摩诃婆罗多 · 章 15.23
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.23.1
वनं गते कौरवेन्द्रे दुःखशोकसमन्विताः ।
बभूवुः पाण्डवा राजन्मातृशोकेनि चान्विताः ॥ १५.२३.१ ॥
统领俱卢者入林之后,般度诸子充满悲痛与忧伤;大王啊,他们也为母亲的哀愁所笼罩。
15.23.2
तथा पौरजनः सर्वः शोचन्नास्ते जनाधिपम् ।
कुर्वाणाश्च कथास्तत्र ब्राह्मणा नृपतिं प्रति ॥ १५.२३.२ ॥
同样,城中所有百姓都留在那里为君王悲叹,而婆罗门们在那里不停地谈论着国王。
15.23.3
कथं न राजा वृद्धः स वने वसति निर्जने ।
गान्धारी च महाभागा सा च कुन्ती पृथा कथम् ॥ १५.२३.३ ॥
那位年老的国王如何在荒僻的森林中居住?那位大福的甘陀利,以及那位贡蒂·普利塔,又是怎样的呢?
15.23.4
सुखार्हः स हि राजर्षिरसुखी तद्वनं महत् ।
किमवस्थः समासाद्य प्रज्ञाचक्षुर्महामनाः ॥ १५.२३.४ ॥
那位王仙本应享受幸福,却在这广大的森林中感到不幸。那位有智慧之眼、心胸宽广的人,到达那森林之后处于何种境况?
15.23.5
सुदुष्करं कृतवती कुन्ती पुत्रानपास्य सा ।
राज्यश्रियं परित्यज्य वनं सा समरोचयत् ॥ १५.२३.५ ॥
贡蒂做了极其艰难的事:她离开了儿子们,舍弃了王位的荣耀,选择了森林。
15.23.6
विदुरः किमवस्थश्च भ्रातृशुश्रूषुरात्मवान् ।
स च गावल्गणिर्धीमान्भर्तृपिण्डानुपालकः ॥ १५.२३.६ ॥
自我克制、侍奉兄长的毗杜罗处于何种境况?那位维持主人祭献之饭团的智慧的迦伐尔伽纳之子(桑闪耶)又处于何种境况?
15.23.7
आकुमारं च पौरास्ते चिन्ताशोकसमाहताः ।
तत्रतत्र कथाश्चक्रुः समासाद्य परस्परम् ॥ १५.२३.७ ॥
上至孩童,城中百姓都为忧虑与悲伤所困,到处聚集相互交谈。
15.23.8
पाण्डवाश्चैव ते सर्वे भृशं शोकपरायणाः ।
शोचन्तो मातरं वृद्धामूषुर्नातिचिरं पुरे ॥ १५.२३.८ ॥
众般度之子沉浸于深深的悲痛之中,为年老的母亲而哀伤,他们在城中停留的时间并不长。
15.23.9
तथैव वृद्धं पितरं हतपुत्रं जनेश्वरम् ।
गान्धारीं च महाभागां विदुरं च महामतिम् ॥ १५.२३.९ ॥
同样,也为那年老的父亲、丧子的人主,以及大福的甘陀利和大智的毗杜罗而悲伤。
15.23.10
नैषां बभूव सम्प्रीतिस्तान्विचिन्तयतां तदा ।
न राज्ये न च नारीषु न वेदाध्ययनेषु च ॥ १५.२३.१० ॥
当时思念他们的人,在王权、女人和诵读吠陀之中都找不到丝毫喜悦。
15.23.11
परं निर्वेदमगमंश्चिन्तयन्ता नराधिपम् ।
तं च ज्ञातिवधं घोरं संस्मरन्तः पुनःपुनः ॥ १५.२३.११ ॥
他们思念人主,陷入深深的厌倦,并一再回想那可怕的亲族相杀之事。
15.23.12
अभिमन्योश्च बालस्य विनाशं रणमूर्धनि ।
कर्णस्य च महाबाहोः सङ्ग्रामेष्वपलायिनः ॥ १५.२३.१२ ॥
战阵前列年幼的阿毗曼纽之死,以及从不在任何战斗中逃跑的大臂迦尔纳之死。
15.23.13
तथैव द्रौपदेयानामन्येषां सुहृदामपि ।
वधं संस्मृत्य ते वीरा नातिप्रमनसोऽभवन् ॥ १५.२३.१३ ॥
同样,他们想起德罗波蒂之子及其他朋友的被杀,那些英雄便不太欢喜了。
15.23.14
हतप्रवीरां पृथिवीं हृतरत्नां च भारत ।
सदैव चिन्तयन्तस्ते न शमं चोपलेभिरे ॥ १५.२३.१४ ॥
婆罗多啊,他们总是思念那被杀尽英雄、被夺去珍宝的大地,却得不到安宁。
15.23.15
द्रौपदी हतपुत्रा च सुभद्रा चैव भामिनी ।
नातिप्रीतियुते देव्यौ तदास्तामप्रहृष्टवत् ॥ १५.२३.१५ ॥
丧子的德罗波蒂与光辉的苏跋陀罗,这两位王后当时并不十分欢喜,仿佛并未感到喜悦。
15.23.16
वैराट्यास्तनयं दृष्ट्वा पितरं ते परिक्षितम् ।
धारयन्ति स्म ते प्राणांस्तव पूर्वपितामहाः ॥ १५.२३.१६ ॥
他们看见毗罗吒之女的儿子以及你的父亲波利克希特,你的先祖们便保住了性命。