摩诃婆罗多 · 章 15.27
हिन्दी · தமிழ் · తెలుగు · ಕನ್ನಡ · മലയാളം · বাংলা · मराठी · ગુજરાતી · ਪੰਜਾਬੀ · ଓଡ଼ିଆ · اردو · English · Español · Français · Deutsch · Português · Русский · 中文 · 日本語 · العربية · Bahasa Indonesia · ไทย
15.27.1
स तैः सह नरव्याध्रैर्भ्रातृभिर्भरतर्षभ ।
राजा रुचिरपद्माक्षैरासांचक्रे तदाश्रमे ॥ १५.२७.१ ॥
婆罗多之牡牛啊!国王与那些人中之虎、眼如莲花的兄弟们一同在那静修处坐下。
15.27.2
तापसैश्च महाभागैर्नानादेशसमागतैः ।
द्रष्टुं कुरुपतेः पुत्रान्पाण्डवान्पृथुवक्षसः ॥ १५.२७.२ ॥
还有从各地前来的大福德苦行者们,想要见到库卢之主那宽阔胸膛的诸子——般度五子。
15.27.3
ते ब्रुवञ्ज्ञातुमिच्छामः कतमोऽत्र युधिष्ठिरः ।
भीमार्जुनौ यमौ चैव द्रौपदी च यशस्विनी ॥ १५.२७.३ ॥
他们说:"我们想知道这里谁是坚战,谁是怖军、阿周那,那对孪生兄弟,以及光荣的德罗波蒂。"
15.27.4
तानाचख्यौ तदा सूतस्तेषां नाम प्रधानतः ।
संजयो द्रौपदीं चैव सर्वाश्चान्या कुरुस्त्रियः ॥ १५.२७.४ ॥
于是御者桑遮耶主要地为他们一一说出名字,并说出德罗波蒂以及所有其他库卢女子的名字。
15.27.5
य एष जांबूनदशुद्धगौर-
स्तनुर्महासिंह इव प्रवृद्धः।
प्रचण्डघोणः पृथुदीर्घनेत्र-
स्ताम्रायताक्षः कुरुराज एषः ॥ १५.२७.५ ॥
此人如精炼的真金般纯白,身躯如大狮子般高大,鼻梁刚劲,双目宽长,眼睛红而宽阔——这便是库卢王。
15.27.6
अयं पुनर्मत्तगजेन्द्रगामी ।
प्रतप्तचामीकरशुद्धगौरः।
पृथ्वायतांसः पृथुदीर्घबाहु-
र्वृकोदरः पश्यत पश्यतेमम् ॥ १५.२७.६ ॥
此人行走如发情的象王,纯白如烧红的真金,肩宽而长,臂宽而长,乃狼腹(怖军)。看哪,看这个人!
15.27.7
यस्त्वेष पार्श्वेऽस्य महाधनुष्मा-
ञ्श्यामो युवा वारणयूथपाभः।
सिंहोन्नतांसो गजखेलगामी ।
पद्मायताक्षोऽर्जुन एष वीरः ॥ १५.२७.७ ॥
在他身旁站着的是这位大弓手,黝黑的青年,如象群之王,肩如狮子,步态如嬉戏之象,眼如莲花——这位英雄便是阿周那。
15.27.8
कुन्तीसमीपे पुरुषोत्तमौ तु ।
यमाविमौ विष्णुमहेन्द्रकल्पौ।
मनुष्यलोके सकले समोस्ति ।
ययोर्न रूपे न बले न शीले ॥ १५.२७.८ ॥
在贡蒂身边的这两位人中之最,堪比毗湿奴与因陀罗。在整个人类世界中,无人能与他们相比,无论容貌、力量还是品性。
15.27.9
इयं पुनः पद्मदलायताक्षी ।
मध्यं वयः किञ्चिदिव स्पशन्ती।
नीलोत्पलाभा पुरदेवतेव ।
कृष्णा स्थिता मूर्तिमतीव लक्ष्मीः ॥ १५.२७.९ ॥
这里又站着黑公主,眼睛如莲花瓣般大,中年将至却仿佛刚触及,有青莲之光,如城中女神,犹如化身的吉祥天女。
15.27.10
अस्यास्तु पार्श्वे कनकोपमत्व-
गेषा स्थिता मूर्तिमतीव गौरी।
