम सः ।
सानुगो नृपतिर्वृद्धो नियतः संयतेन्द्रियः ॥ १५.२०.८ ॥

随后,他从婆吉罗提河岸前往俱卢之野;这位年迈的国王与随从同行,克己守戒,诸根调伏。

15.20.9

तत्राश्रमपदं धीमानभिगम्य स पार्थिवः ।
आससादाथ राजर्षिं शतयूपं मनीषिणम् ॥ १५.२०.९ ॥

那位智慧的国王到达修行处,走近王仙沙塔尤波——那位深思者。

15.20.10

स हि राजा महानासीत्केकयेषु परंपतः ।
स्वपुत्रं मनुजैश्वर्ये निवेश्य वनमाविशत् ॥ १५.२०.१० ॥

他曾是伟大的国王,在迦迦耶人中居首;把自己的儿子立为人间的君主之后,他便进入了森林。

15.20.11

तेनासौ सहितो राजा ययौ व्यासाश्रमं प्रति ।
तत्रैनं विधिवद्राजन्प्रत्यगृह्णात्कुरूद्वहम् ॥ १५.२०.११ ॥

国王与他一同前往毗耶娑的修行处;在那里,国王啊,他依礼迎接了俱卢族中的最尊者。

15.20.12

स दीक्षां तत्र संप्राप्य राजा कौरवनन्दनः ।
शतयूपाश्रमे तस्मिन्निवासमकरोत्तदा ॥ १५.२०.१२ ॥

国王——俱卢族的欢乐——在那里受了灌顶的誓戒,随即便在沙塔尤波的修行处居住下来。

15.20.13

तस्मै सर्वं विधिं राज्ञे राजाऽऽचख्यौ महामतिः ।
आरण्यकं महाराज व्यासस्यानुमते तदा ॥ १५.२०.१३ ॥

大智之王向他讲解了全部仪轨,大王啊,那时在毗耶娑的许可下,讲述了林居之法。

15.20.14

एवं च तपसा राजन्धृतराष्ट्रो महामनाः ।
योजयामास चात्मानं तांश्चाप्यनुचरांस्तदा ॥ १५.२०.१४ ॥

如此,大王啊,大智的持国以苦行约束自己,那时也约束了那些随从。

15.20.15

तथैव देवी गान्धारी वल्कलाजिनधारिणी ।
कुन्त्या सह महाराजि समानव्रतचारिणी ॥ १५.२०.१५ ॥

同样,王后甘陀利身穿树皮与鹿皮,与贡蒂一起,大王啊,遵守同样的誓愿。

15.20.16

कर्मणा मनसा वाचा चक्षुषा चैव ते नृप ।
सन्नियम्येन्द्रियग्राममास्थिताः परमं तपः ॥ १५.२०.१६ ॥

以行为、心、言语乃至目光,大王啊,他们完全约束诸根,安住于最高苦行。

15.20.17

त्वगस्थिभूतः परिशुष्कमांसो ।
जटाजिनी वल्कलसंवृताङ्गः।
स पार्तिवस्तत्र तपश्चचार ।
महर्षिवत्तीव्रमपेतमोहः ॥ १५.२०.१७ ॥

只剩皮与骨,肌肉已干枯,头发蓬乱,身披鹿皮,身体裹着树皮,那位国王在那里如大仙人般苦修,已离迷惑。

15.20.18

क्षत्ता च धर्मार्थविदग्र्यबुद्धिः ।
ससंजयस्तं नृपतिं सदारम्।
उपाचरद्धोरतपोर्जितात्मा ।
तदा कृशो वल्कलचीरवासाः ॥ १५.२०.१८ ॥

知法与利的刹多(维杜罗),智慧第一,与散阇耶一起,以严苦修行坚定其心,侍奉那位国王与王后,那时形容枯槁,身披树皮与破衣。