Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.21

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.21.1

ततस्तत्र मुनिश्रेष्ठा राजानं द्रष्टुमभ्ययुः ।
नारदः पर्वतश्चैव देवलश्च महातपाः ॥ १५.२१.१ ॥

于是,最杰出的仙人那罗陀、波尔瓦塔和大苦行者提婆罗前来拜见国王。

15.21.2

द्वैपायनः सशिष्यश्च सिद्धाश्चान्ये मनीषिणः ।
शतयूपश्च राजर्षिर्वृद्धः परमधार्मिकः ॥ १५.२१.२ ॥

与弟子同来的毗耶娑(广博仙),悉陀与其他智者,以及年迈而极为正直的王仙沙陀由波也来了。

15.21.3

तेषां कुन्ती महाराज पूजां चक्रे यथाविधि ।
ते चापि तुतुषुस्तस्यास्तापसाः परिचर्यया ॥ १५.२१.३ ॥

大王啊,贡蒂依礼供奉他们,苦行者们也因她的侍奉而欢喜。

15.21.4

तत्र धर्म्याः कथास्तात चक्रुस्ते परमर्षयः ।
रमयन्तो महात्मानं धृतराष्ट्रं जनाधिपम् ॥ १५.२१.४ ॥

孩子啊,那里的至上仙人讲述合乎法的故事,使人民之主、大心的持国王欢喜。

15.21.5

कथान्तरे तु कस्मिंश्चिद्देवर्षिर्नारदस्ततः ।
कथामिमामकथयत्सर्वप्रत्यक्षदर्शिवान् ॥ १५.२१.५ ॥

在另一个故事的途中,那位亲眼见证一切的天仙那罗陀讲述了这个故事。

15.21.6

पुरा प्रजापतिसमो राजाऽऽसीदकुतोभयः ।
सहस्रचित्यि इत्युक्तः शतयूपपितामहः ॥ १५.२१.६ ॥

很久以前有一位与生主相等的国王,四方皆无所畏惧;他被称为千思王,是沙陀由波的祖父。

15.21.7

स पुत्रे राज्यमासज्ज्यि ज्येष्ठे परमधार्मिके ।
सहस्रचित्यो धर्मात्मा प्रविवेश वनं नृपः ॥ १५.२१.७ ॥

国王千光将王国交付给最为正法的长子后,以正法之心入山林。

15.21.8

स गत्वा तपसः पारं दीप्तस्य वसुधाधिपः ।
पुरंदरस्य संस्थानं प्रतिपेदे महाद्युतिः ॥ १५.२१.८ ॥

那位大光明的地上之主,达到燃烧苦行的彼岸,得到了补兰达罗(因陀罗)的住处。

15.21.9

दृष्टपूर्वः स बहुशो राजन्सम्पतता मया ।
महेन्द्रसदने राजा तपसा दग्धकिल्बिषः ॥ १५.२१.९ ॥

大王啊,我曾多次见到他,那时我在摩亨陀罗的殿堂中漫游:那位以苦行焚尽罪过的国王。

15.21.10

तथा शैलालयो राजा भगत्तपितामहः ।
तपोबलेनैव नृपो महेन्द्रसदनं गतः ॥ १५.२१.१० ॥

同样,居于山中的国王、祖父巴迦塔,仅凭苦行之力便前往摩亨陀罗的住处。

15.21.11

तथा पृषध्रो राजाऽऽसीद्राजन्वज्रधरोपमः ।
स चापि तपसा लेभे नाकपृष्ठमितो गतः ॥ १५.२१.११ ॥

同样,有一位名叫普利沙德拉的国王,大王啊,他如同持金刚者;他也以苦行获得天界之背,从此处离去。

15.21.12

अस्मिन्नरण्ये नृपते मांधातुरपि चात्मजः ।
पुरुकुत्सो नृपः सिद्धिं महतीं समवाप्तवान् ॥ १५.२१.१२ ॥

人主啊,就在这片森林中,曼陀多之子布卢库特萨王也获得了大成就。

15.21.13

भार्या समभवद्यस्य नर्मदा सरितां वरा ।
सोस्मिन्नरण्ये नृपतिस्तपस्तप्त्वा दिवं गतः ॥ १५.२१.१३ ॥

那位以河流中最殊胜的纳尔马达为妻的国王,在此林中苦修,升往天界。

15.21.14

शशलोमा च राजाऽऽसीद्राजन्परमधार्मिकः ।
सम्यगस्मिन्वने तप्त्वा ततो दिवमवाप्तवान् ॥ १५.२१.१४ ॥

大王啊,曾有一位极为正直的国王名叫沙沙洛摩,他在此林中妥善苦修之后,便升往天界。

15.21.15

द्वैपायनप्रसादाच्च त्वमपीदं तपोवनम् ।
राजन्नवाप्य दुष्प्रापां सिद्धिमग्र्यां गमिष्यसि ॥ १५.२१.१५ ॥

大王啊,蒙受毗耶娑的恩典,你也将在此苦修林中获得难以达到的至高成就而离去。

15.21.16

त्वं चापि राजशार्दूल तपसोन्ते श्रिया वृतः ।
गान्धारीसहितो गन्ता गतिं तेषां महात्मनां ॥ १५.२१.१६ ॥

王中之虎啊,你也将在苦修终了时,荣光环绕,与甘陀利一同走上那些大德者的道路。

15.21.17

पाण्डुः स्मरति ते नित्यं बलहन्तुः समीपगः ।
त्वां सदैव महाराज श्रेयसा स च योक्ष्यति ॥ १५.२१.१७ ॥

般度时常想念你;他居于毁灭波罗的因陀罗身旁。大王啊,他必将以福祉与你相连。

15.21.18

तव शुश्रूषया चैव गान्धार्याश्च यशस्विनी ।
भर्तुः सलोकतां कुन्ती गमिष्यति वधूस्तव ॥ १५.२१.१८ ॥

由于侍奉你与甘陀利,你那位光荣的儿媳昆提也将往其夫之世界而去。

15.21.19

युधिष्ठिरस्य जननी स हि धर्मः सनातनः ।
वयमेतत्प्रपश्यामो नृपते दिव्यवक्षुषाः ॥ १५.२१.१९ ॥

她是坚战之母,她确实是永恒的法。大王,我们以天眼清楚地看到这一点。

15.21.20

प्रवेक्ष्यति महात्मानं विदुरश्च युधिष्ठिरम् ।
संजयस्तदनुध्यानादितः स्वर्गमवाप्स्यति ॥ १५.२१.२० ॥

维杜罗与大德的坚战将进入她之中,而桑加耶因不断思念他们,将从此处获得天界。

15.21.21

एतच्छ्रुत्वा कौरवेन्द्रो महात्मा ।
सार्धं पत्न्या प्रीतिमान्सम्बभूव।
विद्वान्वाक्यं नारदस्य प्रशस्य ।
चक्रे पूजां चातुलां नारदाय ॥ १५.२१.२१ ॥

大德的俱卢之主闻此,与妻子一同欢喜;智者赞叹那罗陀的言语,并向那罗陀献上无比的供养。

15.21.22

ततः सर्वे नारदं विप्रसङ्घाः ।
सम्पूजयामासुरतीव राजन्।
राज्ञः प्रीत्या धृतराष्ट्रस्य ते वै ।
पुनःपुनः सम्प्रहृष्टास्तदानीम् ॥ १५.२१.२२ ॥

于是,所有婆罗门的集会都极其尊敬地供养那罗陀,大王啊;并且出于对国王持国的爱,他们当时一再地极为欢喜。