सत्ये स्थिता सा भगिनी द्विजाग्र्या-
श्चक्रायुधस्याप्रतिमस्य तस्य ॥ १५.२७.१० ॥
她身旁站着肤色如金的高利,仿佛化身而立。她是那位无与伦比的持轮者的姐妹,二生者中最优秀的萨提亚。
15.27.11
इयं च जांबूनदशुद्धगौरी ।
पार्थस्य भार्या भुजगेन्द्रकन्या।
चित्राङ्गदा चैव नरेन्द्रकन्या ।
यैषा सवर्णार्द्रमधूकपुष्पैः ॥ १५.२७.११ ॥
此女肤色白皙如纯金,乃阿周那之妻,蛇王之女,亦是国王之女奇坦伽达,身饰金色湿润的摩度迦花。
15.27.12
इयं स्वसा राजचमूपतेश्च ।
प्रवृद्धनीलोत्पलदामवर्णा।
पस्पर्ध कृष्णेन सदा नृपो यो ।
वृकोदरस्यैष परिग्रहोऽग्र्यः ॥ १५.२७.१२ ॥
她是王家军队统帅的妹妹,肤色如盛开的青莲花环。她曾是那位总与黑天争胜的国王之妻;如今她是狼腹(怖军)的首要妻子。
15.27.13
इयं च राज्ञो मगधाधिपस्य ।
सुता जरासंध इति श्रुतस्य।
यवीयसो माद्रवतीसुतस्य ।
भार्या मता चम्पकदामगौरी ॥ १५.२७.१३ ॥
她是摩揭陀王、以名声著称的讚羅僧伽(Jarāsaṃdha)之女,肤色白皙如黄兰花环。她被认为是摩德罗之子中幼子(偕天)的妻子。
15.27.14
इन्दीवरश्यामतनुः स्थिता तु ।
यैषा पराऽऽसन्नतरोर्लतेव।
भार्या मता माद्रवतीसुतस्य ।
ज्येष्ठस्य सेयं कमलायताक्षी ॥ १५.२७.१४ ॥
这位女子身形黝黑如青莲,立身如缠绕在近旁树上的藤蔓;她被认为是摩德罗之子中长子(无种)的妻子。她有莲花般的眼睛。
15.27.15
इयं तु निष्टप्तसुवर्णगौरी ।
राज्ञो विराटस्य सुता सपुत्रा।
भार्याऽभिमन्योर्निहतो रणे यो ।
द्रोणादिभिस्तैर्विरथो रथस्थैः ॥ १५.२७.१५ ॥
这位肤色如精炼黄金的女子,是王者毗罗吒之女,与她的儿子同在。她是阿毗曼尤的妻子;阿毗曼尤在战场上失去战车,被德罗纳等车战者杀害。
15.27.16
एतास्तु सीमन्तशिरोरुहा याः ।
शुक्लोत्तरीया नरराजपत्न्यः।
राज्ञोस्य वृद्धस्य परंशताख्याः ।
स्नुषा नृवीराहतपुत्रनाथाः ॥ १५.२७.१६ ॥
这些是诸王的妻子,发分于顶,身披白色上衣;她们是这位年迈国王(持国)的儿媳,被称为波罗舍多,她们的儿子与丈夫都被英雄所杀。
15.27.17
क्षान्ताश्च दान्ताश्च कुलोद्भवाश्च ॥ १५.२७.१७ ॥
她们忍耐、克制,出身高贵。
15.27.18
एवं स राजा कुरुवृद्धवर्यः ।
समागतस्तैर्नरदेवपुत्रैः।
पप्रच्छ सर्वं कुशलं तदानीं ।
गतेषु सर्वेष्वथ तापसेषु ॥ १५.२७.१८ ॥
那位库鲁长老中最优秀的国王,便这样与那些王子相见,随即询问了所有人的平安;当所有苦行者都离去之后。
15.27.19
योधेषु चाप्याश्रममण्डलं त-
न्मत्वा निविष्टेषु विमुच्य पत्रम्।
स्त्रीवृद्धबाले च सुसंनिविष्टे ।
यथार्हतस्तान्कुशलान्यपृच्छत् ॥ १५.२७.१९ ॥
在战士之中,他也将那片修行林园视作如此,待他们放下兵器安顿下来之后,依照各人的身份,询问了那些与妇女、老人、孩童安居一处之人的平安。