Vedyatra वेदयात्रा
搜索

摩诃婆罗多 · 章 15.26

हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย

带释义阅读

15.26.1

ततस्ते पाण्डवा दूरादवतीर्य पदातयः ।
अभिजग्मुर्नरपतेराश्रमं विनयानताः ॥ १५.२६.१ ॥

于是般度之子从远处下车,徒步,谦恭俯首,前往国王的修行处。

15.26.2

स च योधजनः सर्वो ये च राष्ट्रनिवासिनः ।
स्त्रियश्च कुरुमुख्यानां पद्भिरेवान्वयुस्तदा ॥ १५.२६.२ ॥

当时,那全体武士、国中居民以及库鲁诸首领的妇女,都徒步跟随他们。

15.26.3

आश्रमं ते ततो जग्मुर्धृतराष्ट्रस्य पाण्डवाः ।
शून्यं मृगगणाकीर्णं कदलीवनशोभितम् ॥ १५.२६.३ ॥

于是般度之子前往持国的修行处。那里空无一人,遍布鹿群,并以芭蕉林为装饰。

15.26.4

ततस्तत्र समाजग्मुस्तापसा नियतव्रताः ।
पाण्डवानागतान्द्रष्टुं कौतूहलसमन्विताः ॥ १५.२६.४ ॥

于是,恪守誓戒的苦行者们聚集在那里,满怀好奇,想见到前来的般度之子。

15.26.5

तानपृच्छत्ततो राजा क्वासौ कौरववंशभृत् ।
पिता ज्येष्ठो गतोऽस्माकमिति बाष्पपरिप्लुतः ॥ १५.२६.५ ॥

国王泪流满面地问他们:“那位承担俱卢族世系的、我们的长辈,去了哪里?”

15.26.6

ते तमूचुस्ततो वाक्यं यमुनामवगाहितुम् ।
पुष्पाणामुदकुंभस्य चार्थे गत इति प्रभो ॥ १५.२६.६ ॥

于是他们对他说:“主上,他去了亚穆纳河沐浴,并为采花和取水罐而去了。”

15.26.7

तैराख्यातेन मार्गेण ततस्ते जग्मुरञ्जसा ।
ददृशुश्चाविदूरे तान्सर्वानथ पदातयः ॥ १५.२६.७ ॥

他们沿着所指的道路迅速前行;随后步兵看见不远处的所有人。

15.26.8

ततस्ते सत्वरा जग्मुः वितुर्दर्शनकाङ्क्षिणः ।
सहदेवस्तु वेगेन प्राधावद्यत्र सा पृथा ॥ १५.२६.८ ॥

于是他们急切地前行,渴望见到他们;但偕提婆飞快地跑向普利塔所在之处。

15.26.9

सुस्वरं रुरुदे धीमान्मातुः पादावुपस्पृशन् ।
सा च बाष्पाकुलमुखी ददर्शक दयितं सुतम् ॥ १५.२६.९ ॥

聪慧的偕提婆触摸母亲的双足,放声大哭;而她满面泪水,看见了她心爱的儿子。

15.26.10

बाहुभ्यां सम्परिष्वज्य समुन्नाम्य च पुत्रकम् ।
गान्धार्याः कथयामास सहद्रेवमुपस्थितम् ॥ १५.२६.१० ॥

她用双臂拥抱儿子并将他抱起,告诉甘达丽,偕提婆已经到来。

15.26.11

अनन्तरं च राजानं भीमसेनमथार्जुनम् ।
नकुलं च पृथा दृष्ट्वा त्वरमाणोपचक्रमे ॥ १५.२६.११ ॥

随后,普利塔看见国王、怖军、阿周那和无种,便急忙走向他们。

15.26.12

सा ह्यग्रे गच्छति तयोर्दपत्योर्हतपुत्रयोः ।
कर्षन्ती तौ ततस्ते तां दृष्ट्वा संन्यपतन्भुवि।
तयोस्तु पादयो राजन्न्यपतन्हतपुत्रयोः ॥ १५.२६.१२ ॥

她走在前面,拉着那对丧子的夫妇;他们看见她,便倒在地上。国王啊,他们倒在那两位丧子者的脚下。

15.26.13

राजा तान्स्वरयोगेन स्पर्शेन च महामनाः ।
प्रत्यभिज्ञाय मेधावी समाश्वासयत प्रभुः ॥ १५.२६.१३ ॥

这位心胸宽广、智慧且有权威的国王,凭借他们声音的相似与触摸认出了他们,并加以安慰。

15.26.14

ततस्ते बाष्पमुत्सृज्य गान्धारीसहितं नृपम् ।
उपतस्थुर्महात्मानो मातरं च यथाविधि ॥ १५.२६.१४ ॥

于是这些大德者流下眼泪,依礼走到与甘陀利同在的国王与母亲面前。

15.26.15

सर्वेषां तोयकलशाञ्जगृहुस्ते स्वयं तदा ।
पाण्डवा लब्धसंज्ञास्ते मात्रा चाश्वासिताः पुनः ॥ १५.२६.१५ ॥

此时般度之子亲自为众人取来水罐;他们恢复知觉后,又被母亲安慰。

15.26.16

तथा नार्यो नृसिंहानां सोऽवरोधजनस्तदा ।
पौरजानपदाश्चैव ददृशुस्तं जनाधिपम् ॥ १५.२६.१६ ॥

同样,那些人中雄狮般的国王的妇女、后宫之人、城市与乡村的百姓,都看见了那位人主。

15.26.17

निवेदयामास तदा जनं तन्नामगोत्रतः ।
युधिष्ठिरो नरपतिः स चैनं प्रत्यपूजयत् ॥ १५.२६.१७ ॥

于是人主坚战向百姓宣布了他的名字与族姓,他也回敬了坚战。

15.26.18

स तैः परिवृतो मेने हर्षबाष्पाविलेक्षणः ।
राजाऽऽत्मानं गृहगतं पुरेवि गजसाह्वये ॥ १५.२६.१८ ॥

他被这些人簇拥着,眼中满含喜悦的泪水,国王觉得自己已回到了象城的家中。

15.26.19

अभिवादितो वधूभिश्च कृष्णाद्याभिः स पार्थिवः ।
गान्धार्या सहितो धीमान्कुन्त्या च प्रत्यनन्दत ॥ १५.२६.१९ ॥

在克里希那等儿媳的敬礼之下,智慧的国王与甘陀利、贡蒂一同欢喜地回应了她们的祝福。

15.26.20

ततश्चाश्रममागच्छत्सिद्धचारणसेवितम् ।
दिदृक्षुभिः समाकीर्णं नभस्तारागणैरिव ॥ १५.२६.२० ॥

随后他来到悉陀与遮罗那侍奉的净修林,林中挤满了想见他的人,宛如缀满星群的天空。